इत्युक्ता सिन्धुराजेन वाक्यं हृदयकम्पनम्। कृष्णा तस्मादपाक्रामद्देशात्सभ्रुकुटीमुखी
अवमत्यास्य तद्वांक्यमाक्षिप्य च सुमध्यमा। मैवमित्यब्रवीत्कृष्णा लज्जस्वेति च सैन्धवम्
सा काङ्क्षमाणा भर्तृणामुपयातमनिन्दिता। विलम्बयामास परं वाक्यैर्वाक्यानि युञ्जती
नैवं वद महाबाहो न्याय्यं त्वं न च मन्यसे। पाण्डूनां धार्तराष्ट्राणां स्वसा चैव कनीयसी
दुश्शला नाम तस्यास्त्वं भर्ता राजकुलोद्वह। मम भ्राता च न्याय्येन त्वया रक्ष्या महारथ
धर्मिष्ठानां कुले जातो न धर्मं त्वमवेक्षसे। इत्युक्तः सिन्धुराजोथ वाक्यमुत्तरमब्रवीत्
राज्ञां धर्मं न जानीषे स्त्रियो रत्नानि चैव हि। साधारणानि लोकेऽस्मिन्प्रवदन्ति मनीषिणः
स्वसा च स्वस्रिया चैव भ्रातृभार्या तथैव च। सुखं गृह्णन्ति राजानस्ताश्च तत्र नृपोद्भवाः
सरोषरागोपहतेन वल्गुना सरागनेत्रेण नतोन्नतभ्रुवा। मुखेन विस्फूर्य सुवीरराष्ट्रपं ततोऽब्रवीत्तं द्रुपदात्मजा पुनः
यशस्विनस्तीक्ष्णविषान्महारथा- नभिब्रुवन्मूढ न लज्जसे कथम्। महेन्द्रकल्पान्निरतान्स्वकर्मसु स्तितान्समूहेष्वपि यक्षरक्षसाम्
न किंचिदार्याः प्रवदन्ति पापं वनेचरंवा गृहमेधिनं वा। तपस्विनं संपरिपूर्णविद्यं भजन्ति चैवं सुनराः सुवीर
अहं तु मन्ये तव नास्ति कश्चि- देतादृशे क्षत्रियसंनिवेशे। यस्त्वद्य पातालमुखे पतन्तं पाणौ गृहीत्वा प्रतिसंहरेत
नागं प्रमिन्नं गिरिकूटकल्प- मुपत्यकां हैमवतीं चरन्तम्। दण्डीव यूथादपसेधसि त्वं यो जेतुमाशंससि धर्मराजम्
बाल्यात्प्रसुप्तस्य महाबलस्य सिंहस् पक्ष्माणि मुखाल्लुनासि। पदा समाहत्य पलायमानः क्रुद्धं यदा द्रक्ष्यसि भीमसेनम्
महाबलं घोरतरं प्रवृद्धं जातं हरिं पर्वतकन्दरेषु। प्रसुप्तमुग्रं प्रपदेन हंसि यः क्रुद्धमायोत्स्यसि जिष्णुमुग्रम्
कृष्णोरगौ तीक्ष्णमुखौ द्विजिह्वौ मत्तः पदा क्रामसि पुच्छदेशे। यः पाण्डवाभ्यां पुरुषोत्तमाभ्यां जघन्यजाभ्यां प्रयुयुत्ससे त्वम्
यथा च वेणुः कदली नलो वा फलन्त्यभावाय न भूतयेऽऽत्मनः। तथैव मां तैः परिरक्ष्यमाणा- मादास्यसे कर्कटकीव गर्भम्
जानामि कृष्णे विदितं ममैत- द्यथाविधास्ते नरदेवपुत्राः। न त्वेवमेतेन विभीषणेन शक्या वयं त्रासयितुं त्वयाऽद्य
वयं पुनः सप्तदशेषु कृष्णे कुलेषु सर्वेऽनवमेषु जाताः। षड्भ्यो गुणेभ्योऽभ्यधिका विहीना न्मन्यामहे द्रौपदी पाण्डुपुत्रान्
सा क्षिप्रमातिष्ठ गजं रथं वा न वाक्यमात्रेण वयं हि शक्याः। आशंस वा त्वं कृपणं वदन्ती सौवीरराजस्य पुनः प्रसादम्
महाबला किंत्विह दुर्बलेव सौवीरराजस्य मताऽहमस्मि। नाहं प्रमाथादिह संप्रतीता सौवीरराजं कृपणं वदेयम्
यस्या हि कृष्णौ पदवीं चरेतां समास्थितावेकरथे समेतौ। इन्द्रोऽपितां नापहरेत्कथंचि- न्मनुष्यमात्रः कृपणः कुतोऽन्यः
यथा विकीटी परवीरघाती निघ्नन्रथस्थो द्विषतां मनांसि। मदन्तरे त्वद्ध्वजिनीं प्रवेष्टा वक्षं दहन्नग्निरिवोष्णगेषु
जनार्दनः सान्धकवृष्णिवीरो महेष्वासाः केकयाश्चापि सर्वे। एते हि सर्वे मम राजपुत्राः प्रहृष्टरूपाः पदवीं चरेयुः
मौर्वीविसृष्टाः स्तनयित्नुघोषा गाण्डीवमुक्तास्त्वतिवेगवन्तः। हस्तं समाहत्य धनंजयस्य भीमाः शब्दं घोरतरं नदनति
गाण्डीवमुक्तांश्च महाशरौघान् पतङ्गसङ्घानिव शीघ्रवेगान्। यदा द्रष्टास्यर्जुनं वीर्यशालिनं तदा स्वबुद्धिं प्रतिनिन्दितासि
सशङ्खघोषः सतलत्रघोषो गाण्डीवधन्वा मुहुरुद्वहंश्च। यदा शरानर्पयिता तवोरसि तदा मनस्ते किमिवाभविष्यत्
गदाहस्तं भीममभिद्रवन्तं माद्रीपुत्रौ संपतन्तौ दिशश्च। अमर्षजं क्रोधविषं वमन्तौ दृष्ट्वा चिरं तापमुपैष्यसेऽधम
यथा वाऽहं नातिचरे कथंचि- त्पतीन्महार्हान्मनसाऽपिजातु। तेनाद्य सत्येन वशीकृतंत्वां द्रष्टास्मि पार्थैः परिकृष्यमाणम्
न संभ्रमं गन्तुमहं हि शक्ष्ये त्वया नृशंसेन विकृष्यमाणा। समागताऽहं हि कुरुप्रवीरैः पुनर्वनं काम्यकमागताऽस्मि