तेषां तथाविधानां तु लोकानां मुनिपुङ्गव। उपर्युपरि शक्रस् लोका दिव्या गुणान्विताः
परतो ब्रह्मणस्तस्य लोकस्तेजोमयः शुभः। यत्र यान्त्यृषयो ब्रह्मन्पूताः स्वैः कर्मभिः शुभैः
ऋभवो नाम तत्रान्ये देवानामपि देवताः। तेषां लोकाः परतरे यान्यजन्तीह देवताः
स्वयंप्रभास्ते भास्वन्तो लोकाः कामदुघाः परे। न तेषां स्त्रीकृतस्तापो न भोगैश्वर्यमत्सरः
न वर्तयन्त्याहुतिभिस्ते नाप्यमृतभोजनाः। तथा दिव्यशरीरास्ते न च विग्रहमूर्तयः
नासुखाः सुखकामास्ते देवदेवाः सनातनाः। न कल्पपरिवर्तेषु परिवर्तन्ति ते तथा
रजरा मृत्युः कुतस्तेषां हर्षः प्रीतिः सुखं न च। न दुःखं न सुखं चापि रागद्वेषौ कुतो मुने
देवानामपि मौद्गल्यकाङ्क्षिता सा गतिः परा। दुष्प्रापा परमा सिद्धिरगम्या कामगोचरैः
त्रयस्त्रिंशदिमे लोकाः शेषा लोका मनीषिभिः। गम्यन्ते नियमैः श्रेष्ठैर्दानैर्वा विधिपूर्वकैः
सेयं दानकृता व्युष्टिरनुप्राप्ता सुखं त्वया। तां रभुङ्क्ष्व सुकृतैर्लब्धां तपसा द्योतितप्रभः
एतत्स्वर्गसुखं विप्र लोका नानाविधास्तथा। गुणाः स्वर्गस्य प्रोक्तास्ते दोषानपि निबोध मे
कृस्य कर्मणस्तत्रभुज्यते यत्फलं दिवि। न चान्त्क्रियते कर्म मूलच्छेदेन भुज्यते
सोऽत्रदोषो मम मतस्तस्यान्ते पतनं च यत्। सुखव्याप्तमनस्कानां पतनं यच्च मुद्गल
असंतोषः परीतापो दृष्ट्वा दीप्ततराः श्रियः। यद्भवत्यवरे स्थाने स्थितानां तत्सुदुष्करम्
संज्ञामोहश्चपततां रजसा च प्रधर्षणम्। प्रम्लानेषु च माल्येषु ततः पिपतिषोर्भयम्
आब्रह्मभवनादेते दोषा मौद्गल्य दारुणाः। नाकलोकेसुकृतिनां गुणास्त्वयुतशो नृणाम्
अयं त्वन्यो गुणः श्रेष्ठश्च्युतानां स्वर्गतो मुने। शुभानुशययोगेन मनुष्येषूपजायते
तत्रापि स महाभागः कुले महति जायते। न चेत्संबुध्यते तत्रगच्छत्यधमतां ततः
इह यत्क्रियते कर्म तत्परत्रोपभुज्यते। कर्मभूमिरियं ब्रह्मन्फलभूमिरसौ मता
महान्तस्तु अमी दोपास्त्वया स्वर्गस्य कीर्तिताः। निर्दोष एव यस्त्यन्यो लोकं तं प्रवदस्व मे
ब्रह्मणः सदनादूर्ध्वं तद्विष्णोः परमं पदम्। शुद्धं सनातनं ज्योतिः परं ब्रह्मेति यद्विदुः
न तत्रविप्र गच्छन्ति पुरुषा विषयात्मकाः। दम्भलोभमहाक्रोधमोहद्रोहैरभिद्रुताः
निर्ममा निरहंकारा निर्द्विन्द्वाः संयतेन्द्रियाः। ध्यानयोगपराश्चैव तत्रगच्छन्ति मानवाः ।।]
एतत्ते सर्वमाख्यतं यन्मां पृच्छसि मुद्गल। तवानुकम्पया साधो साधु गच्छाम माचिरम्
एतच्छ्रुत्वा तु मौद्गल्यो वाक्यं विममृशे धिया। विमृश्य च मुनिश्रेष्ठो देवदूतमुवाचह
देवदूत नमस्तेऽम्तु गच्छ तात यथासुखम्। महादोषेण मे कार्यं न स्वर्गेण सुखेन चा
पतनान्ते महादुःखं परितापः सुदारुणः। स्वर्गभाजः पतन्तीह तस्मात्स्वर्गं न कामये
यत्रगत्वान शोचन्ति न व्यथन्तिचलन्ति वा। तदहं स्थानमत्यन्तं मार्गयिष्यामि केवलम्
इत्युक्त्वा स मुनिर्वाक्यं देवदूतंविसृज्य तम्। शिलोञ्छवृत्तिमुत्सृज्य शममातिष्ठदुत्तमम्
तुल्यनिन्दास्तुतिर्भूत्वासमलोष्टाश्मकाञ्चनः। ज्ञानयोगेन शुद्धेन ध्याननित्यो बभूव ह