ततस्तं द्रौपदी दृष्ट्वाप्रणम्य परया मुदा। अब्रवीद्वासुदेवाय मुनेरागमनादिकम्
ततस्तामब्रवीत्कृष्णः क्षुधितोस्मि भृशातुरः। शीघ्रं भोजय मां कृष्णे पश्चात्सर्वं करिष्यसि
निशम्य तद्वचः कृष्णा लज्जिता वाक्यमब्रवीत्। स्थाल्यां भास्करदत्तायामन्नं मद्भोजनावधि
भुक्तवत्यस्म्यहं देव तस्मादन्नं न विद्यते। ततः प्रोवाच भगवान्कृष्णां कमललोचनः
कृष्णे न नर्मकालोऽयं क्षुच्छ्रमेणातुरे मयि। शीघ्रं गच्छ मम स्थालीमानयित्वा प्रदर्शय
इति निर्बन्धतः स्थालीमानाय्य स यदूद्वहः। स्थाल्याः कण्ठेऽथ संलग्नं शाकान्नं वीक्ष्यकेशवः
उपयुज्याब्रवीदेनामनेन हरिरीश्वरः। विश्वात्मा प्रीयतां देवस्तुष्टश्चास्त्विति यज्ञभूक्
आकारय मुनीञ्शीघ्रं भोजनायेति चाब्रवीत्। भीमसेनं महाबाहुः कृष्णः क्लेशविनाशनः
ततो जगाम त्वरितो भीमसेनो महायशाः। आकारितुं तु तान्सर्वान्भोजनार्थं नृपोत्तम। स्नातुं गतान्देवनद्यां दुर्वासःप्रभृतीन्मुनीन्
ते चावतीर्णाः सलिले कृतवन्तोऽघमर्षणम्। दृष्ट्वोद्गारान्सान्नरसांस्तृप्त्या परमया युताः। उत्तीर्य सलिलात्तस्माद्दृष्टवन्तः परस्परम्
दुर्वाससमभिप्रेक्ष्यते सर्वे मुनयोऽब्रुवन्। राज्ञा हिकारयित्वाऽन्नं वयं स्नातुं समागताः
आकण्ठतृप्ता विप्रर्षे किंस्विद्भुञ्जामहे वयम्। वृथा पाकः कृतोस्माभिस्तत्र किं करवामहे
वृथा पाकेन राजर्षेरपराधः कृतो महान्। माऽस्मानधाक्षुर्दृष्ट्वैव पाण्डवाः क्रूरचक्षुषा
स्मृत्वाऽनुभावं राजर्षेरम्बरीषस्य धीमतः। बिभेमि सुतरां विप्रा हरिपादाश्रयाज्जनात्
पाण्डवाश्च महात्मानः सर्वे धर्मपरायणाः। शूराश्चकृतविद्याश्च व्रतिनस्तपसि स्थिताः
सदाचाररता नित्यं वासुदेवपरायणाः। क्रुद्धास्ते निर्दहेयुर्वै तूलराशिमिवानलः। तत एतानपृष्ट्वैव शिष्याः शीघ्रं पलायत
इत्युक्तास्ते द्विजाः सर्वे मुनिना गुरुणा तदा। पाण्डवेभ्यो भृशं भीता दुद्रुवुस्ते दिशो दश
भीमसेनो देवनद्यामपश्यन्मुनिसत्तमान्। तीर्थे ष्वितस्ततस्तस्या विचचार गवेषयन्
तत्रस्थेभ्यस्तापसेभ्यः श्रुत्वा ताश्चैव विद्रुतान्। युधिष्ठिरमथाभ्येत्य तं वृत्तान्तं न्यवेदयत्
ततस्ते पाण्डवाः सर्वे प्र्यागमनकाङ्क्षिणः। प्रतीक्षनतः कियत्कालं जितात्मानोऽवतस्थिरे
निशीथेऽभ्येत्य चाकस्मादस्मान्स च्छलयिष्यति। कथं च निस्तरेमास्मात्कृच्छ्राद्दैवोपसादितात्
इति चिन्तापरान्दृष्ट्वा निःश्वसन्तो मुहुर्मुहुः। उवाच वचनं श्रीमान्कृष्णः प्रत्यक्षतां गतः
भवतामापदं ज्ञात्वा ऋषेः परमकोपनात्। द्रौपद्या चिन्तितः पार्था अहं सत्वरमागतः
न भयं विद्यतेतस्मादृषेर्दुर्वाससोऽल्पकम्। तेजसा भवतां भीतः पूर्वमेव पलायितः
धर्मनित्यास्तु ये केचिन्न ते सीदन्ति कर्हिचित्। आपृच्छे वो गमिष्यामि नियतं भद्रमस्तु वः
श्रुत्वेरितं केशवस्य बभूवुः स्वस्थामानसाः। द्रौपद्या सहिताः पार्थास्तमूचुर्विगतज्वराः
त्वया नाथेन गोविन्द दुस्तरामापदं विभो। तीर्णाः प्लवमिवासाद्य मज्जमाना महार्णवे
स्वस्ति साधय भद्रं ते इत्याज्ञातो ययौ पुरीम्
पाण्डवाश्च महाभाग द्रौपद्या सहिताः प्रभो। ऊषुः प्रहृष्टमनसो विहरन्तो वनाद्वनम्। इति तेऽभिहितं राजन्यत्पृष्टोऽहमिह त्वया
एवंविधान्यलीकानि धार्तराष्ट्रैर्दुरात्मभिः। पाण्डवेषु वनस्थेषु प्रयुक्तानि वृथाऽभवन्