विजित्य पृथिवीं सर्वां सपूर्वापरदक्षिणाम्। सम्लेच्छाटविकान्वीरः सपर्वतनिवासिनः
भद्रान्रोहितकांश्चैव आग्रेयान्मालवानपि। गणान्सर्वान्विनिर्जित्य नीतिकृत्प्रहसन्निव
शशकान्यवनांश्चैव विजिग्ये सूतनन्दनः। नग्नजित्प्रमुखांश्चैव गणाञ्जित्वा महारथान्
एवं स पृथिवीं सर्वां वशे कृत्वा महारथः। विजित्य पुरुषव्याघ्रो नागसाह्वयमागमत्
तमागतं महेष्वासं धार्तराष्ट्रो जनाधिपः। प्रत्युद्गत्य महाराज सभ्रातृपितृबान्धवः
अर्चयामास विधिना कर्णमाहवशोभिनम्। आश्रावयच्च तत्कर्म प्रीयमाणो जनेश्वरः
यन्न भीष्मान्न च द्रोणान्न कृपान्न च वाह्लिकात्। प्राप्तवानस्मि भद्रं ते त्वत्तःप्राप्तं मया हि तत्
बहुना च किमुक्तेन शृणु कर्ण वचो मम। सनाथोस्मि महाबाहो त्वया नाथेन सत्तम
न हि ते पाण्डवाः सर्वे कलामर्हन्ति षोडशीम्। अन्येवा पुरुषव्याघ्र राजानोऽभ्युदितोदिताः
स भवान्धृतराष्ट्रं तं गान्धारीं च यशस्विनीम्। पश्य कर्ण महेष्वास अदितिं वज्रभृद्यथा
ततो हलहलाशब्दः प्रादुरासीद्विशांपते। हाहाकाराश्च बहवो नगरे नागसाह्वये
रकेचिदेनं प्रशंसन्ति निन्दन्ति स्म तथा परे। तूष्णीमासंस्तथा चान्ये नृपास्तत्र जनाधिप
एवं विजित्य राजेन्द्र कर्णः शस्त्रभृतांवरः। सपर्वतवनाकाशां ससमुद्रां सनुष्कुटाम्
देशैरुच्चावचैः पूर्णां पत्तनैर्नगरैरपि। द्वीपैश्चानूपसंपूर्णैः पृथिवीं पृथिवीपते
कालेन नातिदीर्घेण वशे कृत्वा तु पार्थिवान्। अक्षयं धनमादाय सूतजो नृपमभ्ययात्
प्रविश्य च गृहं राजन्नभ्यन्तरमरिंदम। गान्धारीसहितं वीरो धृतराष्ट्रं ददर्श सः
पुत्रवच्च नरव्याघ्र पादौ जग्राह धर्मवित्। धृतराष्ट्रेण चाश्लिष्य प्रेम्णा चापि विसर्जितः
तदाप्रभृति राजा च शकुनिश्चापि सौबलः। जानाते निर्जितान्पार्थान्कर्णेन युधि भारत
जित्वा तु पृथिवीं राजन्सूतपुत्रो जनाधिप। अब्रवीत्परवीरघ्नो दुर्योधनमिदं वचः
दुर्योधन निबोधेदं यत्त्वां वक्ष्यामि कौरव। श्रुत्वा वाचं तथा सर्वं कर्तुमर्हस्यरिंदम
तवाद्य पृथिवी वीर निःसपत्ना नृपोत्तम। तां पालय यथा शक्रो हतशत्रुर्महामनाः
एवमुक्तस्तु कर्णेन कर्णं राजाऽब्रवीत्पुनः। न किंचिद्दुर्लभं तस्य यस् त्वं पुरुषर्षभ
सहायश्चानुरक्तश्च मदर्थं च समुद्यतः। अभिप्रायस्तु मे कश्चित्तं वै शृणु यथातथम्
राजसूयं पाण्डवस्य दृष्ट्वा क्रतुवरं तदा। कमम स्पृहा समुत्पन्ना तां संपादय सूतज
एवमुक्तस्ततः कर्णो राजानमिदमब्रवीत्। तवाद्य पृथिवीपाला वश्याः सर्वे नृपोत्तम
आहूयन्तां द्विजवराः संभाराश्च यथाविधि। संभ्रियन्तां कुरुश्रेष्ठ यज्ञोपकरणानि च
ऋत्विजश्च समाहूता यथोक्तं वेदपारगाः। क्रियां कुर्वन्तु ते राजन्यथाशास्त्रमरिंदम
बह्वन्नपानसंयुक्तः सुसमृद्धगुणान्वितः। प्रवर्ततां महायज्ञस्तवापि भरतर्षभ
एवमुक्तस्तु कर्णेन धार्तराष्ट्रो विशांपते। पुरोहितं समानाय्य वचनं चेदमब्रवीत्
राजसूयं क्रतुश्रेष्ठं समाप्तवरदक्षिणम्। आहरस्व यथाशास्त्रं यथान्यायं यथाक्रमम्