दिष्ट्या जीवसि गान्धारे दिष्ठ्या नः संगमः पुनः। दिष्ट्या त्वया जिताश्चैव गन्धर्वाः कामरूपिणः
दिष्ट्या समग्रान्पश्यामि भ्रातॄस्ते कुरुनन्दन। विजिगीषून्रणे युक्तान्निर्जितारीन्महारथान्
अहं त्वभिद्रुतः सर्वैर्गन्धर्वैः पश्यतस्व। नाशक्नुवं स्थापयितुं दीर्यमाणां च वाहिनीम्। शरक्षताङ्गश्च भृशं व्यपयातोऽभिपीडितः
इदं त्वत्यद्भुतं मन्ये यद्युष्मानिह भारत। अरिष्टानक्षसांश्चापि सदारबलवाहनान्। विमुक्तान्संप्रपश्यामि युद्धात्तस्मादमानुषात्
नैतस्य कर्ता लोकेऽस्मिन्पुमान्विद्यति भारत। यत्कृतं ते महाराज सह भ्रातृभिराहवे
एवमुक्तस्तु कर्णेन राजा दुर्योधनस्तदा। उवाचावाक्शिरा राजन्बाष्पगद्गदया गिरा ।। राजानं मोचयामासुर्बद्धं निगडबन्धनैः
अजानतस्ते राधेय नाभ्यसूयाम्यहं वचः। जानासि त्वं जिताञ्शत्रून्गन्धर्वां स्तेजसा मया
आयोधितास्तु गन्धर्वाः सुचिरं सोदरैर्मम। मया सह महाबाहो कृतश्चोभयतः क्षयः
मायाधिकास्त्वयुध्यन्त यदा शूरा वियद्गताः। तदा नो न समं युद्धमभवत्खेचरैः सह
पराजयं च प्राप्ताः स्मो रणे बन्धनमेव च। सभृत्यामात्यपुत्राश्च सदारबलवाहनाः। उच्चैराकाशमार्गेण ह्रियमाणाः सुदुःखिताः
अथ नः सैनिकाः केचिदमात्याश्च महारथाः। उपगम्याब्रुवन्दीनाः पाण्डवाञ्शरणप्रदान्
एष दुर्योधनो राजा धार्तराष्ट्रः सहानुजः। सामात्यदारो ह्रियते गन्धर्वैर्दिवमाश्रितैः
तं मोक्षयत भद्रं वः सहदारं नराधिपम्। परामर्शो मा भविष्यत्कुरुदारेषु सर्वशः। `इत्यब्रुवन्रणआन्मुक्ता धर्मराजमुपागताः
एवमुक्ते तु धर्मात्मा ज्येष्ठः पाण्डुसुतस्तदा। प्रसाद्य सोदरान्सर्वानाज्ञापयत मोक्षणे
अथागम्य तमुद्देशं पाण्डवाः पुरुषर्षभाः। सान्त्वपूर्वमयाचन्त शक्ताः सन्तो महारथाः
यदा चास्मान्न मुमुचुर्गन्धर्वाः सान्त्विता अपि। `आकाशचारिणो वीरा नदन्तो जलदा इव
ततोऽर्जुनश्च भीमश्च यमजौ च बलोत्कटौ। मुमुचुः शरवर्षाणि गन्धर्वान्प्रत्यनेकशः
अथ सर्वे रणं मुक्त्वा प्रयाताः खेचरा दिवम्। अस्मानेवाभिकर्षन्तो दीनान्मुदितमानसाः
ततः समन्तात्पश्यामः शरजालेन वेष्टितम्। अमानुषाणि चास्त्राणि प्रयुञ्जानं घनंजयम्
समावृता दिशो दृष्ट्वा पाण्डवेन शितैः शरैः। धनंजयसखाऽऽत्मानं दर्शयामास वै तदा
चित्रसेनः पाण्डवेन समाश्लिष्य परस्परम्। कुशलं परिपप्रच्छ तैः पृष्टश्चाप्यनामयम्
ते समेत्य तथाऽन्योन्यं सन्नाहान्विप्रमुच्य च। एकीभूतास्ततो वीरा गन्धर्वाः सह पाण्डवैः
परस्परं समागम्य प्रीत्या परमया युतौ'। अपूजयेतामन्योन्यं चित्रसेनधनंजयौ
चित्रसेनं समागम्य प्रहसन्नर्जुनस्तदा। इदं वचनमक्लीवमब्रवीत्परवीरहा
भ्रातृनर्हसि मे वीर मोक्तुं गन्धर्वसत्तम। अनर्हधर्षणा हीमे जीवमानेषु पाण्डुषु
एवमुक्तस्तु गन्धर्वः पाण्डवेन महात्मना। उवाच यत्कर्ण वयं मन्त्रयन्तो विनिर्गताः
स्थितोराज्येच्युतान्स्थानाच्छ्रियाहीनांश्रियावृतः' द्रष्टास्मि निःसुखान्वीरान्सदारान्पाण्डवानिति
तस्मिन्नुच्चार्यमाणे तु गन्धर्वेण वचस्तथा। भूमेर्विवरमन्वैच्छं प्रवेष्टुं व्रीडयाऽन्वितः
युधिष्ठिरमथागम् गन्धर्वाः सह पाण्डवैः। अस्मद्दुर्मन्त्रितं तस्मै बद्धांश्चास्मान्न्यवेदयन्
स्त्रीसमक्षमहं दीनो बद्धः शत्रुवशं गतः। युधिष्ठिरस्योपहृतः किंनु दुःखमतः परम्