यद्येव देवीं पृथिवीं प्रविष्टा दिवं प्रपन्नाऽप्यथवा समुद्रम्। तस्या गमिष्यन्ति पदे हि पार्था- स्तथा हि संतप्यति धर्मराजः
को हीदृशानामरिमर्दनानां क्लेशक्षमाणामपराजितानाम्। प्राणैः समामिष्टतमां जिहीर्षे- दनुत्तमं रत्नमिव प्रमूढः
न बुध्यते नाथवतीमिहाद्य बहिश्चरं हृदयं पाण्डवानाम्। कस्याद्य कायं प्रतिभिद्य घोरा महीं प्रवेक्ष्यन्ति शिताः शराग्र्याः
मा त्वं शुचस्तां प्रति भीरु विद्धि यथाऽद्य कृष्णा पुनरेष्यतीति। निहत्य सर्वान्द्विषतः समग्रा- न्पार्थाः समेष्यनत्यथ याज्ञसेन्या
अथाब्रवीच्चारुमुखं प्रसृज्य धात्रेयिका सारथिमिन्द्रसेनम्। जयद्रथेनापहृताप्रमथ्य पञ्चेन्द्रकल्पान्परिभूय कृष्णा
तिष्ठन्ति वर्त्मानि नवान्यमूनि वृक्षाश्च न म्लान्ति तथैव भग्नाः। आवर्तयध्वं ह्यनुयात शीघ्रं न दूरयातैव हि राजपुत्री
सन्नह्यध्वं सर्व एवेन्द्रकल्पा महान्ति चारूणि च दंशनानि। गृह्णीत चापानि महाधनानि शरांश्च शीघ्रं पदवीं व्रजध्वम्
पुरा हि निर्भर्त्सनदण्डमोहिता प्रमूढचित्ता वदनेन शुष्यता। ददाति कस्मैचिदनर्हते तनुं वराज्यपूर्णामिव भस्मनि स्रुचम्
पुरा तुषाग्नाविव हूयते हविः पुरा श्मशाने स्रगिवापविद्ध्यते। पुरा च सोमोऽध्वरगोऽवलिह्यते शुना यथा विप्रजने प्रमोहिते
पुरा हि पार्थाश्च दृतौ च कापिली प्रसिच्छते क्षीरधारा यतध्वम्'। महत्यरण्ये मृगयां चरित्वा पुरा सृगालो नलिनीं विगाहते
पुरा हि मन्त्राहुतिपूजितायां हुताग्निवेद्यां बलिभुङ्गिलीयते। श्रुतिं च सम्यक्प्रसृतां महाध्वरे ग्राम्यो जनो यद्वदसौ न नाशयेत्
मा वः प्रियायाः सुनसं सुलोचनं चन्द्रप्रभाच्छं वदनं प्रसन्नम्। स्पृश्याच्छुभं कश्चिदकृत्यकारी श्वा वै पुरोडाशमिवाध्वरस्थम्
एतानि वर्त्मान्यनुयात शीघ्रं मा वः कालः क्षिप्रमिहात्यगाद्वै
शीघ्रं प्रधावध्वमितो नरेन्द्रा यावन्न दूरं व्रजतीति पापः। प्रत्याहरध्वं द्विषतां सकाशा- ल्लक्ष्मीमिव स्वां दयितां नृसिंहाः
भद्रे प्रतिक्राम नियच्छ वाचं माऽस्मत्सकाशे परुषाण्यवोचः। राजानो वा यदि वा राजपुत्रा बलेन मत्ताः पञ्चतां प्राप्नुवन्ति
एतावदुक्त्वा प्रययुर्हि शीघ्रं तान्येव वर्त्मान्यनुवर्तमानाः। मुहुर्मुहुर्व्यालवदुच्छ्वसन्तो ज्यां विक्षिपन्तश्च महाधनुर्भ्यः
ततोऽपश्यंस्तस्य सैन्यस्य रेणु- मुद्धूतं वै वाजिस्वुरप्रणुन्नम्। पदातीनां मध्यगतं च धौम्यं विक्रोशन्तं भीम पार्थेत्यभीक्ष्णम्
ते सान्त्व्य धौम्यं परिदीनसत्वाः सुखं भवानेत्विति राजपुत्राः। श्येना यथैवामिषसंप्रयुक्ता जवेन तत्सैन्यमथाभ्यधावन्
तेषां महेन्द्रोपमविक्रमाणां संरब्धानां धर्षणाद्याज्ञसेन्याः। क्रोधः प्रजज्वाल जयद्रथं च दृष्ट्वा प्रियां तस्य रथे स्थितां च
प्रचुक्रुशुश्चाप्यथ सिन्धुराजं वृकोदरश्चैव धनंजयश्च। यमौ च राजा च महाधनुर्धरा- स्ततो दिशः संमुमुहुः परेषाम्
ततो घोरतरः शब्दो वने समभवत्तदा। भीमसेनार्जुनौ दृष्ट्वाक्षत्रियणाममर्षिणाम्
तेषां ध्वजाग्राण्यभिवीक्ष्य राजा स्वयंदुरात्मा कुरुपुङ्गवानाम्। जयद्रथो याज्ञसेनीमुवाच रथे स्थितां भानुमतीं हतौजाः
आयान्तीमे पञ्चरथा महान्तो मन्ये च कृष्णे पतयस्तवैते। सा जानती ख्यापय नः सुकेशि परंपरं पाण्डवानां रथस्थम्
किं ते ज्ञातैर्मूढ महाधनुर्धरै- रनायुष्यं कर्म कुत्वाऽतिघोरम्। एते वीराः पतयो मे समेता न वः शेषः कश्चिदिहास्ति युद्धे
आख्यातव्यं त्वेव सर्वं मुमूर्षो- र्मया तुभ्यं पृष्टया धर्म एषः। न मे व्यथा विद्यते त्वद्भयं वा संपश्यन्त्याः सानुजं धर्मराजम्
यस् ध्वजाग्रे नदतो मृदङ्गौ नन्दोपनन्दौ मधुरौ सुयुक्तौ। एनं स्वधर्मार्थविनिश्चयज्ञं सदा जनाः कृत्यवन्तोऽनुयान्ति
य एष जाम्बूनदशुद्धगौरः। प्रचण्डघोणस्तनुरायताक्षः। एतं कुरुश्रेष्ठतमं वदन्ति युधिष्ठिरं धर्मसुतं पतिं मे
अप्येष शत्रोः शरणागतस्य दद्यात्प्राणान्धर्मचारी नृवीरः। परैह्येनं मूढ जवेन भूतये त्वमात्मनः प्राञ्जलिर्न्यस्शस्त्रः
अथाप्येनं पश्यसि यं रथस्यं महाभुजं सालमिव प्रवृद्धम्। संदष्टौष्ठं भ्रुकुटीसंहतभ्रुवं वृकोदरो नाम पतिर्ममैषः
आजानेया बलिनः साधुदान्ता महाबलाः शूरमुदावहन्ति। एतस्य कर्माण्यतिमानुषाणि भीमेति शब्दोऽस्य ततः पृथिव्याम्