एतैः सहायैरुपयाति राजा मरुद्गणैरिन्द्र इवाभिगुप्तः। अजानतां ख्यापय नः सुकेशि कस्यासि भार्या दुहिता च कस्य
अथाब्रवीद्द्रौपदी राजपुत्री पृष्टा शिबीनां कप्रवरेण तेन। अवेक्ष्य मन्दं प्रविमुच्य शाखां संगृह्णती कौशिकमुत्तरीयम्
बुद्ध्याऽभिजानामि नरेनद्रपुत्र न मादृशी त्वामभिभाष्टुमर्हति। न त्वेह वक्ताऽस्ति तवेह वाक्य- मन्यो नरो वाऽप्यथवाऽपि नारी
एका ह्यहं संप्रति तेन वाचं ददानि वै भद्र निबोध चेदम्। अहं ह्यरण्येकथमेकमेका त्वामालपेयं निरता स्वधर्मे
जानामि च त्वां सुरथस्य पुत्रं यं कोटिकाश्येति विदुर्मनुष्याः। तस्मादहं शैब्य तथैव तुभ्य- माख्यामि बन्धून्प्रथितं कुलं च
अपत्यमस्मि द्रुपदस्य राज्ञः कृष्णेति मां शैब्य विदुर्मनुष्याः। साऽहं वृणे पञ्च जनान्पतित्वे ये खाण्डवप्रस्थगताः श्रुतास्ते
युधिष्ठिरो भीमसेनार्जुनौ च माद्र्याश्च पुत्रौ पुरुषप्रवीरौ। ते मां निवेश्यह दिशश्चतस्रो विबज्य पार्था मृगयां प्रयाताः
प्राचीं राजा दक्षिणां भीमसेनो जयः प्रतीचीं यमजावुदीचीम्। मन्ये तु तेषां रथसत्तमानां कालो बहुः प्राप्ता इहोपयातुम्
संमानिता यास्यथ तैर्यथेष्टं विमुच्य वाहानवरोहयध्वम्। प्रियातिथिर्धर्मसुतो महात्मा प्रीतो भविष्यत्यभिवीक्ष्य युप्मान्
एतावदुक्त्वा द्रुपदात्मजा सा शैव्यात्मजं चन्द्रसुखी प्रतीता। विवेश तां पर्णशालां प्रशस्तां संचिन्त्य तेषामतिथिस्वधर्मम्
तथाऽऽसीनेषु सर्वेषु तेषु राजसु भारत। `कोटिकाश्यो जगामाशु सिन्धुराजनिवेशनम्
यदुक्तं कृष्णया सार्धं तत्सर्वं प्रत्यवेदयत्। कोटिकाश्यवचः श्रुत्वा शैब्यं सौवीरकोऽब्रवीत्
यदा वाचं व्याहरन्त्यामस्यां मे रमते मनः। सीमन्तिनीनां सुख्यायां विनिवृत्तः कथं भवान्
एतां दृष्ट्वा स्त्रियो मेऽन्या यथा शाखामृगस्त्रियः। प्रतिभान्ति महाबाहो सत्यमेतद्ब्रवीमि ते
दर्शनादेव हि मनस्तया मेऽपहृतं भृशम्। तां समाचक्ष्व कल्याणीं यदि स्याच्छैब्य मानुषी
एषा वै द्रौपदी कृष्णा राजपुत्री यशस्विनी। पञ्चानां पाण्डुपुत्राणां महिषी संमता भृशम्
सर्वेषां चैव पार्थानां प्रिया बहुमता सती। तया समेत्य सौवीर सौवीराभिमुखो व्रज
एवमुक्तः प्रत्युवाच पश्यामि द्रौपदीमिति। पतिः सौवीरसिन्धूनां दुष्टभावो जयद्रथः
स प्रविश्याश्रमं पुण्यं सिंहगोष्ठं वृको यथा। आत्मना सप्तमः कृष्णामिदं वचनमब्रवीत्
कुशलं ते वरारोहे भर्तारस्तेऽप्यनामयाः। येषां कुशलकामासि तेऽपिकच्चिदनामयाः
अपि ते कुशलं राजन्राष्ट्रे कोशे बले तथा। कच्चिदेकः शिबीनाढ्यान्सौवीरान्सह सिन्धुभिः। अनुतिष्ठसि धर्मेण ये चान्ये विदितास्त्वया
कौरव्यः कुशली राजा कुन्तीपुत्रो युधिष्ठिरः। अहं च भ्रातरश्चास्य यांश्चान्यान्परिपृच्छसि
पाद्यं प्रतिगृहाणेदमासनं च नृपात्मज। मृगान्विता मृगीश्चैव प्रातराशं ददानि ते
ऐणेयान्पृषतान्न्यङ्कून्हरिणाञ्शरभाञ्शशान्। ऋक्षाव्रुरूञ्शम्बरांश्च गवयांश्च मृगान्बहून्
वराहामहिषांश्चैव याश्चान्या मृगजातयः। प्रदास्यति स्वयं तुभ्यं कुन्तीपुत्रो युधिष्टिरः
कुशलं प्रातराशस्य सर्वं मे दित्सितं त्वया। एहि मे रथमारोह सुखमाप्नुहि केवलम्
गतश्रीकान्हृतराज्यान्कृपणान्गतचेतसः। अरण्यवासिनः पार्थान्नानुरोद्धुं त्वमर्हसि
नैव प्राज्ञा गतश्रीकं भर्तारमुपयुञ्जते। युञ्जानमनुयुञ्जीत न शरियः संक्षये वसेत्
श्रिया विहीना राष्ट्राच्च विनष्टाः शाश्वतीः समाः। अलं ते पाण्डुपुत्राणां भक्त्या क्लेशमुपासितुम्
भार्या मे भव सुश्रोणि त्यजैनान्मुखमाप्नुहि। अखिलान्सिन्धुसौवीरानाप्नुहि त्वं मया सह