मृगयां चैव नो गन्तुमिच्छा संवर्धते भृशम्। स्मारणं तु चिकीर्षामो न तु पाण्डवदर्सनम्
न चानार्यसमाचारः कश्चित्तत्र भविष्यति। न च तत्र गमिष्यामो यत्र तेषां प्रतिश्रयः
एवमुक्तः शकुनिना धृतराष्ट्रो जनेश्वरः। दुर्योधनं सहामात्यमनुजज्ञे न कामतः
अनुज्ञातस्तु गान्धारिः कर्णेन सहितस्तदा। निर्ययौ भरतश्रेष्ठो बलेन महता वृतः
दुःशासनेन च तथा सौबलेन च धीमता। संवृतो भ्रातृभिश्चान्यैः स्त्रीभिश्चापि सहस्रशः
तं निर्यान्तं महाबाहुं द्रष्टुं द्वैतवनं सरः। पौराश्चानुययुः सर्वेसहदारा वनं च तत्
अष्टौ रथसहस्राणि त्रीणि नागायुतानि च। पत्तयो बहुसाहस्रा हयाश्च नवतिः शताः
शकटापणवेशाश्च वणिजो वन्दिनस्तथा। नराश्च मृगयाशीलाः शतशोऽथ सहस्रशः
ततः प्रयाणे नृपतेः सुमहानभवत्स्वनः। प्रावृषीव महावायोरुत्थितस्य विशांपते
गव्यूतिमात्रेन्यवसद्राजा दुर्योधनस्तदा। प्रयातो वाहनैः सर्वैस्ततो द्वैतवनं सरः
अथ दुर्योधनो राजा तत्रतत्र वने वसन्। जगाम घोषानभितस्तत्र चक्रे निवेशनम्
रमणीये समाज्ञाते सोदके समहीरुहे। देशे सर्वगुणोपेते चक्रुरावसथान्नराः
तथैव तत्समीपस्थान्पृथगावसथान्बहून्। कर्णस्य शकुनेश्चैव भ्रातॄणां चैव सर्वशः
पश्यन्तस्ते तदा गावः शतशोऽथ सहस्रशः। अङ्कर्लक्षैश्च ताः सर्वा लक्षयामास पार्थिवः
अङ्कयामास वत्सांश्च जज्ञे चोपसृतांस्त्वपि। बालवत्साश्च यां गावः कालयामास ता अपि
अथ स स्मारणं कृत्वा लक्षयित्वा त्रिहायनान्। वृतो गोपालकैः प्रीतो व्याहरत्कुरुनन्दनः
स च पौरजनः सर्वः सर्वः सैनिकाश्च सहस्रशः। यथोपजोषं चिक्रीडुर्वने तस्मिन्यथाऽमराः
ततोऽध्वगमनाच्छ्रान्तं कुशला नृत्यवादितैः। धार्तराष्ट्रमुपातिष्ठन्कन्याश्चैव स्वलंकृताः
स स्त्रीगणवृतो राजा प्रहृष्टः प्रददौ वसु। तेभ्यो यथार्हमन्नानि पानानि विविधानि च
ततस्ते सहिताः सर्वे तरक्षून्महिषान्मृगान्। गवयर्क्षवराहांश्च समन्तात्पर्यवारयन्
स ताञ्छरैर्विनिर्भिद्य गजांश्च सुबहून्वने। रमणीयेषु देशेषु ग्राहयामास वै मृगान्
गोरसानुपयुञ्जान उपभोगांशच् भारत। पश्यन्स रमणीयानि वनान्युपवनानि च
मत्तभ्रमरजुष्टानि बर्हिणाभिरुतानि च। अगच्छदानुपूर्व्येण पुण्यं द्वैतवनं सरः
मत्तभ्रमरसंजुष्टं नीलकण्ठरवाकुलम्। सप्तच्छदसमाकीर्णं पुन्नागवकुलैर्युतम्
ऋद्ध्या परमया युक्तो महेन्द्र इव वज्रभृत्। यदृच्छया च तत्रस्थो धर्मपुत्रो युधिष्ठिरः
ईजे राजर्षियज्ञेन साद्यस्केन विशांपते। दिव्येन विधिना चैव वन्येन कुरुसत्तम
विद्वद्भिः सहितो धीमान्ब्राह्मणैर्वनवासिभिः'। कृत्वा निवेशमभितः सरसस्तस्य कौरव। द्रौपद्या सहितो धीमान्धर्मपत्न्या नराधिपः
ततो दुर्योधनः प्रेष्यानादिदेश सहानुजः। आक्रीडावसथाञ्शीघ्रं कुरुध्वं सरसोऽभितः
ते तथेत्येव कौरव्यमुक्त्वा वचनकारिणः। चिकीर्षन्तस्तदाक्रीडाञ्जग्मुर्द्वैतवनं सरः
सेनाग्र्यं धार्तराष्ट्रस् प्राप्तं द्वैतवनं सरः