यदा च शोचतः शोकोव्यसनं नापकर्षति। सामर्थ्यं किं ततः शोके शोचमानौ प्रपश्यथः
धृतिं गृह्णीतं मा शत्रूञ्शोचन्तौ नन्दयिष्यथः। कर्तव्यं हि कृतं राजन्पाण्डवैस्तव मोक्षणम्
नित्यमेव प्रियं कार्यं राज्ञो विपयवासिभिः। पाल्यमानास्त्वया ते हि निवसन्ति गतज्वराः
नार्हस्येवंगते मन्युं कर्तुं प्राकृतवत्स्वयम्। विषण्णास्तव सोदर्यास्त्वयि प्रायं समास्थिते
तदलं दुःखितानेतान्कर्तुं सर्वान्नराधिप'। उत्तिष्ठ व्रज भद्रं ते समाश्वासय सोदरान्
राजन्नद्यावगच्छामि तवैव लघुसत्वताम्। `अल्पत्वं च तथा बुद्धेः कार्याणामविवेकिताम्
किमत्र चित्रं धर्मज्ञ मोक्षितः पाण्डवैरसि। सद्यो वशं समापन्नः शत्रूणां शत्रुकर्शन
सेनाजीवैश्च कौरव्य तथा विषयवासिभिः। अज्ञातैर्यदि वा ज्ञातैः कर्तव्यं नृपतेः प्रियम्
प्रायः प्रधानाः पुरुषाः क्षोभयित्वाऽरिवाहिनीम्। निगृह्यन्ते चयुद्धेषु मोक्ष्यन्ते च स्वसैनिकैः
सेनाजीवाश्च ये राज्ञां विषये सन्ति मानवाः। तैः संगम्य नृपार्थाय यतितव्यं यथातथम्
यद्येवं पाण्डवै राजन्भवद्विषयवासिभिः। यदृच्छया मोक्षितोऽसि कतत्रका परिदेवना
न चैतत्साधु यद्राजन्पाण्डवास्त्वां नृपोत्तमम्। स्वसेनया संप्रयान्तं नानुयान्ति स्म पृष्ठतः
शूराश्च बलवन्तश्च संयुगेष्वपलायिनः। भवतस्ते सभायां वै प्रेष्यतां पूर्वमागताः
पाण्डवेयानि रत्नानि त्वमद्याप्युपभुञ्जसे। सत्वस्थान्पाण्डवान्पश्य न ते प्रायमुपाविशन्
तदलं ते महाबाहो विषादं कर्तुमीदृशम्'। उत्तिष्ठ रराजन्भद्रं ते न चिन्तां कर्तुमर्हसि
अवश्यमेव नृपते राज्ञो विषयवासिभिः। प्रियाण्याचरितव्यानि तत्र का परिदेवना
मद्वाक्यमेतद्राजेन्द्र यद्येवं न करिष्यसि। स्थास्यामीह भवत्पादौ शुश्रूषन्नरिमर्दन
नोत्सहे जीवितुमहं त्वद्विहीनो नरर्षभः। प्रायोपविष्टस्तु तथा राज्ञां हास्यो भविष्यसि
एवमुक्तस्तु कर्णेन राजा दुर्योधनस्तदा। नैवोत्थातुं मनश्चक्रे स्वर्गाय कृतनिश्चयः
प्रायोपविष्टं राजानं दुर्योधनममर्षणम्। उवाच सान्त्वयन्राजञ्शकुनिः सौबलस्तदा
सम्यगुक्तं हि कर्णेन तच्छ्रुतं कौरव त्वया। मया हृतां श्रियं स्फीतां तां मोहादपहासि किम्
त्वमबुद्ध्या नृपवर प्राणानुत्स्रष्टुमिच्छसि। अद्य वाऽप्यवगन्छामि न वृद्धाः सेवितास्त्वया
यः समुत्पतितं हर्षं दैन्यं वा न नियच्छति। स नश्यति श्रियं प्राप्य पात्रमाममिवाम्भसि
अतिभीरुं मृदुं क्लीबं दीर्घसूत्रं प्रमादिनम्। व्यसनाद्विषयाक्रान्तं न भजन्ति नृपं श्रिताः
सत्कृतस्य हि ते शोको विपरीते कथं भवेत्। मा कृतं शोभनं पार्थैः शोकमालम्ब्य नाशय
यत्र हर्षस्त्वया कार्यः सत्कर्तव्याश्च पाण्डवाः। तत्र शोचसि राजेन्द्रविपरीतमिदं तव
प्रसीदमा त्यजात्मानं तुष्टश्च सुकृतं स्मर। कप्रयच्छ राज्यं पार्थानां यशो धर्ममवाप्नुहि। क्रियामेतां समाज्ञाय कृतघ्नो न भविष्यसि
सौभ्रात्रं पाण्डवैः कृत्वा समवस्ताप्य चैव तान्। पित्र्यं राज्यं प्रयच्छैषां ततः सुखमवाप्स्यसि
शकुनेस्तु वचः श्रुत्वा दुःशासनमवेक्ष्य च। पादयोः पतितं वीरं विकृतं भ्रातृसौहृदात्
बाहुभ्यां साधुजाताभ्यां दुःशासनमरिंदमम्। उत्थाप्य संपरिष्वज्य प्रीत्याऽजिघ्रत मूर्धनि