ते स्वपक्षक्षयं तं तु ज्ञात्वा दुर्योधनस्य वै। आह्वानाय तदा चक्रुः कर्म वैतानसंभवम्
बृहस्पत्युशनोक्तैश्च मन्त्रैर्मन्त्रविशारदाः। अथर्ववेदप्रोक्तैश्च याश्चौपनिषदाः क्रियाः। मन्त्रजप्यसमायुक्तास्तास्तदा समवर्तयन्
जुह्वत्यग्नौ हविः क्षीरं मन्त्रवत्सुसमाहिताः। ब्राह्मणा वेदवेदाङ्गपारगाः सुदृढव्रताः
अध्वर्यवो दानवानां कर्म प्रावर्तयंस्ततः
कर्मसिद्धौ तदा तत्र जृम्भमाणा महाद्भुता। कृत्या समुत्थिता राजन्किं करोमीति चाब्रवीत्
आहुर्दैत्याश्च तां तत्र सुप्रीतेनान्तरात्मना। प्रायोपविष्टं राजानं धार्तराष्ट्रमिहानय
तथेति च प्रतिश्रुत्य सा कृत्या प्रययौ तदा। निमेषादगमच्चापि यत्र राजा सुयोधनः
समादाय च राजानं प्रविवेश रसातलम्। दानवानां मुहूर्ताच्च पुरतस्तं न्यवेदयत्
तमानीतं नृपं दृष्ट्वा रात्रौ संगत्य दानवाः। प्रहृष्टमनसः सर्वे किंचिदुत्फुल्ललोचनाः
दृढमेनं परिष्यज्य दृष्ट्वा च कुशलं तदा'। साभिमानमिदं वाक्यं दुर्योधनमथाब्रुवन्
भोः सुयोधन राजेन्द्र भरतानां कुलोद्वह। शूरैः परिवृतो नित्यं तथैव च महात्मभिः
अकार्षीः साहसमिदं कस्मात्प्रायोपवेशनम्। आत्मत्यागी ह्यधो याति वाच्यतां चायशस्करीम्
न हि कार्यविरुद्धेषु बहुपापेषु कर्मसु। मूलघातिषु सज्जन्ते बुद्धिमन्तो भवद्विधाः
नियच्छैनां मतिं राजन्धर्मार्थसुखनाशिनीम्। यशःप्रतापवीर्यघ्नीं शत्रूणां हर्षवर्धनीम्
श्रूयतां तु प्रभो तत्त्वं दिव्यतां चात्मनो नृप। निर्माणं च रशरीरस्य ततो धैर्यमवाप्नुहि
पुरा त्व तपसाऽस्माभिर्लब्धो राजन्महेश्वरात्। पूर्वकायश्च ते सर्वो निर्मितो वज्रसंचयैः
अस्त्रैरभेद्यः शस्त्रैश्चाप्यधःकायश्च तेऽनघ। कृतः पुष्पमयो देव्या रूपतस्त्रीमनोहरः
एवमीश्वरसंयुक्तस्तव देहो नृपोत्तम। देव्या च राजशार्दूल दिव्यस्त्वं हि न मानुषः
क्षत्रियाश्च महावीर्या भगदत्तपुरोगमाः। दिव्यास्त्रविदुषः शूराः क्षपयिष्यन्ति ते रिपून्
तदलं ते विषादेन भयं तव न विद्यते। सहायार्थं च ते वीराः संभूता बुवि दानवाः
भीष्मद्रोणकृपादींश्च प्रवेक्ष्यन्त्यपरेऽसुराः। यैराविष्टा घृणां त्यक्त्वा योत्स्यन्ते तव वैरिभिः
नैव पुत्रान्न च भ्रातॄन्न पितॄन्न च बान्धवान्। नैव शिष्यान्न च ज्ञातीन्न बालान्त्यविरान्न च। युधि संप्रहरिष्यन्तो मोक्ष्यन्ति कुरुसत्तम
निःस्नेहा दानवाविष्टाः समाक्रान्तेऽन्तरात्मनि। प्रहरिष्यन्ति बन्धुभ्यः स्नेहमुत्सृज्य दूरतः
हृष्टाः पुरुषशार्दूलाः कलुषीकृतमानसाः। अनभिज्ञातमूलाश्च दैवाच्च विधिनिर्मितात्। व्याभाषमाणाश्चान्योन्यं न मे जीवन्विमोक्ष्यसे
सर्वे शस्त्रास्त्रमोक्षेण पौरुषे समवस्थिताः। श्लाघमानाः कुरुश्रेष्ठ करिष्यन्ति जनक्षयम्
तेपि पञ्च महात्मानः प्रतियोत्सन्ति पाण्डवाः। वधं चैषां करिष्यन्ति दैवयुक्ता महाबलाः
दैत्यरक्षोगणाश्चैव संभूताः क्षत्रयोनिषु। योत्स्यन्ति युधि विक्रम्य शत्रुभिस्तव पार्थिव
गदाभिर्मुसलैः शूलैः शस्त्रैरुच्चावचैस्तथा। `प्रहरिष्यनति ते वीरास्तवारिषु महाबलाः
यच्च तेऽन्तर्गतं वीर भयमर्जुनसंभवम्। तत्रापि विहितोऽस्माभिर्वधोपायोऽर्जुनस्य वै
हतस्य नरकस्यात्मा कर्णमूर्तिमुपाश्रितः। तद्वैरं संस्मरन्वीर योत्स्यते केशवार्जुनौ