महाबला किंत्विह दुर्बलेव सौवीरराजस्य मताऽहमस्मि। नाहं प्रमाथादिह संप्रतीता सौवीरराजं कृपणं वदेयम्
यस्या हि कृष्णौ पदवीं चरेतां समास्थितावेकरथे समेतौ। इन्द्रोऽपितां नापहरेत्कथंचि- न्मनुष्यमात्रः कृपणः कुतोऽन्यः
यथा विकीटी परवीरघाती निघ्नन्रथस्थो द्विषतां मनांसि। मदन्तरे त्वद्ध्वजिनीं प्रवेष्टा वक्षं दहन्नग्निरिवोष्णगेषु
जनार्दनः सान्धकवृष्णिवीरो महेष्वासाः केकयाश्चापि सर्वे। एते हि सर्वे मम राजपुत्राः प्रहृष्टरूपाः पदवीं चरेयुः
मौर्वीविसृष्टाः स्तनयित्नुघोषा गाण्डीवमुक्तास्त्वतिवेगवन्तः। हस्तं समाहत्य धनंजयस्य भीमाः शब्दं घोरतरं नदनति
गाण्डीवमुक्तांश्च महाशरौघान् पतङ्गसङ्घानिव शीघ्रवेगान्। यदा द्रष्टास्यर्जुनं वीर्यशालिनं तदा स्वबुद्धिं प्रतिनिन्दितासि
सशङ्खघोषः सतलत्रघोषो गाण्डीवधन्वा मुहुरुद्वहंश्च। यदा शरानर्पयिता तवोरसि तदा मनस्ते किमिवाभविष्यत्
गदाहस्तं भीममभिद्रवन्तं माद्रीपुत्रौ संपतन्तौ दिशश्च। अमर्षजं क्रोधविषं वमन्तौ दृष्ट्वा चिरं तापमुपैष्यसेऽधम
यथा वाऽहं नातिचरे कथंचि- त्पतीन्महार्हान्मनसाऽपिजातु। तेनाद्य सत्येन वशीकृतंत्वां द्रष्टास्मि पार्थैः परिकृष्यमाणम्
न संभ्रमं गन्तुमहं हि शक्ष्ये त्वया नृशंसेन विकृष्यमाणा। समागताऽहं हि कुरुप्रवीरैः पुनर्वनं काम्यकमागताऽस्मि
इत्येवमुक्तस्तु स सिन्धुनाथ- स्तां द्रौपदीमाहविशालनेत्राम्। आरुह्यतामाशु रथं मदीयं मा त्वां वलाद्दौपदिकर्षयेहम्
सा ताननुप्रेक्ष्य विशालनेत्रा जिघृक्षमाणानवभर्त्सयन्ती। प्रोवाच मा मा स्पृशतेति भीता धौम्यं प्रचुक्रोश पुरोहितं सा
जग्राह तामुत्तरवस्त्रदेशे जयद्रथस्तं समवाक्षिपत्सा। तया समाक्षिप्ततनुः स पापः पपात शाखीव निकृत्तमूलः
प्रगृह्यमाणा तु महाजवेन मुहुर्विनिःश्वस्य च राजपुत्री। सा मृष्यमाणा रथमारुरोह धौम्यस्य पादावभिवाद्य कृष्णा
नेयं शक्या त्वया नेतुमविजित्य महारथान्। धर्मं क्षत्रस् पौराणमवेक्षस्व जयद्रथ
क्षुद्रं कृत्वाफलंपापं त्वं प्राप्स्यसि न संशयः। आसाद्य पाण्डवान्वीरान्धर्मराजपुरोगमान्
इत्युक्तवाह्रियमाणां तां राजपुत्रीं यशस्विनीम्। अन्वगच्छत्तदा धौम्यः पदातिगणमध्यगः
ततो दिशः संपरिवृत्य पार्था मृगान्वराहान्महिपांस्च हन्वा। धनुर्धराः श्रेष्ठतमाः पृथिव्यां पृथक्चरन्तः सहिता बभूवुः
ततो मृगव्यालजनानुकीर्णं महावनं तद्विहगोपघुष्टम्। भ्रातॄंश्च तानभ्यवदद्युधिष्ठिरः श्रुत्वा गिरो व्याहरतां मृगाणाम्
आदित्यदीप्तां दिशमभ्युपेत्य मृगा द्विजाः क्रूरमिमे वदन्ति। आयासमुग्रं प्रतिवेदयन्तो महाभयं शत्रुभिर्वाऽवमानम्
क्षिप्रं निवर्तध्वमलं मृगैर्नो मनो हि मे दूयति दह्यते च। बुद्धिं समाच्छाद्य च मे समन्यु- रुद्धूयते प्राणपतिः शरीरे
सरः सुपर्णन हृतोरगेन्द्र- मराजकं राष्ट्रमिवेह शान्तम्। एवंविधं मे प्रतिभाति काम्यकं शौण्डैर्यथा पीतसुरश्च कुम्भः
ते सैन्धवैरग्न्यनिलोग्रवेगै- र्महाजवैर्वाजिभिरुह्यमानाः। युक्तैर्बृहद्भिः सुरथैर्नृवीरा- स्तदाश्रमायाभिमुखा बभूवुः
तेषां तु गोमायुरनल्पघोषो निवर्ततां वाममुपेत्य पार्श्वम्। प्रव्याहरत्तत्प्रविमृश्य राजा प्रोवाच भीमं च धनंजयं च
यथा वदत्येप विहीनयोनिः सालावृकोवाममुपेत्य पार्स्वम्। सुव्यक्तमस्मानवमत्य पापैः कृतोऽभिमर्दः कुरुभिः प्रसह्य
एत्याथ ते तद्वनमाविशन्तो महत्यरण्ये मृगयां चरित्वा। बालामपश्यन्त तदा रुदन्तीं धात्रेयिकां प्रेष्यवधूं प्रियायाः
तामिन्द्रसेनस्त्वरितोऽभिसृत्य रथादवप्लुत्य ततोऽभ्यधावत्। प्रोवाच चैनां वचनं नरेन्द्र धात्रेयिकामार्ततरस्तदानीम्
कच्चित्परैर्नापकृतं वनेऽस्मिन्
पर्याकुला साधु समीक्ष्यसूत- मभ्यापतन्तं द्रुतमिन्द्रसेनम्। उरो घ्नती कष्टतरं तदानी- मुच्चैः प्रचुक्रोश हृतेति देवी
अनिन्द्यरूपा तु विशालनेत्रा शरीरतुल्या कुरुपुङ्गवानाम्। `केनात्मनाशाय यदापनीता छिद्रं समासाद्य नरेन्द्रपत्नी