नास्यापराद्धाः शेषमवाप्नुवन्ति नायं वैरं विस्मरते कदाचित्। वैरस्यान्तं संविधायोपयाति पश्चाच्छान्तिं न च तत्तप्यतीव
धनुर्धराग्र्यो धृतिमान्यशस्वी जितेन्द्रियो वृद्धसेवी नृवीरः। भ्राता च शिष्यश्च युधिष्ठिरस्य धनंजयो नाम पतिर्ममैषः
यो वै न कामान्न भयान्न लोभा- त्त्यजेद्धर्मं न नृशंसं च कुर्यात्। स एष वैश्वानरतुल्यतेजाः कुन्तीसुतः शत्रुसहः प्रमाथी
यः सर्वधर्मार्तविनिश्चयज्ञो भयार्तानां भयहर्ता मनीषी। `बन्धुप्रियः शस्त्रभृतां वरिष्ठो महाहवेष्वप्रतिवार्यवीर्यः
यस्योत्तमं रूपमाहुः पृथिव्यां यं पाण्डवाः परिरक्षन्ति सर्वे। प्राणैर्गरीयांसमनुव्रतं वै स एष वीरो नकुलः पतिर्मे
यः खङ्गयोधी लघुचित्रहस्तो महांश्च धीमान्सहदेवोऽद्वितीयः। यस्याद्यकर्म द्रक्ष्यसे मूढसत्व शतक्रतोर्वा दैत्यसेनासु सङ्ख्ये
शूरः कृतास्त्रो मतिमान्मनस्वी प्रियंकरो धर्मसुतस्य राज्ञः। हुताशचन्द्रार्कसमानतेजा जघन्यजः पाण्डवानां प्रियश्च
बुद्ध्या समो यस् नरो न विद्यते वक्ता तथा सत्सु विनिश्चयज्ञः। सएष शूरो नित्यममर्षणश्च धीमान्प्राज्ञः सहदेवः पतिर्मे
त्यजेत्प्राणान्प्रविशेद्धव्यवाहं न त्वेवैष व्याहरेद्धर्मबाह्यम्। सदा मनस्वी क्षत्रधर्मे रतश्च कुन्त्याः प्राणैरिष्टतमो नृवीरः
विशीर्यनतीं नावमिवार्णवान्ते रत्नाभिपूर्णां मकरस्य पृष्ठे। सेनां तवेमां हतसर्वयोधां विक्षोभितां द्रक्ष्यसि पाण्डुपुत्रैः
इत्येते वै कथिताः पाण्डुपुत्रा यांस्त्वं मोहादवमत्य प्रवृत्तः। यद्येतेभ्यो मुच्यसे रिष्टदेहः पुनर्जन्म प्राप्स्यसे जीवितं च
ततः पार्थाः पञ्चपञ्चेन्द्रकल्पा- स्त्यक्त्वा त्रस्तान्प्राञ्जलींस्तान्पदातीन्। यथाऽनीकं शरवर्षान्धकारं चक्रुः क्रुद्धाः सर्वतस्ते निगृह्य
संतिष्ठध्वं प्रहरत तूर्णं विपरिधावत। इति स्म सैन्धवो राजा चोदयामास तान्नृपन्
ततो घोरतमः शब्दोरणे समभवत्तदा। भीमार्जुनयमान्दृष्ट्वा सैन्यानां सयुधिष्ठिरान्
शिबिसिंधुत्रिगर्तानां विषादश्चाप्यजायत। तान्दृष्ट्वापुरुषव्याघ्रान्व्याघ्रानिव बलोत्कटान्
हेमबिन्दुं महोत्सेधां सर्वशैक्यायसीं गदाम्। प्रगृह्याभ्यद्रवद्भीमः सैन्धवं कालचोदितम्
तदन्तरमथावृत्य कोटिकाश्योऽभ्यहारयत्। महता रथवंशेन परिवार्य वृकोधरम्
शक्तितोमरनाराचैर्वीरबाहुप्रचोदितैः। कीर्यमाणोपि बहुभिर्न स्म भीमोऽभ्यकम्पत
गजं तु सगजारोहं पदातींश्च चतुर्दश। जघान गदया भीमः सैन्धवध्वजंनीमुखे
पार्थः पञ्चशताञ्शूरान्पार्वतीयान्महारथान्। परीप्समानः सौवीरं जघान ध्वजिनीमुखे
राजा स्वयं सुवीराणां प्रवराणां प्रहारिणाम्। निमेषमात्रेण शतं जघान समरे तदा
ददृशे नकुलस्तत्ररथात्प्रस्कन्द्य खङ्गधृत्। शिरांसि पादरक्षाणां बीजवत्प्रवपन्मुहुः
सहदेवस्तु संयाय रथेन गजयोधिनः। पातयामास नाराचैर्द्रुमेभ्य इव बर्हिणः
ततस्त्रिगर्तः सधनुरवतीर्य महारथात्। गदया चतुरो वाहान्राज्ञस्तस् तदाऽवधीत्
तमथाभ्यागतं राजा पदातिं कुन्तिनन्दनः। अर्धचन्द्रेण बाणएन विव्याधोरसि धर्मराट्
स भिन्नहृदयो वीरो वक्राच्छोणितमुद्वमन्। पपाताभिमुखं प्राप्तश्चिन्नमूल इव द्रुमः
इन्द्रसेनद्वितीयस्तु रथात्प्रस्कन्द्य धर्मराट्। हताश्वः सहदेवस्य प्रतिपेदे महारथम्
नकुलं त्वभिसंवार्य क्षेमंकरमहामुखौ। उभावुभतस्तीक्ष्णैः शरवर्षैरवर्षताम्
तौ शरैरभिवर्षन्तौ जीमूताविव वार्षिकौ। एकैकेन विपाठेन जघ्ने माद्रवतीसुतः
त्रिगर्तराजः सुरथस्तस्याथ गजूर्गतः। रथमाक्षेपयामास गजेन गजयानवित्