तस्मिन्बहुमृगेऽरण्ये अटमाना महारथाः। काम्यके भरतश्रेष्ठा विजह्वुस्ते यथामराः
प्रेक्षमाणा बहुविधान्वनोद्देशान्समन्ततः। यथर्तुकालरम्याश्चवनराजीः सुषुष्पिताः
पाण्डवा मृगयाशीलाश्चरन्तस्तन्महद्वनम्। विजह्नरिन्द्रप्रिमाः कंचित्कालमरिंदमाः
ततस्ते यौगपद्येन ययुः सर्वे चतुर्दिशम्। मृगयां पुरुषव्याघ्रा ब्राह्मणार्थे परतपाः
द्रौपदीमाश्रमे न्यस् तृणबिन्दोरनुज्ञया। महर्षेर्दीप्ततपसो घौम्यस्य च पुरोधसः
तस्तु राजा सिंधूनां वार्धक्षत्रिर्महायशाः। विवाहकामः साल्वेयान्प्रयातः सोऽभवत्तदा
महता परिबर्हेण राजयोग्येन संवृतः। राजभिर्बहुभिः सार्धमुपायात्काम्यकं च सः
तत्रापश्यत्प्रियां भार्यां पाण्डवानां यशस्विनीम्। तिष्ठन्तीमाश्रमद्वारि द्रौपदीं निर्जने वने
विभ्राजमानां वपुषा बिभ्रतीं रूपमुत्तमम्। भ्राजयन्तीं वनोद्देशं नीलाभ्रमिव विद्युतम्
अप्सरा देवकन्या वा माया वा देवनिर्मिता। इतिकृत्वाञ्जलिं सर्वे ददृशृस्तामनिन्दिताम्
तः स राजा सिन्धूनां वार्धक्षत्रिर्जयद्रथः। विस्मितस्त्वनवद्याङ्गीं दृष्ट्वा तां दुष्टमानसः
स कोटिकाश्यं राजानमब्रवीत्काममोहितः। कस्य त्वेषाऽनवद्याङ्गी यदिवाऽपिन मानुषी
विवाहार्थो न मे कश्चिदिमां दृष्ट्वाऽतिमुन्दरीम्। एतामेवाहमादाय गमिष्यामि स्वमालयम्
गच्छ जानीहि सौम्येमां कस्य वाऽत्र कुतोपि वा। किमर्थमागता सुभ्रूरिदं कष्टकितं वनम्
अपि नाम वरारोहा मामेषा लोकसुन्दरी। भजेदद्यायतापाङ्गी सुदती तनुमध्यमा
अप्यहं कृतकामः स्यामिमां प्राप्य वरस्रियम्। गच्छजानीहि कोन्वस्या नाथ इत्येव कोटिक
स कोटिकाश्यस्तच्छ्रुत्वा रथात्प्रस्कन्द्य कुण्डली। उपेत्यपप्रच्छ तदा क्रोष्टा व्याघ्रवधूमिव
का त्वं कदम्बस्य विनम्य शाखां किमाश्रमे तिष्ठसि शोभमाना। देदीप्यमानाऽग्निशिखेव नक्तं व्याधूयमाना पवनेन सूभ्रूः
अतीव रूपेण समन्विता त्वं न चाप्यरण्येषु बिभेषि किंनु। देवी नु यक्षी यदिदानवी वा वराप्सरा दैत्यवराङ्गना वा
वपुष्मती वोरगराजकन्या वनेचरी वा क्षणदाचरस्त्री। त्वं देवराज्ञो वरुणस्य पत्नी यमस्य सोमस्य धनेश्वरस्य
धातुर्विधातुः सवितुर्विभोर्वा शक्रस्य वा त्वं सदनात्प्रपन्ना। न ह्येव नः पृच्छसि ये वयं स्म न चापि जानीम तवेह नाथम्
वयं हि मानं तव वर्धयन्तः पृच्छाम भद्रेप्रभवं प्रभुं च। आचक्ष्व बन्धूंश्च पतिं कुलं च जातिं च यच्चेगह करोषि कार्यम्
अहं तु राज्ञः सुरथस्य पुत्रो यं कोटिकाश्येति विदुर्मनुष्याः। `वश्येन्द्रियः सत्यरतिर्वरोरु वृद्धोपसेवी गुरुपूजकश्च
असौ तु यस्तिष्ठतिकाञ्चनाङ्गे तथे हुतोऽग्निश्चयने यथैव। तरिगर्तराजः कमलायताक्षः क्षेमंकरो नाम स एष वीरः
अस्मात्परस्त्वेष महाधनुष्मा- न्पुत्रः कुलिन्दाधिपतेर्वरिष्ठः। निरीक्षते त्वां विपुलायताक्षः सुपुष्पितः पर्वतवासनित्यः
असौ तु यः पुष्करिणीसमीपे श्यामो युवा तिष्ठति दर्शनीयः। इक्ष्वाकुराजः सुबलस्य पुत्रः स एव हन्ता द्विषतां सुगात्रि
यस्यानुयात्रं ध्वजिनः प्रयान्ति सौवीरका द्वादशराजपुत्राः। शोणाश्वयुक्तेषु रथेषु सर्वे मस्वेषु दीप्ता इव इव्यवाहाः
अङ्गारकः कुञ्जरो गुप्तकश्च श्रुंजयः संजयसुप्रवृद्धौ। प्रभंकरोऽथ भ्रमरो रविश्च शूरः प्रतापःकुहनश्च नाम
यं षट्सहस्रा रथिनोऽनुयान्ति नागा हयाश्चैव पदातिनश्च। जयद्रथो नाम यदि श्रुतस्ते सौवीरराजः सुभगे स एषः
तस्यापरे भ्रातरोऽदीनसत्वा बलाहकानीकविदारणाद्याः। सौवीरवीराः प्रवरा युवानो राजानमेते बलिनोऽनुयान्ति