पात्रे दानं स्वल्पमपि काले दत्तं युधिष्ठिर। मनसा हि विशुद्धेन प्रेत्यानन्तफलं स्मृतम्
श्रद्धा धर्मानुगा देवी पावनी विश्वधारिणी।' सवित्री प्रसवित्री च संसारार्णवतारिणी
श्रद्धया धार्यते धर्मो महद्भिर्नार्थदर्शिभिः। सधना अपिराजानो निःश्रद्धा नरकं गताः
निष्किंचनाश्च मुनयः श्रद्धावन्तो दिवं गताः। देशे काले च पात्रे च मुद्गलः श्रद्धयाऽन्वितः। व्रीहिद्रोणं प्रदायाथ परं पदमवाप्तवान्
अत्राप्युदाहरन्तीमतिहासं पुरातनम्। व्रीहिद्रोणपरित्यागाद्यत्फलं प्राप मुद्गलः
व्रीहिद्रोणः परित्यक्तः कथं तेन महात्मना। कस्मै दत्तश्च भगवन्विधिना केन चात्थ मे
प्रत्यक्षधर्मा भगवान्यस् तुष्टो हि कर्मभिः। सफलं तस्य जन्माहं मन्ये सद्धर्मचारिणः
शिलोञ्छवृत्तिर्धर्मात्मा मुद्गलः संयतेन्द्रियः। आसीद्राजन्कुरुक्षेत्रे सत्यवागनसूयकः
अतिथिव्रती क्रियावांश्च कापोतीं वृत्तिमास्थितः। सत्रमिष्टीकृतंनाम समुपास्ते महातपाः
सपुत्रदारो हि मुनिः पक्षाहारो बभूव ह। कपोतवृत्त्या पक्षेण व्रीहिद्रोयणमुपार्जयत्
दर्शं च पौर्णमासं च कुर्वन्विगतमन्सरः। देवतातिथिशेषेण कुरुते देहयापनम्
तत्रेन्द्रः सहितो देवैः साक्षात्रिभुवनेश्वरः। प्रत्यृह्णान्महाराज भागं पर्वणिपर्वणि
स पर्वकाल्यं कृत्वा तु मुनिवृत्त्या समन्वितः। अतिथिभ्यो ददावन्नं प्रहृष्टेनान्तरात्मना
व्रीहिद्रोणस्य तत्प्रीत्या ददतोऽन्नं महात्मनः। ऋषेर्मात्सर्यहीनस् वर्धत्यतिथिदर्शनात्
तच्छतान्यपि भुञ्जन्ति ब्राह्मणानां मनीषिणाम्। मुनेस्त्यागविशुद्ध्या तु तदन्नं वृद्धिमृच्छति
तं तु रशुश्राव धर्मिष्ठं मुद्गलं संशितव्रतम्। दुर्वासा नृप दिग्वासास्तमथाभ्याजगाम ह
विभ्रच्चानियतं वेषमुन्मत्त इव पाण्डव। विकचः परुषा वाचो व्याहरन्विविधा मुनिः
अभिगम्याथ तं विप्रमुवाच मुनिसत्तमः। अन्नार्थिनमनुप्राप्तं विद्धि मां मुनिसत्तम
स्वागतं तेऽस्त्विति मुनिं मुद्गलः प्रत्यभाषत। पाद्यमाचमनीयं च प्रतिवेद्यान्नमुत्तमम्
प्रादात्स तपसोपात्तं क्षुधितायातिथिप्रियः। उन्मत्ताय परां श्रद्धामास्थाय स धृतव्रतः
ततस्तदन्नं रसवत्स एव क्षुधयाऽन्वितः। बुभुजे कृत्स्नमुन्मत्तः प्रादात्तस्मै च मुद्गलः
भुक्त्वा चान्नं ततः सर्वमुच्छिष्टेनात्मनस्ततः। अथाङ्गं लिलिपेऽन्नेन यथागतमगाच्च सः
तेनैवात्मानमालिप्य हसन्गायन्प्रधावति। नृत्यते धावते चैव बुद्ध्या तत्क्रोशते तथा
एवं द्वितीये संप्राप्ते पर्वकाले मनीषिणः। आगम्य बुभुजे सर्वमन्नपुञ्छोपजीविनः
निराहारस्तु स मुनिरुञ्छमार्जये पुनः। न चैनं विक्रियां नेतुमशकन्मुद्गलं क्षुधा
न क्रोधो न च मात्सर्यं नावमानो न संभ्रमः। सपुत्रदारमुञ्छन्तमाविवेश द्विजोत्तमम्
तथा तमुञ्छधर्माणं दुर्वासा मुनिसत्तमम्। उपतस्थे यथाकालं षट्कृत्वः कृतनिश्चयः
न चास् मनसः कश्चिद्विकारो दृश्यते मुनेः। शुद्धसत्वस्य शुद्धं स ददृशे निर्मलं मनः
तमुवाच ततः प्रीतः स मुनिर्मुद्गलं तदा। त्वत्समो नास्ति लोकेऽस्मिन्दाता मात्सर्यवर्जितः
क्षुद्धर्मसंज्ञां प्रणुदत्यादत्ते धैर्यमेव च। विषयानुसारिणी जिह्वा कर्षत्येव रसान्प्रति