प्रवेशः क्रियते राजन्यथा तेन प्रवर्तितः। अपरेद्युस्ततस्तस्याः क्रियतेऽत्युच्छ्रयो नृपैः
अलङ्कृताया पिटकैर्गन्धमाल्यैश्च भूषणैः। `माल्यदामपरिक्षिप्तां द्वात्रिंशत्किष्कुसंमिताम्
उद्धृत्य पिटके चापि द्वादशारत्निकोच्छ्रये। महारजनवासांसि परिक्षिप्य ध्वजोत्तमम्
वासोभिरन्नपानैश्च पूजितैर्ब्राह्मणर्षभैः। पुण्याहं वाचयित्वाथ ध्वज उच्छ्रियते तदा
शङ्खभेरीमृदङ्गैश्च संनादः क्रियते तदा'। भगवान्पूज्यते चात्र यष्टिरूपेण वासवः
स्वयमेव गृहीतेन वसोः प्रीत्या महात्मनः। `माणिभद्रादयो यक्षाः पूज्यन्ते दैवतैः सह
नानाविधानि दानानि दत्त्वार्थिभ्यः सुहृज्जनैः। अलङ्कृत्वा माल्यदामैर्वस्त्रैर्नानाविधैस्तथा
दृतिभिः सजलैः सर्वैः क्रीडित्वा नृपशासनात्। सभाजयित्वा राजानं कृत्वा नर्माश्रयाः कथाः
रमन्ते नागराः सर्वे तथा जानपदैः सह। सूताश्च मागधाश्चैव रमन्ते नटनर्तकाः
प्रीत्या तु नृपशार्दूल सर्वे चक्रुर्महोत्सवम्। सान्तःपुरः सहामात्यः सर्वाभरणभूषितः
महारजनवासांसि वसित्वा चेदिराट् तदा। जातिहिङ्गुलकेनाक्तः सदारो मुमुदे तदा
एवं जानपदाः सर्वे चक्रुरिन्द्रमहं वसुः।।' यथा चेदिपतिः प्रीतश्चकारेन्द्रमहं वसुः
एतां पूजां महेन्द्रस्तु दृष्ट्वा वसुकृतां शुभाम्। `हरिभिर्वाजिभिर्युक्तमन्तरिक्षगतं रथम्
आस्थाय सह शच्या च वृतो ह्यप्सरसां गणैः।' वसुना राजमुख्येन समागम्याब्रवीद्वचः
ये पूजयिष्यन्ति च मुदा यथा चेदिपतिर्नृपः। कारयिष्यन्ति च मुदा यथा चेदिपतिर्नृपः
तेषां श्रीर्विजयश्चैव सराष्ट्राणां भविष्यति। तथा स्फीतो जनपदो मुदितश्च भविष्यति
निरीतिकानि सस्यानि भवन्ति बहुधा नृप। राक्षसाश्च पिशाचाश्च न लुम्पन्ते कथंचन
एवं महात्मना तेन महेन्द्रेण नराधिप। वसुः प्रीत्या मघवता महाराजोऽभिसत्कृतः। एवं कृत्वा महेन्द्रस्तु जगाम स्वं निवेशनम्
उत्सवं कारयिष्यन्ति सदा शक्रस्य ये नराः। भूमिरत्नादिभिर्दानैस्तथा पूज्या भवन्ति ते। वरदानमहायज्ञैस्तथा शक्रोत्सवेन च
संपूजितो मघवता वसुश्चेदीश्वरो नृपः। पालयामास धर्मेण चेदिस्थः पृथिवीमिमाम्
इन्द्रपीत्या चेदिपतिश्चकारेन्द्रमहं वसुः। पुत्राश्चास्य महावीर्याः पञ्चासन्नमितौजसः
नानाराज्येषु च सुतान्स सम्राडभ्यषेचयत्। महारथो मागधानां विश्रुतो यो बृहद्रथः
प्रत्यग्रहः कुशाम्बश्च यमाहुर्मणिवाहनम्। मत्सिल्लश्च यदुश्चैव राजन्यश्चापराजितः
एते तस्य सुता राजन्राजर्षेर्भूरितेजसः। न्यवेशयन्नामभिः स्वैस्ते देशांश्च पुराणि च
वासवाः पञ्च राजानः पृथग्वंशाश्च शास्वताः। वसन्तमिन्द्रप्रासादे आकाशे स्फाटिके च तम्
उपतस्थुर्महात्मानं गन्धर्वाप्सरसो नृपम्। राजोपरिचरेत्येवं नाम तस्याथ विश्रुतम्
पुरोपवाहिनीं तस्य नदीं शुक्तमतीं गिरिः। अरौत्सीच्चेतनायुक्तः कामात्कोलाहलः किल
गिरिं कोलाहलं तं तु पदा वसुरताडयत्। निश्चक्राम ततस्तेन प्रहारविवरेण सा
तस्यां नद्यां स जनयन्मिथुनं पर्वतः स्वयम्। तस्माद्विमोक्षणात्प्रीता नदी राज्ञे न्यवेदयत्
महिषी भविता कन्या पुमान्सेनापतिर्भवेत्। शुक्तिमत्या वचःश्रुत्वा दृष्ट्वा तौ राजसत्तमः