गाण्डीवधन्वा च वृकोदरश्च संरम्भिणावन्तककालकल्पौ। न शेषयेतां युधि शत्रुसेनां शरान्किरन्तावनिप्रकाशान्
दुर्योधनः शकुनिः सूतपुत्रो दुःशासनश्चापि सुमन्दचेताः। मधु प्रपश्यन्ति न तु प्रपातं वृकोदरं चैव धनंजयं च
शुभाशुभं कर्म नरोहि कृत्वा प्रतीक्षतेचेत्स फलंविपाके। सतेन युज्यत्यवशः फलेन मोक्षः कथं स्यात्पुरुषस्य तस्मात्
क्षेत्रे सुकृष्टे ह्युपिते च बीजे देवेच वर्षत्यृतुकालयुक्तम्। न स्यात्फलंतस्य कुतः प्रसिद्धि- रन्यत्रदैवादिति नास्ति हेतुः
कृतं मताक्षेण यथा न साधु साधुप्रवृत्तेन च पाण्डवेन। मया च दुष्पुत्रवशानुगेन कृतः कुरूणामयमन्तकालः
ध्रुवं प्रशाम्यत्यसमीरितोऽग्नि- र्ध्रुवं प्रजास्यत्युत गर्भिणी या। ध्रुवं दिनादौ रजनीप्रणाश- स्तथा क्षपादौ च दिनप्रणाशः
कृतेच कस्मान्न परेच कुर्यु- र्दत्ते च दद्युः पुरुषाः कथंस्वित्। प्राप्यार्थकालं च भवेदनर्थः कथंचन स्यादितितत्कुतः स्यात्
कथं न भिद्येत न च स्रवेत न च प्रसिच्येदितिरक्षितव्यम्। अरक्ष्यमाणं शतधा प्रकीर्ये- द्भ्रुवं न नाशोऽस्ति कृतस्य लोके
गतो ह्यरण्यादपिशक्रलोकं धनंजयः पशय्त वीर्यमस्य। अस्त्राणि दिव्यानि चतुर्विधानि ज्ञात्वा पुनर्लोकमिमं प्रपन्नः
स्वर्गं हि गत्वा सशरीर एव को मानुषः पुनरागन्तुमिच्छेत्। अन्यत्रकालोपहताननेका- न्समीक्षमाणस्तुकुरून्मुमूर्षून्
धनुर्ग्राहश्चार्जुनः सव्यसाची धनुश्च तद्गाण्डिवं भीमवेगम्। अस्त्राणि दिव्यानि च तानि तस्य त्रयस्य तेजः प्रसहेत कोऽत्र
निशम्य तद्वचनं पार्थिवस्य दुर्योधनं रहिते सौबलोऽथ। अबोधयत्कर्णमुपेत्य सर्वं स चाप्यहृष्टोऽभवदल्पचेताः
धृतराष्ट्रस्य तद्वाक्यं निशम्य शकुनिस्तदा। दुर्योधनमिदं काले कर्णेन सहितोऽब्रवीत्
प्रव्राज्य पाण्डवान्वीरान्स्वेन वीर्येण भारत। भुङ्क्ष्वेमां पृथिवीमेको दिवि शम्बरहायथा
तवाद्यपृथिवी राजन्नखिला सागराम्बरा। सपर्वतवनाकारा सहस्थावरजङ्गमा
प्राच्याश्च दाक्षिणात्याश्च पतीच्योदीच्यवासिनः। कृताः करप्रदाः सर्वे राजानस्ते नाराधिप
या हि सा दीप्यमानेव पाण्डवान्भजते पुरा। साऽद्यलक्ष्मीस्त्वया राजन्नवाप्ता भ्रातृभिः सह
इन्द्रप्रस्थगते यां तां दीप्यमानां युधिष्ठिरे। अपश्याम श्रियं राजन्सुचिरं शोककर्शिताः
सा तु बुद्धिबलेनेयं राज्ञस्तस्मात्तथाविधात्। त्वयाक्षिप्ता महाबाहो दीप्यमानेव दृश्यते
तथैव तव राजेन्द्रराजानः परवीरहन्। शासनेऽधिष्ठिताः सर्वेकिं कुर्म इति वादिनः
ते वयं पृथिवी राजन्निखिला सागराम्बरा। सपर्वतवना देवी सग्रामनगराकरा
नानावनोद्देशवती पत्तनैरुपशोभिता। `नानाजनपदाकीर्णा स्फीतराष्ट्रा महाहला
नन्द्यमानो द्विजै राजन्भासि नक्षत्रराडिव। पौरुषाद्दिवि देवेषु भ्राजसे रश्मिवानिव
रुद्रैरिव यमो राजा मरुद्भिरिव वासवः। कुरुभिस्त्वं वृतो राजन्भासि नक्षत्रराडिव
यैः स्म ते नाद्रियेताज्ञा न च ये शासने स्थिताः। पश्यामस्ताञ्श्रिया हीनान्पाण्डवान्वनवासिनः
श्रूयते हि महाराजसरो द्वैतवनं प्रति। वसन्तः पाण्डवाः सार्धं ब्राह्मणैर्वनवासिभिः
सप्रयाहि महाराज श्रिया परमया युतः। तापयन्पाण्डुपुत्रांस्त्वं रश्मिवानिव तेजसा
स्तितोराज्येऽच्युतान्राज्याच्छियाहीनाञ्छ्रियावृतः असमृद्धान्समृद्धार्थः पश्य पाण्डुसुतान्नृप
महाभिजनसंपन्नं भद्रे महति संस्थितम्। पाण्डवास्त्वाऽभिवीक्षन्तु ययातिमिव नाहुषां
यां श्रियं सुहृदश्चैव दुर्हृदश्च विशांपते। पश्यन्ति पौरुषैर्दीप्तां सा समर्था भवत्युत