यः पुमानभवत्तत्र तं स राजर्षिसत्तमः। वसुर्वसुप्रदश्चक्रे सेनापतिमरिन्दमः
चकार पत्नीं कन्यां तु तथा तां गिरिकां नृपः। वसोः पत्नी तु गिरिका कामकालं न्यवेदयत्
ऋतुकालमनुप्राप्ता स्नाता पुंसवने शुचिः। तदहः पितरश्चैनपूचुर्जहि मृगानिति
तं राजसत्तमं प्रीतास्तदा मतिमतां वरः। स पितॄणां नियोगेन तामतिक्रम्य पार्थिवः
चकार मृगयां कामी गिरिकामेव संस्मरन्। अतीव रूपसंपन्नां साक्षाच्छ्रियमिवापराम्
अशोकैश्चम्पकैश्चूतैरनेकैरतिमुक्तकैः। पुन्नागैः कर्णिकारैश्च बकुलैर्दिव्यपाटलैः
पनसैर्नारिकेलैश्च चन्दनैश्चार्जुनैस्तथा। एतै रम्यैर्महावृक्षैः पुण्यैः स्वादुफलैर्युतम्
कोकिलाकुलसन्नादं मत्तभ्रमरनादितम्। वसन्तकाले तत्पश्यन्वनं चैत्ररथोपमम्
मन्मथाभिपरीतात्मा नापश्यद्गिरिकां तदा। अपश्यन्कामसंतप्तश्चरमाणो यदृच्छया
पुष्पसंछन्नशाखाग्रं पल्लवैरुपशोभितम्। अशोकस्तबकैश्छन्नं रमणीयमपश्यत
अधस्यात्तस्य छायायां सुखासीनो नराधिपः। मधुगन्धैश्च संयुक्तं पुष्पगन्धमनोहरम्
वायुना प्रेर्यमाणस्तु धूम्राय मुदमन्वगात्। `भार्यां चिन्तयमानस्य मन्मथाग्निरवर्धत।' तस्य रेतः प्रचस्कन्द चरतो गहने वने
स्कन्नमात्रं च तद्रेतो वृक्षपत्रेण भूमिपः। प्रतिजग्राह मिथ्या मे न पतेद्रेत इत्युत
अङ्गुलीयेन शुक्लस्य रक्षां च विदधे नृपः। अशोकस्तबकै रक्तैः पल्लवैश्चाप्यबन्धयत्
इदं मिथ्या परिस्कन्नं रेतो मे न भवेदिति। ऋतुश्च तस्याः पत्न्या मे न मोघः स्यादिति प्रभुः
संचिन्त्यैवं तदा राजा विचार्य च पुनःपुनः। अमोघत्वं च विज्ञाय रेतसो राजसत्तमः
शुक्रप्रस्थापने कालं महिष्या प्रसमीक्ष्य वै। अभिमन्त्र्याथ तच्छुक्रमारात्तिष्ठन्तमाशुगम्
सूक्ष्मधर्मार्थतत्त्वज्ञो गत्वा श्येनं ततोऽब्रवीत्। मत्प्रियार्थमिदं सौम्य शुक्रं मम गृहं नय
गृहीत्वा तत्तदा श्येनस्तूर्णमुत्पत्य वेगवान्
जवं परममास्थाय प्रदुद्राव विहंगमः। तमपश्यदथायान्तं श्येनं श्येनस्तथाऽपरः
अभ्यद्रवच्च तं सद्यो दृष्ट्वैवामिषशङ्कया। तुण्डयुद्धमथाकाशे तावुभौ संप्रचक्रतुः
युद्ध्यतोरपतद्रेतस्तच्चापि यमुनाम्भसि। तत्राद्रिकेति विख्याता ब्रह्मशापाद्वराप्सरा
मीनभावमनुप्राप्ता बभूव यमुनाचरी। श्येनपादपरिभ्रष्टं तद्वीर्यमथ वासवम्
जग्राह तरसोपेत्य साऽद्रिका मत्स्यरूपिणी। कदाचिदपि मत्सीं तां बबन्धुर्मत्स्यजीविनः
मासे च दशमे प्राप्ते तदा भरतसत्तम।। उज्जह्रुरुदरात्तस्याः स्त्रीं पुमांसं च मानुषौ
आश्चर्यभूतं तद्गत्वा राज्ञेऽथ प्रत्यवेदयन्। काये मत्स्या इमौ राजन्संभूतौ मानुषाविति
तयोः पुमांसं जग्राह राजोपरिचरस्तदा। स मत्स्यो नाम राजासीद्धार्मिकः सत्यसङ्गरः
साऽप्सरा मुक्तशापा च क्षणेन समपद्यत। या पुरोक्ता भगवता तिर्यग्योनिगता शुभा
मानुषौ जनयित्वा त्वं शापमोक्षमवाप्स्यसि। ततः साजनयित्वा तौ विशस्ता मत्स्यघातिभिः
संत्यज्य मत्स्यरूपं सा दिव्यं रूपमवाप्य च। सिद्धर्षिचारणपथं जगामाथ वराप्सराः