ते वयं पृथिवी राजन्निखिला सागराम्बरा। सपर्वतवना देवी सग्रामनगराकरा
नानावनोद्देशवती पत्तनैरुपशोभिता। `नानाजनपदाकीर्णा स्फीतराष्ट्रा महाहला
नन्द्यमानो द्विजै राजन्भासि नक्षत्रराडिव। पौरुषाद्दिवि देवेषु भ्राजसे रश्मिवानिव
रुद्रैरिव यमो राजा मरुद्भिरिव वासवः। कुरुभिस्त्वं वृतो राजन्भासि नक्षत्रराडिव
यैः स्म ते नाद्रियेताज्ञा न च ये शासने स्थिताः। पश्यामस्ताञ्श्रिया हीनान्पाण्डवान्वनवासिनः
श्रूयते हि महाराजसरो द्वैतवनं प्रति। वसन्तः पाण्डवाः सार्धं ब्राह्मणैर्वनवासिभिः
सप्रयाहि महाराज श्रिया परमया युतः। तापयन्पाण्डुपुत्रांस्त्वं रश्मिवानिव तेजसा
स्तितोराज्येऽच्युतान्राज्याच्छियाहीनाञ्छ्रियावृतः असमृद्धान्समृद्धार्थः पश्य पाण्डुसुतान्नृप
महाभिजनसंपन्नं भद्रे महति संस्थितम्। पाण्डवास्त्वाऽभिवीक्षन्तु ययातिमिव नाहुषां
यां श्रियं सुहृदश्चैव दुर्हृदश्च विशांपते। पश्यन्ति पौरुषैर्दीप्तां सा समर्था भवत्युत
समस्थो विषमस्थान्हि दुर्हृदो योऽभिवीक्षते। जगतीस्थनिवाद्रिस्थः किमतः परमं सुखम्
न पुत्रधनलाभेन न राज्येनापि विन्दति। प्रीतिं नृपतिशार्दूल याममित्राधदर्शनात्
किंनु तस्य सुखं न स्यादाश्रमे यो धनंजयम्। अभिवीक्षेत सिद्धार्थो वल्कलाजिनवाससम्
सुवाससो हि ते भार्या वल्कलाजिनसंवृताम्। पश्यन्तु दुःखितां कृष्णां सा च निर्विद्यतां पुनः
विनिन्दतां तथाऽत्मानं जीवितं च धनच्युतम्। `दाराणां ते श्रियं दृष्ट्वा दीप्तामद्य जनाधिपा
न तथा हि सभामध्ये तस्या भवितुमर्हति। वैमनस्यं यथा दृष्ट्वा तव भार्याः स्वलंकृताः
एवमुक्त्वा तु राजानं कर्णः शकुनिना सह। तूष्णीं बभूवतुरुभौ वाक्यान्ते जनमेजय
कर्णस्य वचनं श्रुत्वा राजा दुर्योधनस्ततः। हृष्टो भूत्वापुनर्दीनो राधेयमिदमब्रवीत्
ब्रवीषि यदिदं कर्ण सर्वं मनसि मे स्थितम्। न त्वभ्यनुज्ञां लप्स्यामि गमने यत्रपाण्डवाः
परिदेवति तान्वीरान्धृतराष्ट्रो महीपतिः। मन्यतेऽभ्यधिकांश्चापि तपोयोगेन पाण्डवान्
अथवाऽप्यनुबुध्येत नृपोऽस्माकं चिकीर्षितम्। एतामप्यायतिं रक्षन्नाभ्यनुज्ञातुमर्हति
न हि द्वैतवने किंचिद्विद्यतेऽन्यत्प्रयोजनम्। उन्माथनमृते तेषां वनस्थानामपि द्विषाम्
जानासिहि यथा क्षत्ता द्यूतकाल उपस्थिते। अब्रवीद्यच्च मां त्वां च सौबलं वचनं तदा
तानिसर्वाणि वाक्यानि यच्चान्यत्परिदेवितम्। विचिन्त्य निश्चय गच्छे गमनायेतराय वा
ममापि हिमहान्हर्षो यदहं भीमफल्गुनौ। क्लिष्टावरण्ये पश्येयं कृष्णया सहिताविति
न तथा ह्याप्नुयां प्रीतिमवाप्य वसुधामिमाम्। दृष्ट्वा यथा पाण्डुसुतान्वल्कलाजिनवाससः
किंनु स्यादधिकं तस्माद्यदहं द्रुपदात्मजाम्। द्रौपदीं कर्ण पश्येयं काषायवसनां वने
यदि मां दर्मराजश्च भीमसेनश्च पाण्डवः। युक्तं रपरमया लक्ष्म्या पश्येतां जीवितं भवेत्
उपायं न तु पश्यामि येन गच्छेम तद्वनम्। यथाचाभ्यनुजानीयाद्गच्छन्तं मां महीपतिः
स सौबलेन सहितस्तथा दुःशासनेन च। उपायं पश्य रनिपुणं येन गच्छेम तद्वनम्