सतानुत्पतितानदृष्ट्वा कुन्तीपुत्रो धनंजयः। महता शरजालेन समन्तात्पर्यवारयत्
ते ब्रद्धाः शरजालेन शकुन्ता इव पञ्जरे ववर्पुरर्जुनं क्रोधाद्गदाशक्त्यृष्टिवृष्टिभिः
गदाशक्त्यृष्टिवृष्टीस्ता निहत्य परमास्त्रवित्। गात्राणि चाहनद्भल्लैर्गन्धर्वाणां धनंजयः
शिरोभिः प्रपतद्भिश्च चरणैर्बाहुभिस्तथा। अश्मवृष्टिरिवाभाति परेषामभवद्भयम्
ते वध्यमाना गन्धर्वाः पाण्डवेन महात्मना। भूमिष्ठमन्तरिक्षस्थाः शरवर्षैरवाकिरन्
तेषां तु शरवर्षाणि सव्यसाची परंतपः। अस्त्रैः संवार्य तेजस्वी गन्धर्वान्प्रत्यविध्यत
स्थूणाकर्णेन्द्रजालं च सौरं चापि तथाऽर्जुनः। आग्नेयं चापि सौम्यं च ससर्ज कुरुननदनः
ते दह्यमाना गन्धर्वाः कुन्तीपुत्रस्य सायकैः। दैतेया इव शक्रेण विषादमगमन्परम्
ऊर्ध्वमाक्रममाणाश्च शरजालेन वारिताः। विसर्पमाणा भल्लैश्च वार्यन्ते सव्यसाचिना
गन्धर्वांस्त्रासितान्दृष्ट्वा कुन्तीपुत्रेण भारत। चित्रसेनो गदां गृह्य सव्यसाचिनमनाद्रवत्
तस्याभिपततस्तूर्णं गदाहस्तस्य संयुगे। गदां सर्वायसीं पार्थः शरैश्चिच्छेद सप्तधा
स गदां बहुधा दृष्ट्वा कृत्तां बाणैस्तरस्विना। संवृत्य विद्ययाऽऽत्मानं योधयामास पाण्डवं
अस्त्राणइ तस्य दिव्यानि संप्रयुक्तानि सर्वशः। दिव्यैरस्त्रैस्तदा वीरः पर्यवारयदर्जुनः
स वार्यमाणस्तैरस्त्रैरर्जुनेन महात्मना। गन्धर्वराजो बलवान्माययाऽन्तर्हितस्तदा
अन्तर्हितं तमालक्ष्य प्रहरन्तमथार्जुनः। ताडयामास खचरैर्दिव्यास्त्रप्रतिमन्त्रितैः
अन्तर्धानवधं चास्य चक्रे क्रुद्धोऽर्जुनस्तदा। शब्दवेषं समाश्रित्य बहुरूपो धनंजयः
रस वध्यमानस्तैरस्त्रैरर्जुनेन महात्मना। ततोऽस्य दर्शयामास तदाऽऽत्मानं प्रियः सखा
चित्रसेनस्तथोवाच सखायं युधि विद्धि माम्। चित्रसेनमथालक्ष्य सखायमिति विस्मितः
संजहारास्त्रमथं तत्प्रसृष्टं पाण्डवर्षभः
दृष्ट्वा तु पाण्डवाः सर्वे संहृतास्त्रं धनंजयम्। संजह्रुः प्रद्रुतानश्वाञ्शरवेगान्धनूंषि च
चित्रसेनश्च भीमश्च सव्यसाची यमावपि। पृष्ट्वा कौशलमन्योन्यं रथेष्वेवावतस्थिरे
ततोऽर्जुनश्चित्रसेनं प्रहसन्निदमब्रवीत्। मध्ये गन्धर्वसैन्यानां महेष्वासो महाद्युतिः
किं ते व्यवसितं वीर कौरवाणां विनिग्रहे। किमर्थं च सदारोऽयं निगृहीतः सुयोधनः
विदितोऽयमभिप्रायस्तत्रस्थेन दुरात्मनः। इन्द्रेण धार्तराष्ट्रस्य सकर्णस्य धनंजय
वनस्थान्भवतो ज्ञात्वा क्लिश्यमानाननर्हवत्। समस्थो विषमस्थांस्तान्द्रक्ष्यामीत्यनवस्थितान्
इमेऽवहसितुं प्राप्ता द्रौपदीं च यशस्विनीम्। ज्ञात्वा चिकीर्षितं चैषां मामुवाच सुरेश्वरः
गच्छ दुर्योधनं बद्ध्वा सहामात्यमिहानय। धनंजयश्च ते रक्ष्यः रसह भ्रातृभिराहवे
स च प्रियः सखा तुभ्यं शिष्यश् तव पाण्डवः। वचनाद्देवराजस् ततोऽस्मीहागतो द्रुतम्
अयं दुरात्मा बद्धश्च गमिष्यामि सुरालयम्। नेष्याम्येनं कदुरात्मानं पाकशासनशासनात्
उत्सृज्यतां चित्रसेन भ्राताऽस्माकं सुयोधनः। धर्मराजस्य संदेशान्मम चेदिच्छसि प्रियम्