एतस्मिन्नन्तरे राजंश्चित्रसेनेन वै हृतः। विललाप सुदुःखार्तो नीयमानः सुयोधनः
युधिष्ठिर महाबाहो सर्वधर्मभृतांवर। सपुत्रान्सहदारांश्च गन्धर्वेण हृतान्बलात्
पाण्डुपुत्र महाबाहो कौरवाणां यशस्कर' सर्वधर्मभृतां श्रेष्ठ गन्धर्वेण हृतं बलात्। रक्षस्व पुरुषव्याघ्र युधिष्ठिर महायशः
भ्रातरं ते महाबाहो बद्ध्वा नयति मामयम्। दुश्शासनं दुर्विषहं दुर्मुखं दुर्जयं तथा
बद्ध्वा हरन्ति गन्धर्वा अस्मान्दारांश्च सर्वशः। अनुधावत मां क्षिप्रं रक्षध्वं पुरुषोत्तमाः
यमौ मामनुधावेतां रक्षार्थं मम सायुधौ। कुरुवंशस्य सुमहदयशः प्राप्तमीदृशम्। व्यपोहयध्वं गन्धर्वाञ्जित्वा वीर्येण पाण्डवाः
एवं विलपमानस्य कौरवस्यार्तया गिरा। श्रुत्वा विलापं संभ्रान्तो घृणयाऽभिपरिप्लुतः
युधिष्ठिरः पुनर्वाक्यं भीमसेनमथाब्रवीत्। सुयोधनस्य मोक्षाय प्रयतध्वमतन्द्रिताः
क इवार्यो दयेत्प्राणानभिधावेति चोदितः। प्राञ्जलं शरणापन्नं दृष्ट्वा शत्रुमपि ध्रुवम्
वरप्रदानं राज्यं च पुत्रजन्म च पाण्डवाः। शत्रोश्च मोक्षणं क्लेशास्त्रीणि चैकं च तत्समम्
न ह्यस्त्यधिकमेतस्माद्यदापन्नः सुयोधनः। त्वद्बाहुबलमाश्रित्य जीवितं परिमार्गते
स्वयमेव प्रधावेयं यदि न स्याद्वृकोदर। विततो मे क्रतुर्वीर न हि मेऽत्र विचारणा
साम्नैव तु यथा भीम मोक्षयेथाः सुयोधनम्। तथा सर्वैरुपायैस्त्वं यतेथाः कुरुनन्दन
न साम्ना प्रतिपद्येत यदि गन्धर्वराडसौ। पराक्रमेण मृदुना मोक्षयेथाः सुयोधनम्
अथासौ मृदुयुद्धेन न मुञ्चेद्भीम कौरवान्। सर्वोपायैर्पिमोच्यास्ते निगृह्य परिपन्थिनः
एतावद्धि मया शक्यं संदेष्टुं वै वृकोदर। वैताने कर्मणि तते वर्तमाने च भारत। `वरप्रदानं सुमहद्याचकस्य प्रकीर्तितम्
अजातसत्रोर्वचनं तच्छ्रुत्वा तु धनंजयः। प्रतिजज्ञे गुरोर्वाक्यं कौरवाणां विमोक्षणम्
यदि ककसाम्ना न मोक्ष्यन्ति गन्धर्वा धृतराष्ट्रजान्। अद्य गन्धर्वराजस्य भूमिः पास्यति शोणितम्
अर्जुनस्य तु तां श्रुत्वा प्रतिज्ञां सत्यवादिनः। कौरवाणां तदा राजन्पुनः प्रत्यागतं मनः
युधिष्ठिरवचः श्रुत्वा भीमसेनपुरोगमाः। प्रहृष्टवदनाः सर्वे समुत्तस्थुर्नरर्षभाः
अभेद्यानि ततः सर्वे समनह्यन्त भारत। जाम्बूनदविचित्राणि कवचानि महारथाः। आयुधानि च दिव्यानि विविधानि समादधुः
ते दंशिता रथैः सर्वे ध्वजिनः सशरासनाः। पाण्डवाः प्रत्यदृश्यन्त ज्वलिता इवपावकाः
तान्रथान्साधुसंपन्नान्संयुक्ताञ्जवनैर्हयैः। आस्थाय रथशार्दूलाः शीघ्रमेव ययुस्ततः
ततः कौरवसैन्यानां प्रादुरासीन्महास्वनः। प्रयातान्सहितान्दृष्ट्वा पाण्डुपुत्रान्महारथान्
जितकाशिनश्च स्वचरास्त्वरिताश्च महारथाः। क्षणेनैव वने तस्मिन्समाजग्मुरभीतवत्
न्यवर्तन्त ततः सर्वे गन्धर्वा जितकाशिनः। दृष्ट्वा रथगतान्वीरान्पाण्डवांश्चतुरो रणे
तांस्तु विभ्राजितान्दृष्ट्वा लोकपालानिवोद्यतान्। व्यूढानीका व्यतिष्ठन्त गन्धमादनवासिनः
राज्ञस्तु वचनं श्रुत्वा धर्मपुत्रस्य धीमतः। क्रमेण मृदुना युद्धमुपक्रान्तं च भारत
न तु गन्धर्वराजस्य सैनिका मन्दचेतसः। शक्यन्ते मृदुना श्रेयः प्रतिपादयितुं तदा
ततस्तान्युधि दुर्धर्षान्सव्यसाची परंतपः। सान्त्वपूर्वमिदं वाक्यमुवाच खचरान्रणे