अथ दुर्योधनो राजा तत्रतत्र वने वसन्। जगाम घोषानभितस्तत्र चक्रे निवेशनम्
रमणीये समाज्ञाते सोदके समहीरुहे। देशे सर्वगुणोपेते चक्रुरावसथान्नराः
तथैव तत्समीपस्थान्पृथगावसथान्बहून्। कर्णस्य शकुनेश्चैव भ्रातॄणां चैव सर्वशः
पश्यन्तस्ते तदा गावः शतशोऽथ सहस्रशः। अङ्कर्लक्षैश्च ताः सर्वा लक्षयामास पार्थिवः
अङ्कयामास वत्सांश्च जज्ञे चोपसृतांस्त्वपि। बालवत्साश्च यां गावः कालयामास ता अपि
अथ स स्मारणं कृत्वा लक्षयित्वा त्रिहायनान्। वृतो गोपालकैः प्रीतो व्याहरत्कुरुनन्दनः
स च पौरजनः सर्वः सर्वः सैनिकाश्च सहस्रशः। यथोपजोषं चिक्रीडुर्वने तस्मिन्यथाऽमराः
ततोऽध्वगमनाच्छ्रान्तं कुशला नृत्यवादितैः। धार्तराष्ट्रमुपातिष्ठन्कन्याश्चैव स्वलंकृताः
स स्त्रीगणवृतो राजा प्रहृष्टः प्रददौ वसु। तेभ्यो यथार्हमन्नानि पानानि विविधानि च
ततस्ते सहिताः सर्वे तरक्षून्महिषान्मृगान्। गवयर्क्षवराहांश्च समन्तात्पर्यवारयन्
स ताञ्छरैर्विनिर्भिद्य गजांश्च सुबहून्वने। रमणीयेषु देशेषु ग्राहयामास वै मृगान्
गोरसानुपयुञ्जान उपभोगांशच् भारत। पश्यन्स रमणीयानि वनान्युपवनानि च
मत्तभ्रमरजुष्टानि बर्हिणाभिरुतानि च। अगच्छदानुपूर्व्येण पुण्यं द्वैतवनं सरः
मत्तभ्रमरसंजुष्टं नीलकण्ठरवाकुलम्। सप्तच्छदसमाकीर्णं पुन्नागवकुलैर्युतम्
ऋद्ध्या परमया युक्तो महेन्द्र इव वज्रभृत्। यदृच्छया च तत्रस्थो धर्मपुत्रो युधिष्ठिरः
ईजे राजर्षियज्ञेन साद्यस्केन विशांपते। दिव्येन विधिना चैव वन्येन कुरुसत्तम
विद्वद्भिः सहितो धीमान्ब्राह्मणैर्वनवासिभिः'। कृत्वा निवेशमभितः सरसस्तस्य कौरव। द्रौपद्या सहितो धीमान्धर्मपत्न्या नराधिपः
ततो दुर्योधनः प्रेष्यानादिदेश सहानुजः। आक्रीडावसथाञ्शीघ्रं कुरुध्वं सरसोऽभितः
ते तथेत्येव कौरव्यमुक्त्वा वचनकारिणः। चिकीर्षन्तस्तदाक्रीडाञ्जग्मुर्द्वैतवनं सरः
सेनाग्र्यं धार्तराष्ट्रस् प्राप्तं द्वैतवनं सरः
प्रविशन्तं वनद्वारि गन्धर्वाः समवारयन्। तत्र गन्धऱ्वराजो वै पूर्वमेव विशांपते। कुबेरभवनाद्राजन्नाजगाम गणावृतः
गणैरप्सरसां चैव त्रिदशानां तथाऽऽत्मजैः। विहारशीलैः क्रीडार्थं तेन तत्संवृतं सरः
तेन तत्संवृतं दृष्ट्वा ते राजपरिचारकाः। प्रतिजग्मुस्ततो राजन्यत्र दुर्योधनो नृपः
स तु तेषां वचः श्रुत्वा सैनिकान्युद्धदुर्मदान्। प्रेषयामास कौरव्य उत्सारयत तानिति
तस्य तद्वचनं श्रुत्वा राज्ञः सेनाग्रयायिनः। सरो द्वैनवनं गत्वा गन्धर्वानिदमब्रुवन्
राजा दुर्योधनो नाम धृतराष्ट्रसुतो बली। चिक्रीडिषुरिहायाति तदर्थमपसर्पत
एवमुक्तास्तु गन्धर्वाः रप्रहसन्तो विशांमपते। प्रत्यब्रुवंस्तान्पुरुषानिदं हि परुषं वचः
न चेतयति वो राजा मन्दबुद्धिः सुयोधनः। योऽस्मानाज्ञापयत्येवं वश्यानिव दिवौकसः
यूयं मुमूर्षवश्चापि मन्दप्रज्ञा न संशयः। ये तस् वचनादेवमस्मान्ब्रूथ विचेतसः
गच्छध्वं त्वरिताः सर्वे यत्र राजा स कौरवः। न चेदद्यैव गच्छध्वं धर्मराजनिवेशनम्