स ते विक्रमशौण्डीरो रणे पार्थं विजेष्यति। कर्णः प्रहरतांश्रेष्ठः सर्वांश्चारीन्महारथः
ज्ञात्वैतच्छद्मना वज्री रक्षार्थं सव्यसाचिनः। कुण्डले कवचं चैव कर्णस्यापहरिष्यति
तस्मादस्माभिरप्यत्र दैत्याः शतसहस्रशः। नियुक्ता राक्षसाश्चैव ये ते संशप्तका इति। प्रख्यातास्तेऽर्जुनं वीरं युधि हिंस्यन्ति मा शुचः
असपत्ना त्वया हीयं भोक्तव्या वसुधा नृप। मा विषादं गमस्तस्मान्नैतत्त्वय्युपपद्यते
विनष्टे त्वयि चास्माकं पक्षो हीयेत कौरव। गच्छ वीर न ते बुद्धिरन्या कार्या कथंचन। त्वमस्माकं गतिर्नित्यं देवतानां च पाण्डवाः
एवमुक्त्वा परिष्वज्य दैत्यास्तं राजकुञ्जरम्। समाश्वास्य च दुर्धर्षं पुत्रवद्दानवर्षभाः
स्थिरां कृत्वा बुद्धिमस्य प्रियाण्युक्त्वा च भारत। गम्यतामित्यनुज्ञाय जयमाप्नुहि चेत्यथ
तैर्विसृष्टं महाबाहुं कृत्या सैवानयत्पुरः। तमेव देशं यत्रासौ तदा प्रायमुपाविशत्
प्रतिनिक्षिप्यतं वीरं कृत्या समभिपूज्य च। अनुज्ञाता च राज्ञा सा तत्रैवान्तरधीयत
गतायामथ तस्यां तु राजा दुर्योधनस्तदा। स्वप्नभूतमिदं सर्वमचिन्तयत भारत
संमृश्य तानि वाक्यानि दानवोक्तानि दुर्मतेः'। विजेष्यामि रणे पाण्डूनिति चास्याभवनमतिः
कर्णं संशप्तकांश्चैव पार्थस्यामित्रघातिनः। अमन्यत वधे युक्तान्समर्थांश्च सुयोधनः
एवमाशा दृढा तस् धार्तराष्ट्रस् दुर्मतेः। विनिर्जये पाण्डवानामभवद्भरतर्षभ
कर्णोऽप्याविष्टचित्तात्मा नरकस्यान्तरात्मना। अर्जुनस्य वधे क्रूरां करोति स्म तदा मतिम्
संशप्तकाश्च ते वीरा राक्षसाविष्टचेतसः। रजस्तमोभ्यामाक्रान्ताः फाल्गुनस्य वधैषिणः
भीष्मद्रोणकृपाद्याश्च दानवाक्रान्तचेतसः। न तथा पाण्डुपुत्राणां स्नेहवन्तोऽभवंस्तदा
न चाचचक्षे कस्मैचिदेतद्राजा सुयोधनः। `कृत्ययाऽऽनाय्यकथितं यदस्य निशि दानवैः
दुर्योधनं निशन्ते च कर्णो वैकर्तनोऽब्रवीत्। स्मयन्निवाञ्जलिं कृत्वा पार्थिवं हेतुमद्वचः
न मृतो जयते शत्रूञ्जीवन्भद्राणि पश्यति। मृतस्य भद्राणि कुतः कौरवेय कुतो जयः
न कालाऽद्य विषादस्य भयस्य मरणस्य वा। परिष्वज्याब्रवीच्चैवनं भुजाभ्यां स महाभुजः
उत्तिष्ठ राजन्किं शेषे कस्माच्छोचसि शत्रुहन्। शत्रून्प्रताप्य वीर्येण स कथं मर्तुमर्हसि
अथवा ते भयं जातं दृष्ट्वाऽर्जुनपराक्रमम्। सत्यंते प्रतिजानामि वधिष्यामि रणेऽर्जुनम्
गते त्रयोदशे वर्षे सत्येनायुधमालभे। आनयिष्याम्यहं पार्तान्वशं तव जनाधिप
एवमुक्तस्तु कर्णेन दैत्यानां वचनात्तथा। प्रणिपातेन चाप्येषामुदतिष्ठत्सुयोधनः
दैत्यानां तद्वचः श्रुत्वा हृदि कृत्वा स्थिरां मतिम्। ततो मनुजशार्दूलो योजयामास वाहिनीम्। रथनागाश्वफलिलां पदातिजनसंकुलाम्
गङ्गौघप्रतिमा चास्य प्रयाणे शुशुभे चमूः
श्वेतच्छत्रैः पताकाभिश्चामरैश्च सुपाण्डुरैः। रथैर्नागैः पदातैश्च शुशुभेऽतीव संकुला
व्यपेताभ्रघने काले द्यौरिवासीत्तु शारदी। `हंसपङ्क्तिसमाकीर्णा भ्रमत्सारसशोभिता
जयाशीर्भिर्द्विजेन्द्रैः स स्तूयमानोऽधिराजवत्। गृह्णन्नञ्जलिमालाश्च धार्तराष्ट्रो जनाधिपः
सुयोधनो ययावग्रे श्रिया परमया ज्वलम्। कर्णेन सार्धं राजेन्द्र सौबलेन च देविना