एवं ब्रुवाणं कौन्तेयं भीमसेनमपस्वरम्। न कालः परुषस्यायमिति राजाऽभ्यभाषत
अस्मानभिगतांस्तात भयार्ताञ्छरणैषिणः। कौरवान्विषमप्राप्तान्कथं ब्रूयास्त्वमीदृशम्
भवन्ति भेदा ज्ञातीनां कलहाश्च वृकोदर। प्रसक्तानि च वैराणि ज्ञातिधर्मो न नश्यति
यदा तु कश्चिज्ज्ञातीनां बाह्यः प्रार्थयते कुलम्। न मर्षयन्ति तत्सन्तो बाह्येनाभिप्रधर्षणम्
जानात्येष हि दुर्बुद्धिरस्मानिह चिरोषितान्। स एवं परिभूयास्मानकार्षीदिदमप्रियम्
दुर्योधनस्य ग्रहणाद्गन्धर्वेण बलाद्रणे। स्त्रीणां बाह्याभिमर्शाच्च हतं भवति नः कुलम्
श्चरणं च प्रपन्नानां त्राणार्थं च कुलस्य च। उत्तिष्ठध्वं नरव्याघ्राः सज्जीभवत मा चिरम्
अर्जुनश्च यमौ चैव त्वं च भीमापराजितः। मोक्षयध्वं नरव्याघ्रा ह्रियमाणं सुयोधनम्
एते रथा नरव्याघ्राः सर्वशस्त्रसमन्विताः। धृतराष्ट्रस्य पुत्राणां विमला काञ्चनध्वजाः
सस्वनानधिरोहध्वं नित्यसज्जानिमान्रथान्। इन्द्रसेनादिभिः सूतैः कृतशस्त्रैरधिष्ठितान्
एतानास्थाय वै यत्ता गन्धर्वान्योद्धुमाहवे। सुयोधनस्य मोक्षाय प्रयतध्वमतनद्रिताः
परैः परिभवे प्राप्ते वयं पञ्चोत्तरं शतम्। परस्परविरोधे तु वयं पञ्चैव ते शतम्
य एव कश्चिद्राजन्यः शरणार्थमिहागतम्। परं शक्त्याभिरक्षेत किं पुनस्त्वं वृकोदर
एवमुक्तस्तु कौन्तेयः पुनर्वाक्यमभाषत। कोपसंरक्तनयनः पूर्ववैरमनुस्मरन्
पुरा जतुगृहेऽनेन दग्धुमस्मान्युधिष्ठिर। दुर्बुद्धिर्हि कृता वीर तदा दैवेन रक्षिताः
कालकूटविषं तीक्ष्णं भोजने मम भारत। उप्त्वा गङ्गां लतापाशैर्वैद्ध्वा च प्राक्षिपत्प्रभो
रसातलं च संप्राप्य तदा वासुकिमञ्जसा। तत्र दृष्ट्वा तु राजेन्द्रपुनः प्राप्तो महीतलम्
द्यूतकालेऽपिकौन्तेय वृजिनानि कृतनि वै। द्रौपद्याश्च पराभर्शः केशग्रहणमेव च। वस्त्रापहरणं चैव सभामध्ये कृतानि वै
राज्यं चाच्छिद्य राजेन्द्र उक्तवान्परुषाणि नः। पुरा कृतानां पापानां फलं भुङ्क्ते सुयोधनः
अस्माबिरेवकर्तव्यं धार्तराष्ट्रस्य निग्रहम्। अन्येन तु कृतं तद्वै मैत्र्यमस्माकमिच्छता। उपकारी तु गन्धर्वो मा राजन्विमना भव
एतस्मिन्नन्तरे राजंश्चित्रसेनेन वै हृतः। विललाप सुदुःखार्तो नीयमानः सुयोधनः
युधिष्ठिर महाबाहो सर्वधर्मभृतांवर। सपुत्रान्सहदारांश्च गन्धर्वेण हृतान्बलात्
पाण्डुपुत्र महाबाहो कौरवाणां यशस्कर' सर्वधर्मभृतां श्रेष्ठ गन्धर्वेण हृतं बलात्। रक्षस्व पुरुषव्याघ्र युधिष्ठिर महायशः
भ्रातरं ते महाबाहो बद्ध्वा नयति मामयम्। दुश्शासनं दुर्विषहं दुर्मुखं दुर्जयं तथा
बद्ध्वा हरन्ति गन्धर्वा अस्मान्दारांश्च सर्वशः। अनुधावत मां क्षिप्रं रक्षध्वं पुरुषोत्तमाः
यमौ मामनुधावेतां रक्षार्थं मम सायुधौ। कुरुवंशस्य सुमहदयशः प्राप्तमीदृशम्। व्यपोहयध्वं गन्धर्वाञ्जित्वा वीर्येण पाण्डवाः
एवं विलपमानस्य कौरवस्यार्तया गिरा। श्रुत्वा विलापं संभ्रान्तो घृणयाऽभिपरिप्लुतः
युधिष्ठिरः पुनर्वाक्यं भीमसेनमथाब्रवीत्। सुयोधनस्य मोक्षाय प्रयतध्वमतन्द्रिताः
क इवार्यो दयेत्प्राणानभिधावेति चोदितः। प्राञ्जलं शरणापन्नं दृष्ट्वा शत्रुमपि ध्रुवम्
वरप्रदानं राज्यं च पुत्रजन्म च पाण्डवाः। शत्रोश्च मोक्षणं क्लेशास्त्रीणि चैकं च तत्समम्