कर्णसौबलयोश्चापि संश्रुत्य वचनान्यसौ। निर्वेदं परमं गत्वा राजा दुर्योधनस्तदा। व्रीडयाऽभिपरीतात्मा नैराश्यमगमत्परम्
सुहृदां चैव तच्छ्रुत्वा समन्युरिदमब्रवीत्। न धर्मधनसौख्येन नैश्वर्येण न चाज्ञया
नैव भोगैश्च मे कार्यं मा विहन्यत गच्छत। निश्चितेयं मम मतिः स्थिता प्रायोपवेशने
गच्छध्वं नगरं सर्वे पूज्याश्च गुरवो मम। त एवमुक्ताः प्रत्यूच् राजानमरिमर्दनम्
या गतिस्तव राजेन्द्र साऽस्माकमपि भारत। कथं वा संप्रवेक्ष्यामस्त्वद्विहीनाः पुरं वयम्
स सुहृद्भिरमात्यैश्च भातृभिः स्वजनेन च। बहुप्रकारमप्युक्तो निश्चयान्न व्यचाल्यत
दर्भास्तरणमास्तीर्य निश्चयाद्धृतराष्ट्रजः। संस्पृश्यापः शुचिर्भूत्वा भूतले समुपस्थितः
कुशचीराम्बरधरः परं नियममास्थितः। वाग्यतो राजशार्दूलः स स्वर्गगतिकाम्यया
मनसोपचितिं कृत्वा निरस् च बहिःक्रियाः। `तस्थौप्रायोपवेशेऽथमतिं कृत्वा सुनिश्चयाम्
अथ तं निश्चयं तस्य बुद्ध्वा दैतेयदानवाः। पातालवासिनो रौद्राः पूर्वं देवैर्विनिर्जिताः
ते स्वपक्षक्षयं तं तु ज्ञात्वा दुर्योधनस्य वै। आह्वानाय तदा चक्रुः कर्म वैतानसंभवम्
बृहस्पत्युशनोक्तैश्च मन्त्रैर्मन्त्रविशारदाः। अथर्ववेदप्रोक्तैश्च याश्चौपनिषदाः क्रियाः। मन्त्रजप्यसमायुक्तास्तास्तदा समवर्तयन्
जुह्वत्यग्नौ हविः क्षीरं मन्त्रवत्सुसमाहिताः। ब्राह्मणा वेदवेदाङ्गपारगाः सुदृढव्रताः
अध्वर्यवो दानवानां कर्म प्रावर्तयंस्ततः
कर्मसिद्धौ तदा तत्र जृम्भमाणा महाद्भुता। कृत्या समुत्थिता राजन्किं करोमीति चाब्रवीत्
आहुर्दैत्याश्च तां तत्र सुप्रीतेनान्तरात्मना। प्रायोपविष्टं राजानं धार्तराष्ट्रमिहानय
तथेति च प्रतिश्रुत्य सा कृत्या प्रययौ तदा। निमेषादगमच्चापि यत्र राजा सुयोधनः
समादाय च राजानं प्रविवेश रसातलम्। दानवानां मुहूर्ताच्च पुरतस्तं न्यवेदयत्
तमानीतं नृपं दृष्ट्वा रात्रौ संगत्य दानवाः। प्रहृष्टमनसः सर्वे किंचिदुत्फुल्ललोचनाः
दृढमेनं परिष्यज्य दृष्ट्वा च कुशलं तदा'। साभिमानमिदं वाक्यं दुर्योधनमथाब्रुवन्
भोः सुयोधन राजेन्द्र भरतानां कुलोद्वह। शूरैः परिवृतो नित्यं तथैव च महात्मभिः
अकार्षीः साहसमिदं कस्मात्प्रायोपवेशनम्। आत्मत्यागी ह्यधो याति वाच्यतां चायशस्करीम्
न हि कार्यविरुद्धेषु बहुपापेषु कर्मसु। मूलघातिषु सज्जन्ते बुद्धिमन्तो भवद्विधाः
नियच्छैनां मतिं राजन्धर्मार्थसुखनाशिनीम्। यशःप्रतापवीर्यघ्नीं शत्रूणां हर्षवर्धनीम्
श्रूयतां तु प्रभो तत्त्वं दिव्यतां चात्मनो नृप। निर्माणं च रशरीरस्य ततो धैर्यमवाप्नुहि
पुरा त्व तपसाऽस्माभिर्लब्धो राजन्महेश्वरात्। पूर्वकायश्च ते सर्वो निर्मितो वज्रसंचयैः
अस्त्रैरभेद्यः शस्त्रैश्चाप्यधःकायश्च तेऽनघ। कृतः पुष्पमयो देव्या रूपतस्त्रीमनोहरः
एवमीश्वरसंयुक्तस्तव देहो नृपोत्तम। देव्या च राजशार्दूल दिव्यस्त्वं हि न मानुषः
क्षत्रियाश्च महावीर्या भगदत्तपुरोगमाः। दिव्यास्त्रविदुषः शूराः क्षपयिष्यन्ति ते रिपून्
तदलं ते विषादेन भयं तव न विद्यते। सहायार्थं च ते वीराः संभूता बुवि दानवाः