अभेद्यानि ततः सर्वे समनह्यन्त भारत। जाम्बूनदविचित्राणि कवचानि महारथाः। आयुधानि च दिव्यानि विविधानि समादधुः
ते दंशिता रथैः सर्वे ध्वजिनः सशरासनाः। पाण्डवाः प्रत्यदृश्यन्त ज्वलिता इवपावकाः
तान्रथान्साधुसंपन्नान्संयुक्ताञ्जवनैर्हयैः। आस्थाय रथशार्दूलाः शीघ्रमेव ययुस्ततः
ततः कौरवसैन्यानां प्रादुरासीन्महास्वनः। प्रयातान्सहितान्दृष्ट्वा पाण्डुपुत्रान्महारथान्
जितकाशिनश्च स्वचरास्त्वरिताश्च महारथाः। क्षणेनैव वने तस्मिन्समाजग्मुरभीतवत्
न्यवर्तन्त ततः सर्वे गन्धर्वा जितकाशिनः। दृष्ट्वा रथगतान्वीरान्पाण्डवांश्चतुरो रणे
तांस्तु विभ्राजितान्दृष्ट्वा लोकपालानिवोद्यतान्। व्यूढानीका व्यतिष्ठन्त गन्धमादनवासिनः
राज्ञस्तु वचनं श्रुत्वा धर्मपुत्रस्य धीमतः। क्रमेण मृदुना युद्धमुपक्रान्तं च भारत
न तु गन्धर्वराजस्य सैनिका मन्दचेतसः। शक्यन्ते मृदुना श्रेयः प्रतिपादयितुं तदा
ततस्तान्युधि दुर्धर्षान्सव्यसाची परंतपः। सान्त्वपूर्वमिदं वाक्यमुवाच खचरान्रणे
नैतद्गन्धर्वराजस्य युक्तं कर्म जुगुप्सितम्। परदाराभिमर्शश्च मानुषैश्च समागमः
उत्सृजध्वं महावीर्यान्धृतराष्ट्रसुतानिमान्। दारांश्चैषां प्रमुञ्चध्वं धर्मराजस्य शासनात्
त एवमुक्ता गन्धर्वाः पाण्डवेन यशस्विना। उत्स्मयन्तस्तदा पार्थमिदं वचनमब्रुवन्
एकस्यैव वयं तात कुर्याम वचनं भुवि। यस्य शासनमाज्ञाय चरामो विगतज्वराः
तेनैकेन रकयथादिष्टं तथा वर्ताम भारत। न शास्ता विद्यतेऽस्माकमन्यस्तस्मात्सुरेश्वरात्
एवमुक्तः स गन्धर्वैः कुन्तीपुत्रो धनंजयः। गन्धर्वान्पुनरेवैतान्वचनं प्रत्यभाषत
यदि साम्ना न मुञ्चध्वं गन्धर्वा धृतराष्ट्रजान्। मोक्षयिष्यामि विक्रम्य स्वयमेव सुयोधनम्
एवमुक्त्वा ततः पार्थः सव्यसाची धनंजयः। ससर्ज निशितान्बाणान्खचरान्खचरान्प्रति
तथैव शरवर्षेण गन्धर्वास्ते बलोत्काटाः। पाण्डवानभ्यवर्तन्त पाण्डवाश्च दिवौकसः
ततः सुतुमुलं युद्धं गन्धर्वाणां तरस्विनाम्। बभूव भीमवेगानां च भात
ततो दिव्यास्त्रसंपन्ना गन्धर्वा हेममालिनः। विसृजन्तः शरान्दीप्तान्समन्तात्पर्यवारयन्
चतुरः पाण्डवान्वीरान्गन्धर्वाश्च सहस्रशः। रणे संन्यपतन्राजंस्तदद्भुतमिवाभवत्
यथा कर्णस्य च रथो धार्तराष्ट्रस् चोभयोः। गन्धर्वैः शतशश्छिन्नौ तथा तेषां प्रचक्रितरे
तान्समापततो राजन्गधर्वाञ्छतशो रणे। प्रत्यगृह्णन्नरव्याघ्राः शरवर्षैरनेकशः
ते कीर्यमाणाः खगमाः शरवर्षैः समन्ततः। न शेकुः पाण्डुपुत्राणां समीपे परिवर्तितुम्
अभिक्रुद्धानभिक्रुद्धो गन्धर्वानर्जुनस्तदा। लक्षयित्वाऽथ दिव्यानि महास्त्राण्युपचक्रमे
सहस्राणां सहस्राणि प्राहिणोद्यमसादनम्। अजेयानर्जुनः सङ्ख्ये गन्धर्वाणां बलोत्कटः
तथा भीमो महेष्वासः संयुगे बलिनांवरः। गन्धर्वाञ्शतशो राजञ्चघान निशितैः शरैः
माद्रीपुत्रावपि तथा युध्मानौ बलोत्कटौ। परिगृह्याग्रतो राजञ्जघ्नतुः शतशः परान्
तेवध्यमाना गन्धर्वा दिव्यैरस्त्रैर्महारथैः। उत्पेतुः खमुपादाय धृतराष्ट्रसुतांस्ततः