पापोऽयं नित्यसंदुष्टो न विमोक्षणमर्हति। प्रलब्धा धर्मराजस्य कृष्णायाश्च धनंजय
नेदं चिकीर्षितं तस् कुन्तीपुत्रो युधिष्ठिरः। जानाति धर्मराजो हि श्रुत्वा कुरु यथेच्छसि
ते सर्व एव राजनमभिजग्मुर्युधिष्ठिरम्। अभिगम्य च तत्सर्वं शशंसुस्तस्य चेष्टितम्
अजातशत्रुस्तच्छ्रुत्वा गन्धर्वस्य वचस्तदा। मोक्षयामास तान्सर्वान्गन्धर्वान्प्रशशंस च
चित्रसेनस्तदा वाक्यमुवाच प्रौढया गिरा। मुञ्चध्वंसानुजामात्यं सदारं च सुयोधनम्
गन्धर्वास्तु वचः श्रुत्वा चित्रसेनस्य वै द्रुतम्। राजानं मोचयामासुर्बद्धं निगडबन्धनैः
सदारं सानुगामात्यं बालजालमयेन ये। लुछन्तश्चापि ते सर्वे युधिष्ठिरसमीपतः
पतिता लज्जिताश्चैव तस्थुश्चाधोमुखास्तदा। युधिष्ठिरोपि दयया तान्समीक्ष्य तथागतान्
दिष्ट्या भवद्भिर्बलिभिः शक्तैः सर्वैर्न हिंसितः। दुर्वृत्तो धार्तराष्ट्रोऽयं सामात्यज्ञातिबान्धवः
उपकारो मसांस्तात कृतोऽयं मम खेचर। कुलं न परिभूतं मे मोक्षेणास्य दुरात्मनः
आज्ञापयध्वमिष्टानि प्रीतं मां दर्शनेन वः। प्राप्य सर्वानभिप्रायांस्ततो व्रजत मा चिरम्
अनुज्ञातास्तु गन्धर्वाः पाण्डुपुत्रेण धीमता। सहाप्सरोभिः संहृष्टाश्चित्रसेनमुखा ययुः
देवलोकं ततो गत्वा गन्धर्वैः सहितस्तदा। न्यवेदयच्च तत्सर्वं चित्रसेनः शतक्रतोः
देवराडपि गन्धर्वान्मृतांस्तान्समजीवयत्। दिव्येनामृतवर्षेण ये हताः कौरवैर्युधि
ज्ञातींस्तानवमुच्याथ राजदारांश्च सर्वशः। कृत्वा च रदुष्करं कर्म प्रीतियुक्ताश्च पाण्डवाः
सस्त्रीकुमारैः कुरुभिः पूज्यमाना महारथाः। बभ्राजिरे महात्मानः क्रतुमध्ये यथाऽग्नयः
ततो दुर्योधनं मुक्तं भ्रातृभिः सहितस्तदा। युधिष्ठिरस्तु प्रणयादिदं वचनमब्रवीत्
रमा स्म तात पुनः कार्षीरीदृशं साहसं क्वचित्। न हि साहसकर्तारः सुखमेघन्ति भारत
स्वस्तिमान्सहितः सर्वैर्ब्रातृभिः कुरुनन्दन। गृहान्व्रज यथाकामं वैमनस्यं च मा कृथाः
पाण्डवेनाभ्यनुज्ञानो राजा दुर्योधनस्तदा। अभिवाद्य धर्मपुत्रं गतेन्द्रिय इवातुरः। विदीर्यमाणो व्रीडावाञ्जगाम नगरं प्रति
तस्मिन्गते कौरवेये कुन्तीपुत्रो युधिष्ठिरः। भ्रातृभिः सहितो वीरः पूज्यमानो द्विजातिभिः
तपोधनैश्च तैः सर्वैर्वृतः शक्र इवामरैः। तथा द्वैतवने तस्मिन्विजहार मुदा युतः
शत्रुभिर्जितबद्धस् पाण्डवैश्च महात्मभिः। मोक्षितस्य युधा पश्चान्मानिनः सुदुरात्मनः
कत्थनस्यावलिप्तस्य गर्वितस् च नित्यशः। सदा च पौरुषौदार्यैः पाण्डवानवमन्यतः
दुर्योधनस् पापस्य नित्याहंकारवादिनः। प्रवेशो हास्तिनपुरे दुष्करः प्रतिभाति मे
तस्य लज्जानवितस्यैव शोकव्याकुलचेतसः। प्रवेशं विस्तरेण रत्वं वैशंपायन कीर्तय
धर्मराजनिसृष्स्तु धार्तराष्ट्रः सुयोधनः। लज्जयाऽधोमुखः सीदन्नुपासर्पत्सुदुःखितः
स्वपुरं प्रययौ राजा चतुरङ्गबलानुगः। शोकोदहतया बुद्ध्या चिन्तयानः पराभवम्
विमुच्य पथि यानानि देशे सुयवसोदके। सन्निविष्टः शुभे रम्ये भूमिभागे यथेप्सितम्। हस्त्यश्वरथपादातं यथास्थानं न्यवेशयत्
अथोपविष्टं राजानं पर्यङ्के ज्वलनप्रभे। उपप्लुतं यथा सोमं राहुणा रात्रिसंक्षये। उपागम्याब्रवीत्कर्णो दुर्योधनमिदं तदा