के गुणास्तत्रवसतां किं तपः कश्च निश्चयः। स्वर्गे तत्रसुखं किं च दोषो वा देवदूतक
सतां साप्तपदं मित्रमाहुः सन्तः कुलोचिताः। मित्रतां च पुरस्कृत्य पृच्छामि त्वामहं विभो
यदत्र तथ्यं पथ्यं च तद्ब्रवीह्यविचारयन्। श्रुत्वा तथा करिष्यामि व्यवसायं गिरा तव
महर्षेऽकार्यबुद्धिस्त्वं यः स्वर्गसुखमुत्तमम्। संप्राप्तं प्रतिपत्तव्यं विमृशस्यबुधो यथा
उपरिष्टादयं लोको योऽयं स्वरिति संज्ञितः। ऊर्ध्वगः सत्पथः शश्वद्देवयानचरो मुने
नातप्ततपसः पुंसो नामहायज्ञयाजिनः। नानृता नास्तिकाश्चैव तत्रगच्छन्ति मुद्गल
धर्मात्मानो जितात्मानः शान्ता दान्ता विमत्सराः। दानधर्मरताः पुंसः शूराश्चाहितलक्षणाः
तत्रगच्छन्ति धर्माग्र्यं कृत्वा शमदमात्मकम्। लोकान्पुण्यकृतां ब्रह्मन्सद्भिराचरितान्नृभिः
देवाः साध्यास्तथा विश्वे तथैव च महर्षयः। यामा धामाश्च मौद्गल्य गन्धर्वाप्सरसस्तथा
एषां देवनिकायानां पृथक्पृथगनेकशः। भास्वन्तः कामसंपन्ना लोकास्तेजोमयाः शुभाः
त्रयस्त्रिंशत्सहस्राणि योजनानि हिरण्मयः। मेरुः पर्वतराड्यत्रदेवोद्यानानि मुद्गल
नन्दनान्यतिरम्याणि तत्रोद्यानानि मुद्गल। सर्वकामफलैर्वृक्षैः शोभितानि समन्ततः
नन्दनादीनि पुण्यानि विहाराः पुण्यकर्मणाम्। न क्षुत्पिपासे न ग्लानिर्न शीतोष्णे भयं तथा
बीभत्समशुभं वाऽपि रोगो वा तत्र कश्चन। मनोज्ञाः सर्वतो गन्धाः सुखस्पर्शाश्च सर्वशः
शब्दाः श्रुतिमनोग्राह्याः सर्वतस्तत्रवै मुने। न शोको न जरा तत्र नायासपरिदेवने
ईदृशः स मुने लोकः स्वकर्मफलहेतुकः। सुकृतैस्तत्रपुरुषाः संभवन्त्यात्मकर्मभिः
तैजसानि शरीराणि भवन्त्य्रोपपद्यताम्। कर्मजान्येव मौद्गल्य न मातृपितृजान्युत
रन संस्वेदो न दौर्गन्ध्यं पुरीषं मूत्रमेव च। तेषां न च रजोवस्त्रं बाधते तत्रवै मुने
न म्लायन्ति स्रजस्तेषां दिव्यगन्धा मनोरमाः। समूह्यन्ते विमानैश्च ब्रह्मन्नेवंविधा हि ते
ईर्ष्याशोकक्लमापेता मोहमात्सर्यवर्जिताः। सुखं संर्गजितस्तत्रवर्तयन्ते महामुने
तेषां तथाविधानां तु लोकानां मुनिपुङ्गव। उपर्युपरि शक्रस् लोका दिव्या गुणान्विताः
परतो ब्रह्मणस्तस्य लोकस्तेजोमयः शुभः। यत्र यान्त्यृषयो ब्रह्मन्पूताः स्वैः कर्मभिः शुभैः
ऋभवो नाम तत्रान्ये देवानामपि देवताः। तेषां लोकाः परतरे यान्यजन्तीह देवताः
स्वयंप्रभास्ते भास्वन्तो लोकाः कामदुघाः परे। न तेषां स्त्रीकृतस्तापो न भोगैश्वर्यमत्सरः
न वर्तयन्त्याहुतिभिस्ते नाप्यमृतभोजनाः। तथा दिव्यशरीरास्ते न च विग्रहमूर्तयः
नासुखाः सुखकामास्ते देवदेवाः सनातनाः। न कल्पपरिवर्तेषु परिवर्तन्ति ते तथा
रजरा मृत्युः कुतस्तेषां हर्षः प्रीतिः सुखं न च। न दुःखं न सुखं चापि रागद्वेषौ कुतो मुने
देवानामपि मौद्गल्यकाङ्क्षिता सा गतिः परा। दुष्प्रापा परमा सिद्धिरगम्या कामगोचरैः
त्रयस्त्रिंशदिमे लोकाः शेषा लोका मनीषिभिः। गम्यन्ते नियमैः श्रेष्ठैर्दानैर्वा विधिपूर्वकैः
सेयं दानकृता व्युष्टिरनुप्राप्ता सुखं त्वया। तां रभुङ्क्ष्व सुकृतैर्लब्धां तपसा द्योतितप्रभः