अहमप्यनुगच्छामि गमनायेतराय च। कल्यमेव गमिष्यामि समीपं पार्थिवस्य ह
मयि तत्रोपविष्टे तु भीष्मे च कुरुसत्तमे। उपायो यो भवेद्दृष्टस्तं ब्रूयाः सहसौबलः
ततो भीष्मस्य राज्ञश्च निशम्य रगमनं प्रति। व्यवसायं करिष्येऽहमनुनीय पितामहम्
तथेत्युक्त्वा तु ते सर्वेग्मुरावसथान्प्रति। व्युषितायां रजन्यां तु कर्णो राजानमभ्ययात्
ततो दुर्योधनं कर्णः प्रहसन्निदमब्रवीत्। उपायः परिदृष्टोऽयं तं निबोधजनेश्वर
घोषा द्वैतवने सर्वेत्वत्प्रतीक्षा नराधिप। घोषयात्रापदेशेन गमिष्यामो न संशयः
उचितं हि सदा गन्तुं घोषयात्रां विशांपते। एवं चेत्त्वां पिता राजन्समनुज्ञातुमर्हति
तथा कथयमानौ तु घोषयात्राविनिश्चयम्। गान्धारराजः शकुनिरित्युवाच हसन्निव
उपायोऽयंमया दृष्टो गमनाय निरामयः। अनुज्ञास्यतिनो राजा चोदयिष्यति चाप्युत
घोषा द्वैतव्रने सर्वेत्वत्प्रतीक्षा नराधिप। घोषयात्रापदेशेन गमिष्यामः सरः प्रति
ततः प्रहसिताः सर्वे तेऽन्योन्यस्य तलान्ददुः। तदेव च विनिश्चेत्य ददृशुः कुरुसत्तमम्
धृतराष्ट्रं ततः सर्वेददृशुर्जनमेजय। दृष्ट्वा सुखमथो राज्ञः पृष्टा राज्ञा च भारत
ततस्तैर्विहितः पूर्वं संगवो नाम वल्लवः। समीपस्थास्तदा गावो धृतराष्ट्रे न्यवेदयत्
अनन्तरं च राधेयः शकुनिश्च विशांपते। आहतुः पार्थिवश्रेष्ठं धृतराष्ट्रं जनाधिपम्
रमणीयेषु देशेषु घोषाः संप्रति कौरव। स्मारणे समयः प्राप्तो वत्सानामपि चाङ्कनम्
मृगया चोचिता राजन्नस्मिन्काले सुतस्यते। दुर्योधनस्य गमनं त्वमनुज्ञातुमर्हसि
मृगया शोभना तात गवां हि समवेक्षणम्। विस्रम्भस्तु न गन्तव्यो वल्लवानामिति स्मरे
ते तु तत्रनरव्याघ्राः समीप इति नः श्रुतम्। अतो नाभ्यनुजानामि गमनं तत्र वः स्वयम्
छद्मना निर्जितास्ते तु कर्शिताश्च महावने। तपोनित्याश्च राधेय समर्थाश्च महारथाः
धर्मराजो न संक्रुद्ध्येद्भीमसेनस्त्वमर्षणः। यज्ञसेनस् दुहिता तेज एवतु केवलम्
यूयंचाप्यपराध्येयुर्दर्पमोहसमन्विताः। ततो विनिर्दहेयुस्ते तपसा हि समन्विताः
अथवा सायुधावीरा मन्युनाऽभिपरिप्लुताः। सहिता बद्धनिस्त्रिशा दहेयुः शस्त्रतेजसा
अथ यूयं बहुत्वात्तान्नारभध्वं कथंचन। अनार्यं परमं तत्स्यादशक्यं तच्च वै मतम्
उषितो हि महाबाहुरिन्द्रलोके धनंजयः। दिव्यान्यस्त्राण्यवाप्याथ ततः प्रत्यागतो वनं
अकृतास्त्रेण पृथिवी जिता बीभत्सुना पुरा। किं पुनः सकृतास्त्रोऽद्य न हन्याद्वो महारथः
अथवा मद्वचः श्रुत्वा तत्र यत्ता भविष्यथ। उद्विग्रवासा विस्रब्धा दुःखं तत्रगमिष्यथ
अथवा सैनिकाः केचिदपकुर्युर्युधिष्ठिरे। तदबुद्धिकृतंकर्म दोषमुत्पादयेच्च वः
तस्मादन्ये नरा यान्तु स्मारणायाप्तकारिणः। न स्वयं तत्रगमनं रोचये तव भारत
धर्मज्ञः पाण्डवो ज्येष्ठः प्रतिज्ञातं च संसदि। तेन द्वादशवर्षाणि वस्तव्यानीति भारत
अनुवृत्ताश्च रतं सर्वे पाण्डवा धर्मचारिणः। युधिष्ठिरस्तु कौन्तेयो न नः कोपं करिष्यति