ततो मणलूरुपतिकन्यायां चित्राङ्गदायामर्जुनः पुत्रमुत्पादयामास बभ्रुवाहनं नाम। एते त्रयोदश पुत्राः पाण्डवानाम्
विराटस्य दुहितरमुत्तरां नामाभिमन्युरुपेयेमे। तस्यामस्य परासुर्गर्भोऽजायत
तमुत्सङ्गे प्रतिजग्राह पृथा नियोगात्पुरुषोत्तमस्य। षाण्मासिकं गर्भमहं जीवयामि पादस्पर्शादिति वासुदेव उवाच
अहं जीवयामि कुमारमनन्तवीर्यं जात एवायमजायत। अभिमन्योः सत्येन चेयं पृथिवी धारयत्विति वासुदेवस्य पादस्पर्शात्सजीवोऽजायत। नाम तस्याकरोत्सुभद्रा
परिक्षीणे कुले जात उत्तरायां परंतपः। परिक्षिदभवत्तस्मात्सौभद्रात्तु यशस्विनः
परीक्षित्तु खलु भद्रवतीं नामोपयेमे। तस्यां तत्र भवाञ्जनमेजयः
जनमेजयात्तु भवतः खलु वपुष्टमायां पुत्रौ द्वौ शतानीकः शङ्कुकर्णश्च
शतानीकस्तु खलु वैदेहीमुपयेमे। तस्यामस्य जज्ञे पुत्रोऽश्वमेधदत्तः
इत्येष पूरोर्वंशस्तु पाण्डवानां च कीर्तितः। पूरोर्वंशमिमं श्रुत्वा सर्वपापैः प्रमुच्यते
राजोपरिचरो नाम धर्मनित्यो महीपतिः। बभूव मृगयाशीलः शश्वत्स्वाध्यायवाञ्छुचिः
स चेदिविषयं रम्यं वसुः पौरवनन्दनः। इन्द्रोपदेशाज्जग्राह रमणीयं महीपतिः
तमाश्रमे न्यस्तशस्त्रं निवसन्तं तपोनिधिम्। देवाः शक्रपुरोगा वै राजानमुपतस्थिरे
इन्द्रत्वमर्हो राजायं तपसेत्यनुचिन्त्य वै। तं सान्त्वेन नृपं साक्षात्तपसः संन्यवर्तयन्
न संकीर्येत धर्मोऽयं पृथिव्यां पृथिवीपते। त्वया हि धर्मो विधृतः कृत्स्नं धारयते जगत्
देवानहं पालयिता पालय त्वं हि मानुषान्।' लोके धर्मं पालय त्वं नित्ययुक्तः समाहितः। धर्मयुक्तस्ततो लोकान्पुण्यान्प्राप्स्यसि शाश्वतान्
दिविष्ठस्य भुविष्ठस्त्वं सखाभूतो मम प्रियः। ऊधः पृथिव्या यो देशस्तमावस नराधिप
पशव्यश्चैव पुण्यश्च प्रभूतधनधान्यवान्। स्वारक्ष्यश्चैव सौम्यश्च भोग्यैर्भूमिगुणैर्युतः
अर्थवानेष देशो हि धनरत्नादिभिर्युतः। वसुपूर्णा च वसुधा वस चेदिषु चेदिप
धर्मशीला जनपदाः सुसंतोषाश्च साधवः। न च मिथ्या प्रलापोऽत्र स्वैरेष्वपि कुतोऽन्यथा
न च पित्रा विभज्यन्ते पुत्रा गुरुहिते रताः। युञ्जते धुरि नो गाश्च कृशान्संधुक्षयन्ति च
सर्वे वर्णाः स्वधर्मस्थाः सदा चेदिषु मानद। न तेऽस्त्यविदितं किंचित्त्रिषु लोकेषु यद्भवेत्
दैवोपभोग्यं दिव्यं त्वामाकाशे स्फाटिकं महत्। आकाशगं त्वां मद्दत्तं विमानमुपपत्स्यते
त्वमेकः सर्वमर्त्येषु विमानवरमास्थितः। चरिष्यस्युपरिस्थो हि देवो विग्रहवानिव
ददामि ते वैजयन्तीं मालामम्लानपङ्कजाम्। धारयिष्यति सङ्ग्रामे या त्वां शस्त्रैरविक्षतम्
लक्षणं चैतदेवेह भविता ते नराधिप। इन्द्रमालेति विख्यातं धन्यमप्रतिमं महत्
यष्टिं च वैणवीं तस्मै ददौ वृत्रनिषूदनः। इष्टप्रदानमुद्दिश्य शिष्टानां प्रतिपालिनीम्
एवं संसान्त्व्य नृपतिं तपसः संन्यवर्तयत्। प्रययौ दैवतैः सार्धं कृत्वा कार्यं दिवौकसाम्
ततस्तु राजा चेदीनामिन्द्राभरणभूषितः। इन्द्रदत्तं विमानं तदास्थाय प्रययौ पुरीम्
तस्याः शक्रस्य पूजार्थं भूमौ भूमिपतिस्तदा। प्रवेशं कारयामास सर्वोत्सववरं तदा
मार्गशीर्षे महाराज पूर्वपक्षे महामखम्। ततःप्रभृति चाद्यापि यष्टेः क्षितिपसत्तमैः