यदाऽश्रौषं कलहद्यूतमूलं मायाबलं सौबलं पाण्डवेन। हतं सङ्ग्रामे सहदेवेन पापं तदा नाशंसे विजयाय संजय
यदाऽश्रौषं श्रान्तमेकं शयानं ह्रदं गत्वा स्तम्भयित्वा तदम्भः। दुर्योधनं विरथं भग्नशक्तिं तदा नाशंसे विजयाय संजय
यदाऽश्रौषं पाण्डवांस्तिष्ठमानान् गत्वा ह्रदे वासुदेवेन सार्धम्। अमर्षणं धर्षयतः सुतं मे तदा नाशंसे विजयाय संजय
यदाऽश्रौषं विविधांश्चित्रमार्गान् गदायुद्धे मण्डलशश्चरन्तम्। मिथ्या हतं वासुदेवस्य बुद्ध्या तदा नाशंसे विजयाय संजय
यदाऽश्रौषं द्रोणपुत्रादिभिस्तै- र्हतान्पञ्चालान्द्रौपदेयांश्च सुप्तान्। कृतं बीभत्समयशस्यं च कर्म तदा नाशंसे विजयाय संजय
यदाऽश्रौषं भीमसेनानुयाते- नाश्वत्थाम्ना परमास्त्रं प्रयुक्तम्। क्रुद्धेनैषीकमवधीद्येन गर्भं तदा नाशंसे विजयाय संजय
यदाऽश्रौषं ब्रह्मशिरोऽर्जुनेन स्वस्तीत्युक्त्वाऽस्त्रमस्त्रेण शान्तम्। अश्वत्थाम्ना मणिरत्नं च दत्तं तदा नाशंसे विजयाय संजय
यदाऽश्रौषं द्रोणपुत्रेण गर्भे वैराट्या वै पात्यमाने महास्त्रैः। संजीवयामीति हरेः प्रतिज्ञां तदा नाशंसे विजयाय संजय
द्वैपायनः केशवो द्रोणपुत्रं परस्पेरणाभिशापैः शशाप। बुद्ध्वा चाहं बुद्धिहीनोऽद्य सूत संतप्ये वै पुत्रपौत्रैश्च हीनः
शोच्या गान्धारी पुत्रपौत्रैर्विहीना तथा वध्वा पितृभिर्भ्रातृभिश्च। कृतं कार्यं दुष्करं पाण्डवेयैः प्राप्तं राज्यमसपत्नं पुनस्तैः
कष्टं युद्धे दश शेषाः श्रुता मे त्रयोऽस्माकं पाण्डवानां च सप्त। द्व्यूना विंशतिराहताऽक्षौहिणीनां तस्मिन्सङ्ग्रामे भैरवे क्षत्रियाणाम्
तमस्त्वतीव विस्तीर्णं मोह आविशतीव माम्। संज्ञां नोपलभे सूत मनो विह्वलतीव मे
इत्युक्त्वा धृतराष्ट्रोऽथ विलप्य बहु दुःखितः। मूर्च्छितः पुनराश्वस्तः संजयं वाक्यमब्रवीत्
संजयैवं गते प्राणांस्त्यक्तुमिच्छामि मा चिरम्। स्तोकं ह्यपि न पश्यामि फलं जीवितधारणे
तं तथा वादिनं दीनं विलपन्तं महीपतिम्। निःश्वसन्तं यथा नागं मुह्यमानं पुनः पुनः
गावल्गणिरिदं धीमान्महार्थं वाक्यमब्रवीत्
द्वैपायनस्य वदतो नारदस्य च धीमतः। महत्सु राजवंशेषु गुणैः समुदितेषु च
जातान्दिव्यास्त्रविदुषः शक्रप्रतिमतेजसः। धर्मेण पृथिवीं जित्वा यज्ञैरिष्ट्वाप्तदक्षिणैः
अस्मिँल्लोके यशः प्राप्य ततः कालवशं गतान्। शैब्यं महारथं वीरं सृंजयं जयतां वरम्।। 250 ||
बाह्लीकं दमनं चैद्यं शर्यातिमजितं नलम्
विश्वामित्रममित्रघ्नमम्बरीषं महाबलम्। मरुत्तं मनुमिक्ष्वाकुं गयं भरतमेव च
रामं दाशरथिं चैव शशबिन्दुं भगीरथम्। कृतवीर्यं महाभागं तथैव जनमेजयम्
ययातिं शुभकर्माणं देवैर्यो याजितः स्वयम्। `चैत्ययूपाङ्किता भूमिर्यस्येयं सवनाकरा
इति राज्ञां चतुर्विंशन्नारदेन सुरर्षिणा। पुत्रशोकाभितप्ताय पुरा श्वैत्याय कीर्तितम्
तेभ्यश्चान्ये गताः पूर्वं राजानो बलवत्तराः। महारथा महात्मानः सर्वैः समुदिता गुणैः
पूरुः कुरुर्यदुः शूरो विष्वगश्वो महाद्युतिः। अणुहो युवनाश्वश्च ककुत्स्थो विक्रमी रघुः
विजयो वीतिहोत्रोऽह्गो भवः श्वेतो बृहद्गुरुः। उशीनरः शतरथः कङ्को दुलिदुहो द्रुमः
दम्भोद्भवः परो वेनः सगरः संकृतिर्निमिः। अजेयः परशुः पुण्ड्रः शंभुर्देवावृधोऽनघः
देवाह्वयः सुप्रतिमः सुप्रतीको बृहद्रथः। महोत्साहो विनीतात्मा सुक्रतुर्नैषधो नलः
सत्यव्रतः शान्तभयः सुमित्रः सुबलः प्रभुः। जानुजङ्घोऽनरण्योऽर्कः प्रियभृत्यः शुचिव्रतः