आहचैनं दुराधर्षो वरदोऽस्मीति भारत
वरं वरय भद्रं ते यत्ते मनसि वर्तते। मयि प्रीते तु यद्धर्म्यं नालभ्यं विद्यते तव
एतच्छ्रुत्वा वचस्तस्य महर्षेर्भावितात्मनः। अमन्यत पुनर्जातमात्मानं स सुयोधनः
प्रागेव मन्त्रितं चासीत्कर्णदुःशासनादिभिः। याचनीयं मुनेस्तुष्टादिति निश्चित्य दुर्मतिः
अतिहर्षान्वितो राजन्वरमेनमयाचत। शिष्यैः सह मम ब्रह्मन्यथा जातोऽतिथिर्भवान्
अस्मत्कुले महाराजो ज्येष्ठः श्रेष्ठो युधिष्ठिरः। वने वसति धर्मात्मा भ्रातृभिः परिवारितः। गुणवाञ्शीलसंपन्नस्तस्य त्वमतिथिर्भव
यदा च राजपुत्री सा सुकुमारी यशस्विनी। भोजयित्वा द्विजान्सर्वान्पतींश्च वरवर्णिनी
विश्रान्ता च स्वयं भुक्त्वा सुखासीना भवेद्यदा। तदा त्वं तत्रगच्छेथा यद्यनुग्राह्यता मयि
तथा करिष्ये त्वत्प्रीत्येत्येवमुक्त्वा सुयोधनम्। दुर्वासा अपिविप्रेन्द्रो यथागतमगात्ततः
कृतार्थमपि चात्मानं तदा मेने सुयोधनः। करेण च करं गृह्य कर्णस्य मुदितो भृशम्
कर्णोपि भ्रातृसहितमित्युवाच नृपं मुदा। दुष्ट्या कामः सुसंवृत्तोदिष्ट्या कौरव वर्धसे। दिष्ट्या ते शत्रवो मग्ना दुस्तरे व्यसनार्णवे
दुर्वासःक्रोधजे वह्नौ पतिताः पाण्डुनन्दनाः। स्वैरेव ते महापापैर्गता वै दुस्तरं तमः
इत्थं ते निकृतिप्रज्ञा राजन्दुर्योधनादयः। हसन्तः प्रीतमनसो जग्मुः स्वंस्वं निकेतनम्
ततः कदाचिद्दुर्वासाः सुखासीनांस्तु पाण्डवान्। भुक्त्वा चावस्थितां कृष्णां ज्ञात्वा तस्मिन्वने मुनिः। अभ्यागच्छत्परिवृतः शिष्यैरयुतसंमितैः
दृष्ट्वा यान्तं तमतिथिं स च राजा युधिष्ठिरः। जगामाभिमुखः श्रीमान्सह भ्रातृभिरच्युतः
तस्मै बद्ध्वाञ्जलिं सम्यगुपवेश्य वरासने। विधिवत्पूजयित्वा तमातिथ्यन न्यमन्त्रयत्। आह्निकं भगवन्कृत्वा शीघ्रमेहीति चाब्रवीत्
जगाम च मुनिः सोपि स्नातुं शिष्यैः सहानघः। भोजयेत्सहशिष्यं मां कथमित्यविचिन्तयन्
न्यमज्जत्सलिले चापि मुनिसङ्घः समाहितः
एतस्मिन्नन्तरे राजन्द्रौपदी योपितां वरा। चिन्तामवाप परमामन्नहेतोः पतिव्रता
सा चिन्तयन्ती च यदा नान्नहेतुमविन्दत। मनसा चिन्तयामास कृष्णं कंसनिषूदनम्
कृष्णकृष्ण महाबाहो देवकीनन्दनाव्यय। वासुदेव जगन्नाथ प्रणतार्तिविनाशन
विश्वात्मन्विश्वजनक विश्वहर्तः प्रभोऽव्यय। प्रपन्नपाल गोपाल प्रजापाल परात्पर। आकूतीनां च चित्तीनां प्रवर्तक नताऽस्मि ते
वरेण्य वरदानन्त अगतीनां गतिप्रद। पुराणपुरुष प्राणमनोवृत्त्याद्यगोचर
सर्वाध्यक्ष पराध्यक्ष त्वामहं शरणं गता। पाहि मां कृपया देव शरणागतवत्सल
नीलोत्पलदलश्याम पद्मगर्भारुणेक्षण। पीताम्बरपरीधान लसत्कौस्तुभभूषण
त्वमादिरन्तो भूतानां त्वमेव च परायणम्। परात्परतरं ज्योतिर्विश्वात्मा सर्वतोमुखः
त्वामेवाहुः परं बीजं निधानं सर्वसंपदाम्। त्वया नाथेन देवेश सर्वापद्म्यो भयं न हि
दुःशासनादहं पूर्वं सभायां मोचिता यथा। तथैव संकटादस्मान्मामुद्धर्तुमिहार्हसि
एवं स्तुतस्तदा देवः कृष्णया भक्तवत्सलः। द्रौपद्याः संकटं ज्ञात्वा देवदेवो जगत्पतिः
पार्स्वस्थां शयने त्यक्त्वा रुक्मिणीं केशवः प्रभुः। तत्राजगाम त्वरितो ह्यचिन्त्यगतिरीश्वरः