स ताञ्छरैर्विनिर्भिद्य गजांश्च सुबहून्वने। रमणीयेषु देशेषु ग्राहयामास वै मृगान्
गोरसानुपयुञ्जान उपभोगांशच् भारत। पश्यन्स रमणीयानि वनान्युपवनानि च
मत्तभ्रमरजुष्टानि बर्हिणाभिरुतानि च। अगच्छदानुपूर्व्येण पुण्यं द्वैतवनं सरः
मत्तभ्रमरसंजुष्टं नीलकण्ठरवाकुलम्। सप्तच्छदसमाकीर्णं पुन्नागवकुलैर्युतम्
ऋद्ध्या परमया युक्तो महेन्द्र इव वज्रभृत्। यदृच्छया च तत्रस्थो धर्मपुत्रो युधिष्ठिरः
ईजे राजर्षियज्ञेन साद्यस्केन विशांपते। दिव्येन विधिना चैव वन्येन कुरुसत्तम
विद्वद्भिः सहितो धीमान्ब्राह्मणैर्वनवासिभिः'। कृत्वा निवेशमभितः सरसस्तस्य कौरव। द्रौपद्या सहितो धीमान्धर्मपत्न्या नराधिपः
ततो दुर्योधनः प्रेष्यानादिदेश सहानुजः। आक्रीडावसथाञ्शीघ्रं कुरुध्वं सरसोऽभितः
ते तथेत्येव कौरव्यमुक्त्वा वचनकारिणः। चिकीर्षन्तस्तदाक्रीडाञ्जग्मुर्द्वैतवनं सरः
सेनाग्र्यं धार्तराष्ट्रस् प्राप्तं द्वैतवनं सरः
प्रविशन्तं वनद्वारि गन्धर्वाः समवारयन्। तत्र गन्धऱ्वराजो वै पूर्वमेव विशांपते। कुबेरभवनाद्राजन्नाजगाम गणावृतः
गणैरप्सरसां चैव त्रिदशानां तथाऽऽत्मजैः। विहारशीलैः क्रीडार्थं तेन तत्संवृतं सरः
तेन तत्संवृतं दृष्ट्वा ते राजपरिचारकाः। प्रतिजग्मुस्ततो राजन्यत्र दुर्योधनो नृपः
स तु तेषां वचः श्रुत्वा सैनिकान्युद्धदुर्मदान्। प्रेषयामास कौरव्य उत्सारयत तानिति
तस्य तद्वचनं श्रुत्वा राज्ञः सेनाग्रयायिनः। सरो द्वैनवनं गत्वा गन्धर्वानिदमब्रुवन्
राजा दुर्योधनो नाम धृतराष्ट्रसुतो बली। चिक्रीडिषुरिहायाति तदर्थमपसर्पत
एवमुक्तास्तु गन्धर्वाः रप्रहसन्तो विशांमपते। प्रत्यब्रुवंस्तान्पुरुषानिदं हि परुषं वचः
न चेतयति वो राजा मन्दबुद्धिः सुयोधनः। योऽस्मानाज्ञापयत्येवं वश्यानिव दिवौकसः
यूयं मुमूर्षवश्चापि मन्दप्रज्ञा न संशयः। ये तस् वचनादेवमस्मान्ब्रूथ विचेतसः
गच्छध्वं त्वरिताः सर्वे यत्र राजा स कौरवः। न चेदद्यैव गच्छध्वं धर्मराजनिवेशनम्
एवमुक्तास्तु गन्धर्वै राज्ञः सेनाग्रयायिनः। संप्राद्रवन्यतो राजा धृतराष्ट्रसुतोऽभवत्
ततस्ते सहिताः सर्वे दुर्याधनमुपागमन्। अब्रुवंश्च महाराज यदूचुः कौरवं प्रति
गन्धर्वैर्वारिते सैन्ये धार्तराष्ट्रः प्रतापवान्। अमर्षपूर्णः सैन्यानि प्रत्यभाषत भारत
शासतैनानधर्मज्ञान्मम विप्रियकारिणः। यदि प्रक्रीडते सर्वैर्देवैः सह शचीपतिः। `वयमत्र यथा प्रीता क्रीडिष्यामो निरङ्कुशं
दुर्योधनवचः श्रुत्वा धार्तराष्ट्रा महाबलाः। सर्व एवाभिसन्नद्धा योधाश्चापि सहस्रशः
ततः प्रमथ्य सर्वांस्तांस्तद्वनं विविशुर्बलात्। सिंहनादेन महता पूरयन्तो दिशो दश
ततोऽपरैरवार्यन्त गन्धर्वैः कुरुसैनिकाः। `साम्नैव रतत्र विक्रान्ता मा साहसमिति प्रभो
ते वार्यमाणा गन्धर्वैः साम्नैव वसुधायिप। ताननादृत्य गन्धर्वांस्तद्वनं विविशुर्महत्
यदि वाता न तिष्ठन्ति धार्तराष्ट्राः सराजकाः। ततस्ते खेचराः सर्वे चित्रसेने न्यवेदयन्
गन्धर्वराजस्तान्सर्वानब्रवीत्कौरवान्प्रति। अनार्याञ्शासतेत्येतांश्चित्रसेनोऽत्यमर्षणः