दुर्वाससमभिप्रेक्ष्यते सर्वे मुनयोऽब्रुवन्। राज्ञा हिकारयित्वाऽन्नं वयं स्नातुं समागताः
आकण्ठतृप्ता विप्रर्षे किंस्विद्भुञ्जामहे वयम्। वृथा पाकः कृतोस्माभिस्तत्र किं करवामहे
वृथा पाकेन राजर्षेरपराधः कृतो महान्। माऽस्मानधाक्षुर्दृष्ट्वैव पाण्डवाः क्रूरचक्षुषा
स्मृत्वाऽनुभावं राजर्षेरम्बरीषस्य धीमतः। बिभेमि सुतरां विप्रा हरिपादाश्रयाज्जनात्
पाण्डवाश्च महात्मानः सर्वे धर्मपरायणाः। शूराश्चकृतविद्याश्च व्रतिनस्तपसि स्थिताः
सदाचाररता नित्यं वासुदेवपरायणाः। क्रुद्धास्ते निर्दहेयुर्वै तूलराशिमिवानलः। तत एतानपृष्ट्वैव शिष्याः शीघ्रं पलायत
इत्युक्तास्ते द्विजाः सर्वे मुनिना गुरुणा तदा। पाण्डवेभ्यो भृशं भीता दुद्रुवुस्ते दिशो दश
भीमसेनो देवनद्यामपश्यन्मुनिसत्तमान्। तीर्थे ष्वितस्ततस्तस्या विचचार गवेषयन्
तत्रस्थेभ्यस्तापसेभ्यः श्रुत्वा ताश्चैव विद्रुतान्। युधिष्ठिरमथाभ्येत्य तं वृत्तान्तं न्यवेदयत्
ततस्ते पाण्डवाः सर्वे प्र्यागमनकाङ्क्षिणः। प्रतीक्षनतः कियत्कालं जितात्मानोऽवतस्थिरे
निशीथेऽभ्येत्य चाकस्मादस्मान्स च्छलयिष्यति। कथं च निस्तरेमास्मात्कृच्छ्राद्दैवोपसादितात्
इति चिन्तापरान्दृष्ट्वा निःश्वसन्तो मुहुर्मुहुः। उवाच वचनं श्रीमान्कृष्णः प्रत्यक्षतां गतः
भवतामापदं ज्ञात्वा ऋषेः परमकोपनात्। द्रौपद्या चिन्तितः पार्था अहं सत्वरमागतः
न भयं विद्यतेतस्मादृषेर्दुर्वाससोऽल्पकम्। तेजसा भवतां भीतः पूर्वमेव पलायितः
धर्मनित्यास्तु ये केचिन्न ते सीदन्ति कर्हिचित्। आपृच्छे वो गमिष्यामि नियतं भद्रमस्तु वः
श्रुत्वेरितं केशवस्य बभूवुः स्वस्थामानसाः। द्रौपद्या सहिताः पार्थास्तमूचुर्विगतज्वराः
त्वया नाथेन गोविन्द दुस्तरामापदं विभो। तीर्णाः प्लवमिवासाद्य मज्जमाना महार्णवे
स्वस्ति साधय भद्रं ते इत्याज्ञातो ययौ पुरीम्
पाण्डवाश्च महाभाग द्रौपद्या सहिताः प्रभो। ऊषुः प्रहृष्टमनसो विहरन्तो वनाद्वनम्। इति तेऽभिहितं राजन्यत्पृष्टोऽहमिह त्वया
एवंविधान्यलीकानि धार्तराष्ट्रैर्दुरात्मभिः। पाण्डवेषु वनस्थेषु प्रयुक्तानि वृथाऽभवन्
तस्मिन्बहुमृगेऽरण्ये अटमाना महारथाः। काम्यके भरतश्रेष्ठा विजह्वुस्ते यथामराः
प्रेक्षमाणा बहुविधान्वनोद्देशान्समन्ततः। यथर्तुकालरम्याश्चवनराजीः सुषुष्पिताः
पाण्डवा मृगयाशीलाश्चरन्तस्तन्महद्वनम्। विजह्नरिन्द्रप्रिमाः कंचित्कालमरिंदमाः
ततस्ते यौगपद्येन ययुः सर्वे चतुर्दिशम्। मृगयां पुरुषव्याघ्रा ब्राह्मणार्थे परतपाः
द्रौपदीमाश्रमे न्यस् तृणबिन्दोरनुज्ञया। महर्षेर्दीप्ततपसो घौम्यस्य च पुरोधसः
तस्तु राजा सिंधूनां वार्धक्षत्रिर्महायशाः। विवाहकामः साल्वेयान्प्रयातः सोऽभवत्तदा
महता परिबर्हेण राजयोग्येन संवृतः। राजभिर्बहुभिः सार्धमुपायात्काम्यकं च सः
तत्रापश्यत्प्रियां भार्यां पाण्डवानां यशस्विनीम्। तिष्ठन्तीमाश्रमद्वारि द्रौपदीं निर्जने वने
विभ्राजमानां वपुषा बिभ्रतीं रूपमुत्तमम्। भ्राजयन्तीं वनोद्देशं नीलाभ्रमिव विद्युतम्
अप्सरा देवकन्या वा माया वा देवनिर्मिता। इतिकृत्वाञ्जलिं सर्वे ददृशृस्तामनिन्दिताम्