निगृहीतेन्द्रियग्रामः समयोजयदात्मनि। युक्तचित्तं यथाऽऽत्मानं युयोज परमेश्वरे
ध्यानयोगाद्बलं लब्ध्वा प्राप्य बुद्धिमनुत्तमाम्। जगाम शाश्वतीं सिद्धिं परां निर्वाणलक्षणाम्
तस्मात्त्वमपिकौन्तेय न शोकं कर्तुमर्हसि। राज्यात्स्फीतात्परिभ्रष्टस्तपसा तदवाप्स्यसि
सुखस्यानन्तरं दुःखं दुःखस्यानन्तरं सुखम्। पर्यायेणोपसर्पन्ते नरं नेमिमरा इव
पितृपैतामहं राज्यंप्राप्स्यस्यमितविक्रम। वर्षात्रयोदशादूर्ध्वंव्येतु ते मानसो ज्वरः
स एवमुक्त्वाभगवान्व्यासः पाण्डवनन्दनम्। जगाम तपसे धीमान्पुनरेवाश्रमं प्रति
वसत्स्वेवं वने तेषु पाण्डवेषु महात्मसु। रममाणएषु चित्राबिः कथाभिर्मुनिभिः सह
सूर्यदत्ताक्षयान्नेन कृष्णाया भोजनावधि। ब्राह्मणांस्तर्पमाणेषु ये चान्नार्थमुपागताः। आरण्यानां मृगाणां च मांसैर्नानाविधैरपि
धार्तराष्ट्रा दुरात्मानः सर्वे दुर्योधनादयः। कथं तेष्वन्ववर्तन्त पापाचारा महामुने
दःशासनस्य कर्णस्य शकुनेश्च मते स्थिताः। एतदाचक्ष्व भगवन्वैशंपायन पृच्छतः
श्रुत्वा तेषां तथा वृत्तिं नगरे वसतामिव। दुर्योधनो महाराज तेषु पापमरोचयत्
तथा तैर्निकृतिप्रज्ञैः कर्णदुःशासनादिभिः। नानोपायैरधं तेषु चिन्तयत्सु दुरात्मसु
अभ्यागच्छत्स धर्मात्मा तपस्वी कसुमहायशाः। शिष्यायुतसमोपेतो दुर्वासा नाम कामतः
तमागतमभिप्रेक्ष्य मुनिं परमकोपनम्। सहितो भ्रातृभिः श्रीमानातिथ्येन न्यमन्त्रयत्
विधिवत्पूजयामास स्वयं किंकरवत्स्थितः। अहानि कतिचित्तत्र तस्थौ स मुनिसत्तमः
तं च पर्यचरद्राजा दिवारात्रमतन्द्रितः। दुर्योधनो महाराज शापात्तस्य विशङ्कितः
क्षुधितोऽस्मि ददस्वान्नं शीघ्रं मम नराधिप। इत्युक्त्वा गच्छति स्नातुं प्र्यागच्चति वै चिरात्
न भोक्ष्याम्यद्यमे नास्ति क्षुधेत्युक्त्वैत्यदर्शनम्। अकस्मादेत्य च ब्रूते भोजनयास्मांस्त्वरान्वितः
कदाचिच्च निशीथे स उत्थाय निकृतौ स्थितः। पूर्ववत्कारयित्वाऽन्नं न भुङ्क्ते गर्हयन्स्म सः
वर्तमाने तथा तस्मिन्यदा दुर्योधनो नृपः। विकृतिं नैति न क्रोधं तदा तुष्टोऽभवन्मुनिः
आहचैनं दुराधर्षो वरदोऽस्मीति भारत
वरं वरय भद्रं ते यत्ते मनसि वर्तते। मयि प्रीते तु यद्धर्म्यं नालभ्यं विद्यते तव
एतच्छ्रुत्वा वचस्तस्य महर्षेर्भावितात्मनः। अमन्यत पुनर्जातमात्मानं स सुयोधनः
प्रागेव मन्त्रितं चासीत्कर्णदुःशासनादिभिः। याचनीयं मुनेस्तुष्टादिति निश्चित्य दुर्मतिः
अतिहर्षान्वितो राजन्वरमेनमयाचत। शिष्यैः सह मम ब्रह्मन्यथा जातोऽतिथिर्भवान्
अस्मत्कुले महाराजो ज्येष्ठः श्रेष्ठो युधिष्ठिरः। वने वसति धर्मात्मा भ्रातृभिः परिवारितः। गुणवाञ्शीलसंपन्नस्तस्य त्वमतिथिर्भव
यदा च राजपुत्री सा सुकुमारी यशस्विनी। भोजयित्वा द्विजान्सर्वान्पतींश्च वरवर्णिनी
विश्रान्ता च स्वयं भुक्त्वा सुखासीना भवेद्यदा। तदा त्वं तत्रगच्छेथा यद्यनुग्राह्यता मयि
तथा करिष्ये त्वत्प्रीत्येत्येवमुक्त्वा सुयोधनम्। दुर्वासा अपिविप्रेन्द्रो यथागतमगात्ततः
कृतार्थमपि चात्मानं तदा मेने सुयोधनः। करेण च करं गृह्य कर्णस्य मुदितो भृशम्