ततस्तदन्नं रसवत्स एव क्षुधयाऽन्वितः। बुभुजे कृत्स्नमुन्मत्तः प्रादात्तस्मै च मुद्गलः
भुक्त्वा चान्नं ततः सर्वमुच्छिष्टेनात्मनस्ततः। अथाङ्गं लिलिपेऽन्नेन यथागतमगाच्च सः
तेनैवात्मानमालिप्य हसन्गायन्प्रधावति। नृत्यते धावते चैव बुद्ध्या तत्क्रोशते तथा
एवं द्वितीये संप्राप्ते पर्वकाले मनीषिणः। आगम्य बुभुजे सर्वमन्नपुञ्छोपजीविनः
निराहारस्तु स मुनिरुञ्छमार्जये पुनः। न चैनं विक्रियां नेतुमशकन्मुद्गलं क्षुधा
न क्रोधो न च मात्सर्यं नावमानो न संभ्रमः। सपुत्रदारमुञ्छन्तमाविवेश द्विजोत्तमम्
तथा तमुञ्छधर्माणं दुर्वासा मुनिसत्तमम्। उपतस्थे यथाकालं षट्कृत्वः कृतनिश्चयः
न चास् मनसः कश्चिद्विकारो दृश्यते मुनेः। शुद्धसत्वस्य शुद्धं स ददृशे निर्मलं मनः
तमुवाच ततः प्रीतः स मुनिर्मुद्गलं तदा। त्वत्समो नास्ति लोकेऽस्मिन्दाता मात्सर्यवर्जितः
क्षुद्धर्मसंज्ञां प्रणुदत्यादत्ते धैर्यमेव च। विषयानुसारिणी जिह्वा कर्षत्येव रसान्प्रति
आहारप्रभवाः प्राणा मनो दुर्निग्रहं चलम्। मनसश्चेन्द्रियाणां चाप्यैकाग्र्यं निश्चितं तपः
श्रमेणोपार्जितं त्यक्तं न च दुःखेन चेतसा। तत्सर्वं भवता साधो यथावदुपपादितम्
प्रीताः स्मोऽनुगृहीताश्च समेत्य भवता सह। इन्द्रियाभिजयो धैर्यं संविभागो दमः शमः। दया सत्यं च धर्मश्च त्वयि सर्वं प्रतिष्ठितम्
लोकाः समस्ता धर्मेण धार्यन्ते सचराचराः। धर्मोपि धार्यते येन धृतियुक्त त्वयाऽऽत्मना
विशुद्धसत्वसंपन्नो न त्वदन्योस्ति कश्चन'। जितास्ते कर्मभिर्लोकाः प्राप्तोसि परमां गतिम्
अहो दानं विघुष्टं ते सुमहत्स्वर्गवासिभिः। सशरीरो भवान्गन्ता स्वर्गं सुचरितव्रत
इत्येवं वदतस्तस्य तदा दुर्वाससो मुनेः। देवदूतो विमानेन मुद्गलं प्रत्युपस्थितः
हंससारसयुक्तेन किङ्किणीजालमालिना। कामगेन विचित्रेण दिव्यगन्धवता तथा
उवाच चैनं विप्रर्षिं विमानं कर्मभिर्जितम्। समुपारोह संसिद्धिं प्राप्तोसि परमां मुने
तमेवंवादिनमृषिर्देवदूतमुवाच ह। इच्छामि भवता प्रोक्तान्गुणान्स्वर्गनिवासिनां
के गुणास्तत्रवसतां किं तपः कश्च निश्चयः। स्वर्गे तत्रसुखं किं च दोषो वा देवदूतक
सतां साप्तपदं मित्रमाहुः सन्तः कुलोचिताः। मित्रतां च पुरस्कृत्य पृच्छामि त्वामहं विभो
यदत्र तथ्यं पथ्यं च तद्ब्रवीह्यविचारयन्। श्रुत्वा तथा करिष्यामि व्यवसायं गिरा तव
महर्षेऽकार्यबुद्धिस्त्वं यः स्वर्गसुखमुत्तमम्। संप्राप्तं प्रतिपत्तव्यं विमृशस्यबुधो यथा
उपरिष्टादयं लोको योऽयं स्वरिति संज्ञितः। ऊर्ध्वगः सत्पथः शश्वद्देवयानचरो मुने
नातप्ततपसः पुंसो नामहायज्ञयाजिनः। नानृता नास्तिकाश्चैव तत्रगच्छन्ति मुद्गल
धर्मात्मानो जितात्मानः शान्ता दान्ता विमत्सराः। दानधर्मरताः पुंसः शूराश्चाहितलक्षणाः
तत्रगच्छन्ति धर्माग्र्यं कृत्वा शमदमात्मकम्। लोकान्पुण्यकृतां ब्रह्मन्सद्भिराचरितान्नृभिः
देवाः साध्यास्तथा विश्वे तथैव च महर्षयः। यामा धामाश्च मौद्गल्य गन्धर्वाप्सरसस्तथा
एषां देवनिकायानां पृथक्पृथगनेकशः। भास्वन्तः कामसंपन्ना लोकास्तेजोमयाः शुभाः