उक्तो रात्रौ मृगैरस्मि स्वप्नान्ते हतशेषितैः। तनुभूताः स्म भद्रं ते दया नः क्रियतामिति
ते सत्यमाहुः कर्तव्या दयाऽस्माभिर्वनौकसाम्। साष्टमासं हि नो वर्षं यदेनानुपयुंक्ष्महे
पुनर्वहुमृगं रम्यं काम्यकं काननोत्तमम्। तत्रेमां वसतिं शिष्टां विहरन्तो रमेमहि
ततस्ते पाण्डवाः शीघ्रं प्रययुर्धर्मकोविदाः
ब्राह्मणैः सहिता राजन्ये च तत्रसहोषिताः। इन्द्रसेनादिभिश्चैव प्रेष्यैरनुगतास्तदा
ते यात्वा सुसुखैर्मार्गैः स्वन्नैः शुचिजलान्वितैः। ददृशुः काम्यकं पुण्यमाश्रमं तापसान्वितम्
विविशुस्ते स्म कौरव्या वृता विप्रर्षभैस्तदा। तद्वनं भरतश्रेष्ठाः स्वर्गं सुकृतिनो यथा
वने निवसतां तेषां पाण्डवानां महात्मनाम्। वर्षाण्येकादशातीयुः कृच्छ्रेण भरतर्षभ
फलमूलाशनास्ते हि सुखार्हा दुःखमुत्तमम्। प्राप्तकालमनुध्यान्तः सेहिरे वरपूरुषाः
युधिष्ठिरस्तु राजर्षिरात्मकर्मापराधजम्। चिन्तयन्स महाबाहुर्भ्रातॄणां दुःखमुत्तमम्
न सुष्वाप सुखं राजा हृदि शल्यैरिवार्पितैः। दौरात्म्यमनुपश्यंस्तत्काले द्यूतोद्भवस्य हि
संस्मरन्परुषा वाचः सूतपुत्रस्य पाण्डवः। निःश्वासपरमो दीनो दध्रे कोपविषं महत्
अर्जुनोयमजौ चोभौ द्रौपदी च यशस्विनी। स च भीमो महातेजाः सर्वेषामुत्तमो बले
चिरस्य जातं धर्मज्ञं सासूयमिव ते तदा'। युधिष्ठिरमुदीक्षन्तः सेहुर्दुखमनुत्तमम्
अवशिष्टं त्वल्पकालं मन्वानाः पुरुषर्षभाः। वपुरन्यदिवाकार्पुरुत्साहामर्षचेष्टितैः
कस्यचित्त्वथ कालस्य व्यासः सत्यवतीसुतः। आजगाम महायोगी पाण्डवानवलोककः
तमागतमभिप्रेक्ष्यकुन्तीपुत्रो युधिष्ठिरः। प्रत्युद्गम्य महात्मानं प्रत्यगृह्णाद्यथाविधि
तमासीनमुपासीनः शुश्रूषुर्नियतेन्द्रियः। तोषयामास शौचेन व्यासं पाण्डवनन्दनः
तानवेक्ष्यकृशान्पौत्रान्वने वन्येन जीवतः। महर्षिरनुकम्पार्थमब्रवीद्बाष्पगद्गदम्
युधिष्ठिर महाबाहो शृणु धर्मभृतांवर। नातप्ततपसो लोके प्राप्नुवन्ति महत्सुखम्। सुखदुःखे हि पुरुषः पर्यायेणोपसेवते
नात्यन्तमसुखं कश्चित्प्राप्नोति पुरुषर्षभ। प्रज्ञावांस्त्वेव पुरुषः संयुक्तः परया धिया
उदयास्तमयज्ञो हि न हृष्यति न शोचति। सुखमापतितं विन्दन्दुःखमापतितं सहन्
कालप्राप्तमुपासीत सस्यानामिव कर्षकः। तपसो हि परं नास्ति तपसा विन्दते महत्
नासाध्यं तपसः किंचिदिति बुध्यस् भारत। सत्यमार्जवमक्रोधः संविभागो दमः शमः
अनसूयाऽविहिंसा च शौचमिन्द्रियसंयमः। साधनानि महाराज नराणां पुण्यकर्मणाम्
अधर्मरुचयो मूढास्तिर्यग्गतिपरायणाः। कृच्छ्रां योनिमनुप्राप्ता न सुखं विन्दते अनाः
इह यत्क्रियते कर्म तत्परत्रोपभुज्यते। `मूलसिक्तस्य वृक्षस्य फलं शाखासु दृश्यते'। तस्माच्छरीरं युञ्जीत तपसा नियमेन च
यथाशक्ति प्रयच्छेत संपूज्याभिप्रणम्य च। काले प्राप्ते च हृष्टात्मा राजन्विगतमत्सरः
सत्यवादी लभेतायुरनायासमथार्जवम्। अक्रोधनोऽनसूयश्च निर्वृतिं लभते पराम्
दान्तः शमपरः शश्वत्परिक्लेशं न विन्दति। न च तप्यति दान्तात्मा दृष्ट्वा परगतां श्रियम्