तेऽपिसर्वे महेष्वासा जग्मुर्वेश्मानि भारत। `स्वानिस्वनि महाराज भीष्मद्रोणादयो नृपा
पाण्डवाश्च महेष्वासा दूतवाक्यप्रचोदिताः। चिन्तयन्तस्तमेवार्थं नालभन्त सुखं क्वचित्
भूयश्च चारै राजेन्द्र प्रवृत्तिरुपपादिता। प्रतिज्ञा सूतपुतर्स्य विजयस्य वधं प्रति
एतच्छ्रुत्वा धर्मसुतः समुद्विग्नो नराधिप। `अधोमुखश्चिरं तस्थौ किं कार्यमिति चिन्तयन्
अभेद्यकवचं मत्वा कर्णमद्भुतविक्रमम्। अनुस्मरंश् संक्लेशान्न शान्तिमुपजग्मिवान्
तस्य चिन्तापरीतस्य बुद्धिर्जज्ञे महात्मनः। बहुव्यालमृगाकीर्णं त्यक्तुं द्वैतवनं वनम्
धार्तराष्ट्रोऽपि नृपतिः प्रशशास वसुंधराम्। भ्रातृभिः सहितो वीरैर्भीष्मद्रोणकृपैस्तथा
संगम्य सूतपुत्रेण कर्णेनाहवशोभिना। `सततं प्रीयमाणो वै देविना सौबलेन च
दुर्योधनः प्रिये नित्यं वर्तमानो महीभृताम्। पूजयामास विप्रेन्द्रान्क्रतुभिर्भूरिदक्षिणैः
भ्रातॄणां च प्रियं राजन्स चकार परंतपः। निश्चित्य मनसा वीरो दत्तभुक्तफलं धनम्
दुर्योधनं मोक्षयित्वा पाण्डुपुत्रा महाबलाः। किमकार्षुर्वने तस्मिंस्तन्ममाख्यातुमर्हसि
ततः शयानं कौन्तेयं रात्रौ द्वैतवन मृगाः। स्वप्नान्ते दर्शयामासुर्बाष्पकण्ठा युधिष्ठिरम्
तानब्रवीत्स राजेन्द्रो वेपमानान्कृताञ्जलीन्। ब्रूत यद्वक्तुकामाः स्थ के भवन्तः किमिष्यते
एवमुक्ताः पाण्डवेन कौन्तेयेन यशस्विना। प्रत्यब्रुवन्मृगास्तत्रहतशेषा युधिष्ठिरम्
वयं मृगा द्वैतवने हतशिष्टास्तु भारत। नोत्सीदेम महाराज क्रियतां वासपर्ययः
भवन्तो भ्रातरः शूराः सर्व एवास्त्रकोविदाः। कुलान्यल्पावशिष्टानि कृतवन्तो वनौकसाम्
बीजभूता वयं केचिदवशिष्टा महामते। विवर्धेमहि राजेन्द्र प्रसादात्ते युधिष्ठिर
तान्वेपमानान्वित्रस्तान्बीजमात्रावशेषितान्। मृगान्दृष्ट्वा सुदुःखार्तो धर्मराजो युधिष्ठिरः
तांस्तथेत्यब्रवीद्राजा सर्वभूतहिते रतः। यथा भवन्तो ब्रुवते करिष्यामि च तत्तथा
इत्येवं प्रतिबुद्धः स रात्र्यन्ते राजसत्तमः। अब्रवीत्सहितान्भ्रातॄन्दयापन्नो मृगान्प्रति
उक्तो रात्रौ मृगैरस्मि स्वप्नान्ते हतशेषितैः। तनुभूताः स्म भद्रं ते दया नः क्रियतामिति
ते सत्यमाहुः कर्तव्या दयाऽस्माभिर्वनौकसाम्। साष्टमासं हि नो वर्षं यदेनानुपयुंक्ष्महे
पुनर्वहुमृगं रम्यं काम्यकं काननोत्तमम्। तत्रेमां वसतिं शिष्टां विहरन्तो रमेमहि
ततस्ते पाण्डवाः शीघ्रं प्रययुर्धर्मकोविदाः
ब्राह्मणैः सहिता राजन्ये च तत्रसहोषिताः। इन्द्रसेनादिभिश्चैव प्रेष्यैरनुगतास्तदा
ते यात्वा सुसुखैर्मार्गैः स्वन्नैः शुचिजलान्वितैः। ददृशुः काम्यकं पुण्यमाश्रमं तापसान्वितम्
विविशुस्ते स्म कौरव्या वृता विप्रर्षभैस्तदा। तद्वनं भरतश्रेष्ठाः स्वर्गं सुकृतिनो यथा
वने निवसतां तेषां पाण्डवानां महात्मनाम्। वर्षाण्येकादशातीयुः कृच्छ्रेण भरतर्षभ
फलमूलाशनास्ते हि सुखार्हा दुःखमुत्तमम्। प्राप्तकालमनुध्यान्तः सेहिरे वरपूरुषाः
युधिष्ठिरस्तु राजर्षिरात्मकर्मापराधजम्। चिन्तयन्स महाबाहुर्भ्रातॄणां दुःखमुत्तमम्