अचिन्त्य शरवर्षं तु गन्धर्वास्तस्य तं रथम्। दुर्योधनं जिघांसन्तः समन्तात्पर्यवारयन्
युगमीषां वरूथं च तथैव ध्वजसारथी। अश्वांस्त्रिवेणुमक्षं च तिलशो व्यधमञ्छरैः
दुर्योधनं चित्रसनो विरथं पतितं भुवि। अभिद्रुस्य महाबाहुर्जीवग्राहमथाग्रहीत्
तस्य बाहू महाराज बद्ध्वा रज्ज्वा महारथम्। आरोप्यस महाबाहुश्चित्रसेनो ननाद ह
तस्मिन्गृहीते राजेन्द्र स्थितं दुःशासनं रथे। पर्यगृह्णन्त गन्धर्वाः परिवार्य समन्ततः
विधिशतिं चित्रसेनमादायान्ये विदुद्रुवुः। विन्दानुविन्दावपरे राजदारांश्च सर्वशः
सेनास्तु धार्तराष्ट्रस्य गन्धर्वैः समभिद्रुताः। पूर्वं प्रभग्नैः सहिताः पाण्डवानभ्ययुस्तदा
शकटापणवेशाश्च यानयुग्यं च सर्वशः। शरणं पाण्डवाञ्जग्मुर्हियमाणे महीपतौ
प्रियदर्शी महाबाहो धार्तराष्ट्रो महाबलः। गन्धर्वैर्ह्रियते राजा पार्थास्तमनुधावत
दुःशासनो दुर्विषहो दुर्मुखो दुर्मुखो दुर्जयस्तथा। बद्ध्वा ह्रियन्ते गन्धर्वै राजदाराश्च सर्वशः
इतिदुर्योधनामात्याः क्रोशन्तो राजगृद्धिनः। आर्ता दीनास्ततः सर्वे युधिष्ठिरमुपागमन्
तांस्तथा व्यथितान्दीनान्भिक्षमाणान्युधिष्ठिरम्। वृद्धान्दुर्योधनामात्यान्भीमसेनोऽभ्यभाषत
महता हि प्रयत्नेन संनह्य गजवाजिभिः। अन्यथा वर्तमानानामर्थो जातोऽयमन्यथा
अस्माभिर्यदनुष्ठेयं गन्धर्वैस्तदनुष्ठितम्
दुर्मन्त्रितमिदं तावद्राज्ञो दुर्द्यूतदेविनः। `दीनान्दुर्योधनस्यास्मान्द्रष्टुकामस्य दुर्मतेः
द्वेष्टारमन्ये क्लीवस्य घातयन्तीति नः श्रुतम्। इदं कृतं नः प्रत्यक्षं गन्धर्वैरतिमानुषम्
दिष्ट्या लोके पुमानस्ति कश्चिदस्मन्प्रिये स्थितः। येनास्माकं हृतो भार आसीनानां सुखावहः
शीतवातातपसहांस्तपसा चैव कर्शितान्। समस्थो विषमस्थान्हि द्रष्टुमिच्छति दुर्मतिः
अधर्मचारिणस्तस्य कौरव्यस्य दुरात्मनः। ये शीलमनुवर्तन्ति ते पश्यन्ति पराभवम्
अधर्मो हि कृतस्तेन येनैतदुपलक्षितम्। अनृशंसास्तु कौन्तेयास्तत्प्रत्यक्षं ब्रवीमि वः
एवं ब्रुवाणं कौन्तेयं भीमसेनमपस्वरम्। न कालः परुषस्यायमिति राजाऽभ्यभाषत
अस्मानभिगतांस्तात भयार्ताञ्छरणैषिणः। कौरवान्विषमप्राप्तान्कथं ब्रूयास्त्वमीदृशम्
भवन्ति भेदा ज्ञातीनां कलहाश्च वृकोदर। प्रसक्तानि च वैराणि ज्ञातिधर्मो न नश्यति
यदा तु कश्चिज्ज्ञातीनां बाह्यः प्रार्थयते कुलम्। न मर्षयन्ति तत्सन्तो बाह्येनाभिप्रधर्षणम्
जानात्येष हि दुर्बुद्धिरस्मानिह चिरोषितान्। स एवं परिभूयास्मानकार्षीदिदमप्रियम्
दुर्योधनस्य ग्रहणाद्गन्धर्वेण बलाद्रणे। स्त्रीणां बाह्याभिमर्शाच्च हतं भवति नः कुलम्
श्चरणं च प्रपन्नानां त्राणार्थं च कुलस्य च। उत्तिष्ठध्वं नरव्याघ्राः सज्जीभवत मा चिरम्
अर्जुनश्च यमौ चैव त्वं च भीमापराजितः। मोक्षयध्वं नरव्याघ्रा ह्रियमाणं सुयोधनम्
एते रथा नरव्याघ्राः सर्वशस्त्रसमन्विताः। धृतराष्ट्रस्य पुत्राणां विमला काञ्चनध्वजाः
सस्वनानधिरोहध्वं नित्यसज्जानिमान्रथान्। इन्द्रसेनादिभिः सूतैः कृतशस्त्रैरधिष्ठितान्