संमृश्य तानि वाक्यानि दानवोक्तानि दुर्मतेः'। विजेष्यामि रणे पाण्डूनिति चास्याभवनमतिः
कर्णं संशप्तकांश्चैव पार्थस्यामित्रघातिनः। अमन्यत वधे युक्तान्समर्थांश्च सुयोधनः
एवमाशा दृढा तस् धार्तराष्ट्रस् दुर्मतेः। विनिर्जये पाण्डवानामभवद्भरतर्षभ
कर्णोऽप्याविष्टचित्तात्मा नरकस्यान्तरात्मना। अर्जुनस्य वधे क्रूरां करोति स्म तदा मतिम्
संशप्तकाश्च ते वीरा राक्षसाविष्टचेतसः। रजस्तमोभ्यामाक्रान्ताः फाल्गुनस्य वधैषिणः
भीष्मद्रोणकृपाद्याश्च दानवाक्रान्तचेतसः। न तथा पाण्डुपुत्राणां स्नेहवन्तोऽभवंस्तदा
न चाचचक्षे कस्मैचिदेतद्राजा सुयोधनः। `कृत्ययाऽऽनाय्यकथितं यदस्य निशि दानवैः
दुर्योधनं निशन्ते च कर्णो वैकर्तनोऽब्रवीत्। स्मयन्निवाञ्जलिं कृत्वा पार्थिवं हेतुमद्वचः
न मृतो जयते शत्रूञ्जीवन्भद्राणि पश्यति। मृतस्य भद्राणि कुतः कौरवेय कुतो जयः
न कालाऽद्य विषादस्य भयस्य मरणस्य वा। परिष्वज्याब्रवीच्चैवनं भुजाभ्यां स महाभुजः
उत्तिष्ठ राजन्किं शेषे कस्माच्छोचसि शत्रुहन्। शत्रून्प्रताप्य वीर्येण स कथं मर्तुमर्हसि
अथवा ते भयं जातं दृष्ट्वाऽर्जुनपराक्रमम्। सत्यंते प्रतिजानामि वधिष्यामि रणेऽर्जुनम्
गते त्रयोदशे वर्षे सत्येनायुधमालभे। आनयिष्याम्यहं पार्तान्वशं तव जनाधिप
एवमुक्तस्तु कर्णेन दैत्यानां वचनात्तथा। प्रणिपातेन चाप्येषामुदतिष्ठत्सुयोधनः
दैत्यानां तद्वचः श्रुत्वा हृदि कृत्वा स्थिरां मतिम्। ततो मनुजशार्दूलो योजयामास वाहिनीम्। रथनागाश्वफलिलां पदातिजनसंकुलाम्
गङ्गौघप्रतिमा चास्य प्रयाणे शुशुभे चमूः
श्वेतच्छत्रैः पताकाभिश्चामरैश्च सुपाण्डुरैः। रथैर्नागैः पदातैश्च शुशुभेऽतीव संकुला
व्यपेताभ्रघने काले द्यौरिवासीत्तु शारदी। `हंसपङ्क्तिसमाकीर्णा भ्रमत्सारसशोभिता
जयाशीर्भिर्द्विजेन्द्रैः स स्तूयमानोऽधिराजवत्। गृह्णन्नञ्जलिमालाश्च धार्तराष्ट्रो जनाधिपः
सुयोधनो ययावग्रे श्रिया परमया ज्वलम्। कर्णेन सार्धं राजेन्द्र सौबलेन च देविना
दुःशासनादयश्चास्य भ्रातरः सर्व एव ते। भूरिश्रवाः सोमदत्तो माराजश्च बाह्लिकः
रथैर्नानाविधाकारैर्हयैर्गजवरैस्तथा। प्रयान्तं नृपसिंहं तमनुजग्मुः कुरूद्वहाः
प्रहृष्टमनसः सर्वे दुर्योधनपुरोगमाः' ।। कालेनाल्पेन राजेन्द्र स्वपुरं विविशुस्तदा
एवं गतेषु पार्थेषु वने तस्मिन्महात्मसु। धार्तराष्ट्रा महेष्वासाः किमकुर्वत सत्तमाः
कर्णो वैकर्तनश्चैव शकुनिश्च महाबलः। भीष्मद्रोणकृपाश्चैव तन्मे शंसितुमर्हसि
एवं गतेषु पार्थेषु विसृष्टे च सुयोधने। आगते हास्तिनपुरं मोक्षिते पाण्डुनन्दनैः। भीष्मोऽब्रवीन्महाराज धार्तराष्ट्रमिदं वच
उक्तं तात मया पूर्वं गच्छतस्ते तपोवनम्। वचनं ते न रुचितं मम तन्न कृतं च ते
ततः प्राप्तं त्वया वीर ग्रहणं शत्रुभिर्बलात्। मोक्षितश्चासि धर्मज्ञैः पाण्डवैर्न च लज्जसे
प्रत्यक्षं तव गान्धारे ससैन्यस् विशांपते। सूतपुत्रोऽपयाद्भीतो गन्धर्वाणां तदा रणात्
क्रोशतस्तव राजेन्द्र ससैन्यस्य नृपात्मज। `व्यपायात्पृष्ठतस्तस्मात्प्रेक्षमाणः पुनःपुनः