यास्ताः प्रव्राजपानां त्वां प्राहसन्दर्पमोहिताः। ताः क्षिप्रं हतसंकल्पा द्रक्ष्यसि त्वं कुरुस्त्रियः
तव दुःखोपपन्नाया यैराचरितमप्रियम्। विद्धि संप्रस्थितान्सर्वांस्तान्कृष्णे यमसादनम्
पुत्रस्ते प्रतिविन्ध्यश्च सुतसोमस्तथाविधः। श्रुतकर्माऽर्जुनिश्चैव शतानीकश्च नाकुलिः
सहदेवाच्च यो जातः श्रुतसेनस्तवात्मजः। सर्वेकुशलिनो वीराः कृतास्त्राश्च सुतास्तव
अभिमन्युरिव प्रीता द्वारवत्यां रता भृशम्। त्वमिवैषां सुभद्रा च प्रीत्या सर्वात्मना स्थिता
प्रीयते तव निर्द्वन्द्वा तेभ्यश्च विगतज्वरा। दुःखिता तेन दुःखेन सुखेन सुखिता तथा
भजेत्सर्वात्मना चैव प्रद्युम्नजननी तथा। भानुप्रभृतिभिश्चैनान्विशिनष्टि च केशवः
भोजनाच्छादने चैषां नित्यं मे श्वशुरः स्थितः। रामप्रभृतयः सर्वे भजन्त्यन्धकवृष्णयः
तुल्यो हिप्रणयस्तेषां प्रद्युम्नस्य च भामिनि। एवमादि प्रियं सत्यंहृद्यमुक्त्वा मनोनुगम्
गमनाय मनश्चक्रेवासुदेवरथं प्रति। तां कृष्णां कृष्णमहिषी चकाराभिप्रदक्षिणम्
आरुरोह रथं शौरेः सत्यभामाऽथ भामिनी। स्मयित्वातु यदुश्रेष्ठो द्रौपदीं परिसान्त्व्य च। उपावर्त्य ततः शीघ्रैर्हयैः प्रायात्परंतपः
एवं वने वर्तमाना नराग्र्याः शीतोष्णवातातपकर्शिताङ्गाः। सरस्तदासाद्यवनं च पुण्यं ततः परंकिमकुर्वन्त पार्थाः
सरस्तदासाद्य तु पाण्डुपुत्रा जनं समुत्सृज्य विधाय चेष्टम्। वनानि रम्याण्यथ पर्वतांश्च नदीप्रदेशांश्च तदा विचेरुः
तथा वने तान्वसतः प्रवीरान् स्वाध्यायवन्तश्च तपोधनाश्च। अभ्याययुर्वेदविदः पुराणा- स्तान्पूजयामासुरथो नराग्र्याः
ततः कदाचित्कुशलः कथासु विप्रोऽभ्यगच्छद्भुवि कौरवेयान्। स तैः समेत्याथ यदृच्छयैव वैचित्रवीर्यं नृपमभ्यगच्छत्
अथोपविष्टः प्रतिसत्कृतश्च वृद्धेन राज्ञा कुरुसत्तमेन। प्रचोदितः संकथयांबभूव धर्मानिलेन्द्रप्रभवान्यमौ च
कृशांश्च वातातपकर्शिताङ्गान् दुःखस्य चोग्रस् मुखे प्रपन्नान्। तां चाप्यनाथामिव वीरनाथां कृष्णां परिक्लेशगुणेन युक्ताम्
ततः कथास्तस्य निशम्य राजा वैचित्रवीर्यः कृपयाऽभितप्तः। वने तथा पार्थिवपुत्रपौत्रा- ञ्श्रुत्वा तथा दुःखनदींप्रपन्नान्
प्रोवाच दैन्याभिहतान्तरात्मा निश्वासवातोपहतस्तदानीम्। वाचं कथंचित्स्थिरतामुपेत्य तत्सर्वमात्मप्रभवं विचिन्त्य
कथंनु सत्यः शुचिरार्यवृत्तः श्रेष्ठः सुतानां मम धर्मराजः। अजातशत्रुः पृथिवीतले स्म शेते पुरा राङ्कवकूटशायी
प्रबोध्यते मागधसूतपुत्रै- र्नित्यं स्तुवद्भिः स्वयमिन्द्रकल्पः। पतत्रिसङ्घैः स जघन्यरात्रे प्रबोध्यते नूनमिलातलस्थः
कथंनु वातातपकर्शिताङ्गो वृकोदरः कोपपरिप्लुताङ्गः। शेते पृथिव्यामतथोचिताङ्गः कृष्णासमक्षं वसुधातलस्थः
तथाऽर्जुनः सुकुमारो मनस्वी वशे स्थितो धर्मसुतस्य राज्ञः। विदूयमानैरिव सर्वगात्रै- र्ध्रुवं न शेते वसतीरमर्षात्
यमौ च कृष्णां च युधिष्ठिरं च भीमं च दृष्ट्वा सुखविप्रयुक्तान्। विनिःश्वसन्सर्प इवोग्रतेजा ध्रुवं न शेते वसतीरमर्षात्
तथा यमौ चाप्यसुखौ सुखार्हौ समृद्धरीपावमरौ दिवीव। प्रजागरस्थौ ध्रुवमप्रशान्तौ क्रोधेन सत्येन च वार्यमाणौ
समीरणेनाथ समो बलेन समीरणस्यैवसुतो बलीयान्। स धर्मपासेन सितोऽग्रजेन ध्रुवं विनिःश्वस्य सहत्यमर्षम्
स चापिभूमौ परिवर्तमानो वधं सुतानां मम काङ्क्षमाणः। सत्येन धर्मेण च वार्यमाणः कालंप्रतीक्षत्यधिको रणेऽन्यैः
अजातशत्रौ तु जिते निकृत्या दुःशासनो यत्परुषाण्यवोचत्। तानि प्रविष्टानि वृकोदराङ्गं दहन्ति कक्षाग्निरिवेन्धनानि
न पापकं ध्यास्यति धर्मपुत्रो धनंजयश्चाप्यनुवर्त्स्यते तम्। अरण्यवासेन विवर्धते तु भीमस्य कोपोऽग्निरिवानिलेन
स तेन कोपेन विदीर्यमाणः करं करेणाभिनिपीड्यवीरः। विनिःश्वसत्युष्णमतीव घोरं दहन्निवेमां मम पुत्रसेनाम्