अनुज्ञाताश्च गन्धर्वाश्चित्रसेनेन भारत। प्रगृहीतायुधाः सर्वे धार्तराष्ट्रानभिद्रवन्
तान्दृष्ट्वाऽऽपततः शीघ्रान्गन्धर्वानुद्यतायुधान्। प्राद्रवंस्ते दिशः सर्वे धार्तराष्ट्रस्य पश्यतः
तान्दृष्ट्वा द्रवतः सर्वान्धार्तराष्ट्रान्पराङ्मुखान्। राधेयस्तु तदा वीरो नासीत्तत्रपराङ्मुखः
आपतन्तीं तु संप्रेक्ष्य गन्धर्वाणां महाचमूम्। महता शरवर्षेण राधेयः प्रत्यवारयत्
क्षुरप्रैर्विशिखैर्भल्लैर्वत्सदन्तैस्तथाऽऽयसैः। गन्धर्वाञ्शतशोऽभिघ्नँल्लघुत्वात्सूतनन्दनः
पातयन्नुत्तमाङ्गानि गन्धर्वाणां महारथः। क्षणएन व्यधमत्सर्वां चित्रसेनस्य वाहिनीम्
ते वध्यमाना गन्धर्वाः सूतपुत्रेण धीमता। भूय एवाभ्यवर्तन्त शततशोऽथ सहस्रशः
गन्धर्वभूता पृथिवी क्षणेन समपद्यत। आपतद्भिर्महावेगैश्चित्रसेनस्य सैनिकैः
अथ दुर्योधनो राजा शकुनिश्चापि सौबलः। दुःशासनो विकर्णश्च ये चान्ये धृतराष्ट्रजाः। न्यहनंस्तत्तदा सैन्यं रथैर्गरुडनिःखनैः
सैन्यमायोधितं दृष्ट्वाकर्णो राजन्न मृष्यत
महता रथसङ्घेन रथचारेण चाप्युत। वैकर्तनं परीप्सन्तो गन्धर्वाः प्रत्यवारयन्। ततः संन्यपतन्सर्वे गन्धर्वाः कौरवं प्रति
तदा सुतुमुलं युद्धमभवद्रोमहर्षणम्। ततस्ते मृदवोऽभूवनगन्धर्वाः शरपीडिताः
उच्चुक्रुशुश्च कौरव्यागन्धर्वान्प्रेक्ष्य पीडितान्
गन्धर्वांस्त्रासितान्दृष्ट्वा चित्रसेनो ह्यमर्षणः। उत्पपातासनात्क्रुद्धो वधे तेषां समाहितः
ततो मायास्त्रमास्थाय युयुधे चित्रमार्गवित्। `वियत्संछादयामास न ववौ तत्र मारुतः
हस्त्यारोहा हताः पेतुर्हस्तिभिः सह भारत। हयारोहाः सह हयै रथैश्च रथिनस्तदा
पत्तयश्च तथापेतुर्विशस्ताः शरवृष्टिभिः'। तयाऽमुह्यन्त कौरव्याश्चित्रसेनस्य मायया
एकैको हि तदा योधो धार्तारष्ट्रस्य भारत। पर्यवार्यत गन्धर्वैर्दशभिर्दशभिर्युधि
ततः संपीड्यमानास्ते बलेन महता तदा। प्राद्रवन्त रणे भीता यत्रराजा युधिष्ठिरः
भज्यमानेष्वनीकेषु धार्तराष्ट्रेषु सर्वशः। कर्णो वैकर्तनो राजंस्तस्थौ गिरिरिवाचलः
दुर्योधनश्च तेजस्वी शकुनिश्चापि सौबलः। गन्धर्वान्योधयामासुः समरे भृशविक्षताः
सर्व एव तु गन्धर्वाः शतशोऽथ सहस्रशः। जिघांसमानाः संरब्धाः कर्णमभ्यद्रवत्रणे
असिभिः पट्टसैः शूलैर्गदाभिश्च महाबलाः। सूतपुत्रं जिघांसन्तः समन्तात्पर्यवारयन्
अन्येऽस्य युगमच्छिन्दन्ध्वजमन्ये न्यपातयन्। ईषामन्ये हयानन्ये सूतमन्ये न्यपातयन्
अन्ये च्छत्रं वरूथं च बन्धुरं च तथा परे। `अन्ये संचूर्णयामासुश्छत्रे चाक्षौ तथा परे
गन्धर्वा बहुसाहस्रास्तिलशो व्यधमन्रथम् ।। ततो रथादवप्लुत्य सूतपुत्रोऽसिचर्मभृत्
अंसावलम्बितधनुर्धावमानो महाबलः'। विकर्णरथमास्थाय मोक्षायाश्वानचोदयत्
गन्धर्वैस्तु महाराज भग्ने कर्णे महारथे। संप्राद्रवच्चमूः सर्वा धार्तराष्ट्रस्य पश्यतः
तान्दृष्ट्वा द्रवतः सर्वान्धार्तराष्ट्रान्पराङ्मुखान्। दुर्योधनो महाराजो नासीत्तत्र पराङ्मुखः
तामापतन्तीं संप्रेक्ष्य गन्धर्वाणां महाचमूम्। महता शरवर्षेण सोऽभ्यवर्षदरिंदमः