सोऽहं भीष्मवचस्तद्वै न मृष्यामीह भारत। त्वत्समं यदुक्तं च भीष्मेणामित्रकर्शन
पाण्डवानां यशो राजंस्तव निन्दां च भारत। अनुजानीहि मां राजन्सभृत्यबलवाहनम्
जेष्यामि पृथिवीं राजन्सशैलवनकाननाम्। जिता च पाण्डवैर्भूमिश्चतुर्भिर्बलशालिभिः
तामहं ते विजेष्यामि एक एव न संशयः। संपश्यतु सुदुर्बुद्धिर्भीष्मः कुरुकुलाधमः
अनिन्द्यं निन्दते यो हि अप्रशंस्यं प्रशंसति। स पश्यतु बलं मेऽद्य आत्मानं तु विगर्हतु
अनुजानीहि मां राजन्ध्रुवो हि विजयस्तव। प्रतिजानामि ते सत्यं राजन्नायुधमालभे
तच्छ्रुत्वा तु वचो राजन्कर्णस्य भरतर्षभ। प्रीत्या परमया युक्तः कर्णमाह नराधिपः
धन्योस्म्यनुगृहीतोस्मि यस्य मे त्वं महाबलः। हितेषु वर्तसे नित्यं सफलंजन्म चाद्य मे
यदा च मन्यसे वीर सर्वशत्रुनिबर्हणम्। तदा निर्गच्छ भद्रं ते ह्यनुशाधि च मामिति
एवमुक्तस्तदा कर्णो धार्तराष्ट्रेण धीमता। सर्वमज्ञापयामास प्रायात्रिकमरिंदम
प्रययौ च महेष्वासो नक्षत्रे शुभदैवते। शुभेतिथौ मुहूर्ते च पुज्यमानो द्विजातिभिः
मङ्गलैश्च शुभैः स्नातो वाग्भिश्चापि प्रपूजितः। नादयन्रथघोषेण त्रैलोक्यं सचराचरम्
ततः कर्णो महेष्वासो बलेन महता वृतः। द्रुपदस्य पुरं रम्यं रुरोध भरतर्षभ
युद्धेन महता चैनं चक्रे वीरं वशानुगम्। सुवर्णं रजतं चापि रत्नानि विविधानि च। करं च दापयांमास द्रुपदं नृपसत्तम
तं विनिर्जित्य राजेन्द्र राजानस्तस्य येऽनुगाः। तान्सर्वान्वशगांश्चक्रे करं चैनानदापयत्
अथोत्तरां दिशं गत्वा वशे चक्रे नराधिपान्। भगदत्तं च निर्जित्य राधेयो गिरिमारुहत्
हिमवन्तं महाशैलं युध्यमानश्च शत्रुभिः। प्रययौ च दिशः सर्वान्नृपतीन्वशमानयत्
स हैमवतिकाञ्जित्वा करं सर्वानदापयत्। नेपालविषये ये च राजानस्तानवाजयत्
अवतीर्य ततः शैलात्पूर्वां दिशमभिद्रुतः। अङ्गान्वङ्गान्कलिङ्गांश्च शुण्डिकान्मिथिलानथ
मागधान्कर्कखण्डांश्च निवेश्य विषयेऽऽत्मनः। आवशीरांश्च योध्यांश्च अहिक्षत्रांश्च सोऽजयत्
पूर्वां दिशं विनिर्जित्य वत्सभूमिं तथाऽगमत्
वत्सभूमिं विनिर्जित्य केवलां मृत्तिकावतीम्। मोहनं पत्तनं चैव त्रिपुरीं कोसलां तथा
एतान्सर्वान्विनिर्जित्य करमादाय सर्वशः। दक्षिणां दिशमास्थाय कर्णो जित्वा महारथान्। रुक्मिणं दाक्षिणात्येषु योधयामास सूतजः
स युद्धं तुमुलं कृत्वा रुक्मी प्रोवाच सूतजम्। प्रीतोस्मि तव राजेन्द्र विक्रमेण बलेन च
न ते विघ्नं करिष्यामि प्रतिज्ञां समपालयम्। प्रीत्या चाहं प्रयच्छामि हिरण्यं यावदिच्छसि
समेत्य रुक्मिणा कर्णः पाण्ड्यं शैलं च सोगमत्
स केवलं रणए चैव नीलं चापि महीपतिम्। वेणुदारिसुतं चैव ये चान्ये नृपसत्तमाः। दक्षिणस्यां दिशि नृपान्करान्सर्वानदापयत्
शैशुपालिं ततो गत्वा विजिग्ये सूतनन्दनः। पार्श्वस्थांश्चापि नृपतीन्वशे चक्रे महाबलः
आवन्त्यांश्च वशे कृत्वा साम्ना च भरतर्षभ। वृष्णिभिः सह संम्य पश्चिमामपि निर्जयत्
वारुणीं दिशमागम्य यावनान्वर्बरांस्तथा। नृपान्पश्चिमभूमिस्थान्दापयामास वै करान्