दुर्विनीताः श्रियं प्राप्य विद्यामैश्वर्यमेव च। तिष्ठन्ति न चिरं भद्रे यथाऽहं मदगर्वितः
अहो वत यथेदं मे कष्टं दुश्चरितं कृतम्। स्वयं दुर्बुद्धिना मोहाद्येन प्राप्तोस्मि संशयम्
तस्मात्प्रायमुपासिष्ये न हिशक्ष्यामि जीवितुम्। चेतयानो हि को जीवेत्कृच्छ्राच्छत्रुभिरुद्धृतः
शत्रुभिश्चावहसितो मानी पौरुषवर्जितः। पाण्डवैर्विक्रमाढ्यैशच् सावमानमवेक्षितः
एवं चिन्तापरिगतो दुःशासनमथाब्रवीत्। दुःशासन निबोधेदं वचनं मम भारत
प्रतीच्छ त्वं मया दत्तमभिषेकं नृपो भव। प्रशाधि पृथिवीं स्फीतांकर्णसौबलपालिताम्
भ्रातॄन्पालय विस्रब्धं मरुतो वृत्रहा यथा। बान्धवाश्चोपजीवन्तु देवा इव शतक्रतुम्
ब्राह्मणेषु सदा वृत्तिं कुर्वीथाश्चाप्रमादतः। बन्धूनां सुहृदां चैव भवेथास्त्वं गतिः सदा
ज्ञातींश्चाप्यनुपश्येथा विष्णुर्देवगणान्यथा। गुरवः पालनीयास्ते गच्छ पालय मेदिनीम्
नन्दयन्सुहृदः सर्वाञ्शात्रवांश्चावभर्त्सयन्। कण्ठे चैनं परिष्वज्यगम्यतामित्युवाच ह
तस्य तद्वचनं श्रुत्वा दीनो दुशासनोऽब्रवीत्। अश्रुकण्ठः सुदुःखार्तः प्राञ्जलिः प्रणिपत्य च
सगद्गदमिदं वाक्यं भ्रातरं ज्येष्ठमात्मनः। कप्रसीदेत्यपतद्भूमौ दूयमानेन चेतसा
दुःखितः पादयोस्तस्य नेत्रजं जलमुत्सृजन्। उक्तवांश्च नरव्याघ्रो नैतदेवं भविष्यति
विदीर्यत्सकला भूमिर्द्यौश्चापि शकलीभवेत्। रविरात्मप्रभां जह्यात्सोमः शीतांशुतां त्यजेत्
वायुः शैघ्र्यमथो जह्याद्धिमवांश्च हिमं त्यजेत्। शुष्येत्तोयं समुद्रेषु वह्निरप्युष्णतां त्यजेत्
न चाहं त्वदृते राजन्प्रशासेयं वसुंधराम्। पुनःपुनः प्रसीदेति वाक्यं चेदमुवाच ह
शत्रूणां शोककृद्राजन्सुहृदां शोकनाशनः' त्वमेव नःकुलेराजा भविष्यसि शतं समाः
एवमुक्त्वा स राजानं सुश्वरं प्ररुरोद ह। पादौ संस्पृश्य मानार्हौ भ्रातुर्ज्येष्ठस्य भारत
तथा तौ दुःखितौ दृष्ट्वा दुःशासनसुयोधनौ। अभिगम्य व्यथाविष्टः कर्णस्तौ प्रत्यभाषत
विषीदथः किं कौरव्यौ बालिश्यात्प्राकृताविव। न शोकः शोचमानस्य विनिवर्तेत कर्हिचित्
यदा च शोचतः शोकोव्यसनं नापकर्षति। सामर्थ्यं किं ततः शोके शोचमानौ प्रपश्यथः
धृतिं गृह्णीतं मा शत्रूञ्शोचन्तौ नन्दयिष्यथः। कर्तव्यं हि कृतं राजन्पाण्डवैस्तव मोक्षणम्
नित्यमेव प्रियं कार्यं राज्ञो विपयवासिभिः। पाल्यमानास्त्वया ते हि निवसन्ति गतज्वराः
नार्हस्येवंगते मन्युं कर्तुं प्राकृतवत्स्वयम्। विषण्णास्तव सोदर्यास्त्वयि प्रायं समास्थिते
तदलं दुःखितानेतान्कर्तुं सर्वान्नराधिप'। उत्तिष्ठ व्रज भद्रं ते समाश्वासय सोदरान्
राजन्नद्यावगच्छामि तवैव लघुसत्वताम्। `अल्पत्वं च तथा बुद्धेः कार्याणामविवेकिताम्
किमत्र चित्रं धर्मज्ञ मोक्षितः पाण्डवैरसि। सद्यो वशं समापन्नः शत्रूणां शत्रुकर्शन
सेनाजीवैश्च कौरव्य तथा विषयवासिभिः। अज्ञातैर्यदि वा ज्ञातैः कर्तव्यं नृपतेः प्रियम्
प्रायः प्रधानाः पुरुषाः क्षोभयित्वाऽरिवाहिनीम्। निगृह्यन्ते चयुद्धेषु मोक्ष्यन्ते च स्वसैनिकैः
सेनाजीवाश्च ये राज्ञां विषये सन्ति मानवाः। तैः संगम्य नृपार्थाय यतितव्यं यथातथम्