स एवमुक्तो नृपतिमुवाच द्विजसत्तमः
ब्राह्मणैः सहितो राजन्ये तत्रासन्समागताः'। न स शक्यः क्रतुश्रेष्ठो जीवमाने युधिष्ठिरे। आहर्तुं कौरवश्रेष्ठ कुले तव नृपोत्तम
दीर्घायुर्जीवति च ते धृतराष्ट्रः पिता नृप। अतश्चापि विरुद्धस्ते क्रतुरेणष नृपोत्तमः
अस्ति त्वन्यन्महत्सत्रं राजसूयसमं प्रभो। तेन त्वं यज राजेन्द्र शृणु चेदं वचो मम
य इमे पृथिवीपालाः करदास्तव पार्थिव। ते करान्संप्रयच्छन्तु सुवर्णं च कृताकृतम्
तेन ते क्रियतामद्यलाङ्गलं नृपसत्तम। यज्ञवाटस् ते भूमिः कृष्यतां तेन भारत
तत्र यज्ञो नृपश्रेष्टः प्रभूतान्नः सुसंस्कृतः। प्रवर्ततां यथान्यायं सर्वतो ह्यनिवारितः
एष ते वैष्णवो नाम यज्ञः सत्पुरुषोचितः। एतेन नेष्टवान्कश्चिदृतेविष्णुं पुरातनम्
राजसूयं क्रतुश्रेष्ठं स्पर्धत्येष महाक्रतुः। अस्माकं रोचते चैव श्रेयश्च तव भारत
निर्विघ्नश्च भवत्येष सफला स्यात्स्पृहा तव। `तस्मादेष महाबाहो तव यज्ञः प्रवर्तताम्
एवमुकत्स्तु तैर्विप्रैर्धार्तराष्ट्रो महीपतिः। कर्णं च सौबलं चैव भ्रातॄश्चैवेदमब्रवीत्
रोचते मे वचः कृत्स्नं ब्राह्मणानां न संशयः। रोचते यदि युष्माकं तस्मात्प्रब्रूत माचिरम्
एवमुक्तास्तु ते सर्वे तथेत्यूचुर्नराधिपम्। संदिदेश ततोराजाव्यापारस्थान्यथाक्रमम्
हलस्य करणे चापि व्यादिष्टाः सर्वशिल्पिनः। यथोक्तं च नृपश्रेष्ठ कृतं सर्वं यथाक्रमम्
ततस्तु शिल्पिनः सर्वं कृतमूर्चुर्नराधिपम्। विदुरश्च महाप्राज्ञो धृतराष्ट्रे न्यवेदयत्
सज्जं क्रतुवरं राजन्कालप्राप्तं च भारत। सौवर्णं च कृतं सर्वं लाङ्गलं च महाधनम्
एवच्छ्रुत्वा नृपश्रेष्ठो धृतराष्ट्रो विशंपते। आज्ञापयामास नृपः क्रतुराजप्रवर्तनम्
ततः प्रववृते यज्ञः प्रभूतार्थः सुसंस्कृतः। दीक्षितश्चापि गान्धारिर्यथाशास्त्रं यथाक्रमम्
प्रहृष्टो धृतराष्ट्रश्च विदुरश्च महायशाः। भीष्मो द्रोणः कृपः कर्णो गान्धारी च यशस्विनी
निमन्त्रणार्थं दूर्तांश्च प्रेषयामास शीघ्रगान्। पार्थिवानां च राजेन्द्र ब्राह्मणानां तथैव च
ते प्रयाता यथोद्दिष्टा दूतास्त्वरितवाहनाः। तत्र कचित्प्रयान्तं तु दूतं दुःशासनोऽब्रवीत्
गच्छ द्वैतवनं शीघ्रं पाण्डवान्पापपूरुषान्। निमन्त्रय यथान्यायं विप्रांस्त स्मिन्वने तदा
स गत्वा पाण्डवान्सर्वानुवाचाभिप्रणम्य च। दुर्योधनो महाराज यजते नृपसत्तमः
स्ववीर्यार्जितमर्थौघमवाप्य कुरुसत्तमः। तत्र गच्छन्ति राजानो ब्राह्मणाश्च ततस्ततः
अहं तु प्रेषितो राजन्कौरवेण महात्मना। आमन्त्रयति वो राजा धार्तराष्ट्रो जनेश्वरः। मनोभिलषितं राज्ञस्तं क्रतुं द्रष्टुमर्हथ
ततो युधिष्ठिरो राजा तच्छ्रुत्वा दूतभाषितम्। अब्रवीन्नृपशार्दूलो दिष्ट्या राजा सुयोधनः। यजते क्रतुमुख्येन पूर्वेषां कीर्तिवर्धनः
वयमप्युपयास्यामो न त्विदानीं कथंचन। समयः परिपाल्यो नो यावद्वर्षं त्रयोदशम्
श्रुत्वैतद्धर्मराजस्य भीमो वचनमब्रवीत्। तदा तु नृपतिर्गन्ता धर्मराजो युधिष्ठिरः
अस्त्रशस्त्रप्रदीप्तेऽग्नौ यदा तं पातयिष्यति। वर्षात्रयोदशादूर्ध्वं रणसत्रे नराधिपः
यदा क्रोधहविर्मोक्ता धार्तराष्ट्रेषु पाण्डवः। आगन्तारस्तदा स्मेति वाच्यस्ते स सुयोधनः