शेषास्तु पाण्डवा राजन्नैवोचुः किंचिदप्रियम्। दूतश्चापि यथावृत्तं धार्तराष्ट्रे न्यवेदयत्
अथाजग्मुर्नरश्रेष्ठा नानाजनपदेश्वराः। ब्राह्मणाश्च महाभाग धार्तराष्ट्रपुरं प्रति
ते त्वर्चिता यथाशास्त्रं यथाविधि यथाक्रमम्। मुदा परमया युक्ताः प्रीताश्चापि नरेश्वराः
धृतराष्ट्रोऽपि राजेन्द्र संवृतः सर्वकौरवैः। हर्षेण महता युक्तो विदुरं प्रत्यभाषत
यथा सुखी जनः सर्वः क्षत्तः स्यादन्नसंयुतः। तुष्येत्तु यज्ञसदने तथा नीतिर्विधीयताम्
विदुरस्तु तदाज्ञाय सर्ववर्णानरिंदम। यथा प्रमाणतो विद्वान्पूजयामास धर्मवित्
भक्ष्यपेयान्नपानेन माल्यैश्चापि सुगन्धिभिः। वासोभिर्विविधैश्चैव योजयामास हृष्टवत्
कृत्वा ह्यवभृथं वीरो यथाशास्त्रं यथाक्रमम्। सान्त्वयित्वा च राजेन्द्रो दत्त्वा च विविधं वसु। विसर्जयामास नपान्ब्राह्मणांश्च सहस्रशः
विसृज्यच नृपान्सर्वान्भ्रातृभिः परिवारितः। विवेश हास्तिनपुरं सहितः कर्णसौबलैः
प्रविशन्तं महाराज सूतास्तुष्टुवुरच्युतम्। जनाश्चापि महेष्वासं तुष्टुवू राजसत्तमम्
लाजैश्चन्दनचूर्णैश्च विकीर्य च जनास्ततः। ऊटुर्दिष्ट्या नृपाविघ्नः समाप्तोयं क्रतुस्तव
अपरे त्वब्रुवंस्तत्रवादिकास्तं महीपतिम्। यौधिष्ठिरस्य यज्ञस्य न समो ह्येष ते क्रतुः
नैव तस्य क्रतोरेष कलामर्हति षोडशीम्। एवं तत्राब्रुवन्केचिद्वातिकास्तं जनेश्वरम्
सुहृदस्त्वब्रुवंस्तत्र अति सर्वानयं क्रतुः। `प्रवर्तितो ह्ययं राज्ञा धार्तराष्ट्रेण धीमता
ययातिर्नहुषश्चापि मान्धाता भरतस्तथा। क्रतुमेनं समाहृत्य पूताः सर्वे दिवं गताः
एता वाचः शुभाः शृण्वन्सुहृदां भरतर्षभ। प्रविवेश पुरं हृष्टः स्ववेश्म च नराधिपः
अभिवाद्य ततः पादान्मतापित्रोर्विशांपते। भीष्मद्रोणकृपादीनां विदुरस्य च धीमतः
अभिवादितः कनीयोभिर्भ्रातृभिर्भ्रातृनन्दनः। निषसादासने मुख्ये भ्रातृभिः परिवारितः
तमुत्थाय महाराजं सूतपुत्रोऽब्रवीद्वचः। दिष्ट्या ते भरतश्रेष्ठ समाप्तोऽयं महाक्रतुः
हतेषु युधि पार्थेषु राजसूये तथा त्वया। आहृतेऽहं नरश्रेष्ठ त्वां सभाजयिता पुनः
तमब्रवीन्महाराजो धार्तराष्ट्रो महायशाः
सत्यमेतत्त्वयोक्तं हि पाण्डवेषु दुरात्मसु। निहतेषु नरश्रेष्ठ प्राप्ते चापि महाक्रतौ। राजसूये पुनर्वीर त्वमेवं वर्धयिष्यसि
एवमुक्त्वा महाराज कर्णमाश्लिष्य भारत। राजसूयं क्रतुश्रेष्ठं चिन्तयामास कौरवः
सोऽब्रवीत्कौरवांश्चापि पार्श्वस्थान्नृपसत्तमः। `राधेयसौबलादीन्वै धार्तराष्ट्रो महीपतिः
कदा तु तं क्रतुवरं राजसूयं महाधनम्। निहत्य पाण्डवान्सर्वानाहरिष्यामि कौरवाः
तमब्रवीत्तदा कर्णः शृणु मे राजकुञ्जर। पादौ न धावये तावद्यावन्न निहतोऽर्जुनः
कीलालजं न खादेयं करिष्ये चासुरव्रतम्। नास्तीति नैव वक्ष्यामि याचितो येन केचनित्
अथोत्क्रुष्टं महेष्वासैर्धार्तराष्ट्रैर्महारथैः। प्रतिज्ञाते फल्गुनस्य वधे कर्णेन संयुगे
विजितांश्चाप्यमन्यन्त पाण्डवान्धृतराष्ट्रजाः। `तदा प्रतिज्ञामारुह्य सूतपुत्रेण भाषिते
दूर्योधनोऽपि राजेन्द्र विसृज्यनरपुङ्गवान्। प्रविवेश गृहंश्रीमान्यथा चैत्ररथं प्रभुः