दृष्टस्ते विक्रमश्चैव पाण्डवानां महात्मनाम्। कर्णस्य च महाबाहो सूतपुत्रस्य दुर्मते
न चापि पादभाक्कर्णः पाण्डवानां महात्मनाम्। धनुर्वेदे च शौर्ये च धर्मे वा धर्मवत्सल
तस्मादहं क्षमं मन्ये पाण्डवैस्तैर्महात्मभिः। रसन्धिं सन्धिविदांश्रेष्ठ कुलस्यास्य विवृद्धये
एवमुक्तश्च भीष्मेण धार्तराष्ट्रो जनेश्वरः। प्रहस्य सहसा राजन्विप्रतस्थे ससौबलः
तं तु प्रस्थितमाज्ञाय कर्णदुःशासनादयः। अनुजग्मुर्महेष्वासा धार्तराष्ट्रं महाबलम्
तांस्तु संप्रस्थितान्दृष्ट्वा भीष्मः कुरुपितामहः। लज्जया व्रीडितो राजञ्जगाम स्वं निवेशनम्
गते भीष्मे महाराज धार्तराष्ट्रो जनेश्वरः। पुनरागम्य तं देशममन्त्रयत मन्त्रिभिः
किमस्माकं भवेच्छ्रेयः किं कार्यमवशिष्यते। कथं च सुकृतं तत्स्यान्मन्त्रयामास भारत
दुर्योधन निबोधेदं यत्त्वां वक्ष्यामि कौरव। भीष्मोस्मान्निन्दति सदा पाण्डवांश्च प्रशंसति
त्वद्वेषाच्च महाबाहो मामपि द्वेष्टुमर्हति। विगर्हते च मां नित्यं त्वत्समीपे नरेश्वर
सोऽहं भीष्मवचस्तद्वै न मृष्यामीह भारत। त्वत्समं यदुक्तं च भीष्मेणामित्रकर्शन
पाण्डवानां यशो राजंस्तव निन्दां च भारत। अनुजानीहि मां राजन्सभृत्यबलवाहनम्
जेष्यामि पृथिवीं राजन्सशैलवनकाननाम्। जिता च पाण्डवैर्भूमिश्चतुर्भिर्बलशालिभिः
तामहं ते विजेष्यामि एक एव न संशयः। संपश्यतु सुदुर्बुद्धिर्भीष्मः कुरुकुलाधमः
अनिन्द्यं निन्दते यो हि अप्रशंस्यं प्रशंसति। स पश्यतु बलं मेऽद्य आत्मानं तु विगर्हतु
अनुजानीहि मां राजन्ध्रुवो हि विजयस्तव। प्रतिजानामि ते सत्यं राजन्नायुधमालभे
तच्छ्रुत्वा तु वचो राजन्कर्णस्य भरतर्षभ। प्रीत्या परमया युक्तः कर्णमाह नराधिपः
धन्योस्म्यनुगृहीतोस्मि यस्य मे त्वं महाबलः। हितेषु वर्तसे नित्यं सफलंजन्म चाद्य मे
यदा च मन्यसे वीर सर्वशत्रुनिबर्हणम्। तदा निर्गच्छ भद्रं ते ह्यनुशाधि च मामिति
एवमुक्तस्तदा कर्णो धार्तराष्ट्रेण धीमता। सर्वमज्ञापयामास प्रायात्रिकमरिंदम
प्रययौ च महेष्वासो नक्षत्रे शुभदैवते। शुभेतिथौ मुहूर्ते च पुज्यमानो द्विजातिभिः
मङ्गलैश्च शुभैः स्नातो वाग्भिश्चापि प्रपूजितः। नादयन्रथघोषेण त्रैलोक्यं सचराचरम्
ततः कर्णो महेष्वासो बलेन महता वृतः। द्रुपदस्य पुरं रम्यं रुरोध भरतर्षभ
युद्धेन महता चैनं चक्रे वीरं वशानुगम्। सुवर्णं रजतं चापि रत्नानि विविधानि च। करं च दापयांमास द्रुपदं नृपसत्तम
तं विनिर्जित्य राजेन्द्र राजानस्तस्य येऽनुगाः। तान्सर्वान्वशगांश्चक्रे करं चैनानदापयत्
अथोत्तरां दिशं गत्वा वशे चक्रे नराधिपान्। भगदत्तं च निर्जित्य राधेयो गिरिमारुहत्
हिमवन्तं महाशैलं युध्यमानश्च शत्रुभिः। प्रययौ च दिशः सर्वान्नृपतीन्वशमानयत्
स हैमवतिकाञ्जित्वा करं सर्वानदापयत्। नेपालविषये ये च राजानस्तानवाजयत्
अवतीर्य ततः शैलात्पूर्वां दिशमभिद्रुतः। अङ्गान्वङ्गान्कलिङ्गांश्च शुण्डिकान्मिथिलानथ
मागधान्कर्कखण्डांश्च निवेश्य विषयेऽऽत्मनः। आवशीरांश्च योध्यांश्च अहिक्षत्रांश्च सोऽजयत्