अभिपन्नाऽस्मि पाञ्चालि याज्ञसेनि क्षमस्व मे। कामकारः सखीनं हि सोपहासं प्रभाषितम्
इमं तु ते मार्गमपेतदोषं वक्ष्यामि चित्तग्रहणाय भर्तुः। अस्मिन्यथावत्सखि वर्तमाना भर्तारमाच्छेत्स्यसि कामिनीभ्यः
नैतादृशं दैवतमस्ति किंचि- त्सर्वेषुलोकेषु सदेवकेषु। यथा पतिस्तस्य तु सर्वकामा लभ्याः प्रसादे कुपितश् हन्यात्
तस्मादपत्यं विविधाश् भोगाः शय्यासनान्यद्भुतदर्शनानि। वस्त्राणि माल्यानि तथैव गन्धाः स्वर्गश्चलोको विपुला च कीर्तिः
सुखं सुखनेह न जातु लभ्यं दुःखेन साध्वी लभते सुखानि। सा कृष्णमाराधय सौहृदेन प्रेम्णा च नित्यं प्रतिकर्मणा च
स्नानासनैश्चारुभिरग्रमाल्यै- र्दाक्षिण्ययोगैर्विविधैश्च गन्धैः। अस्याः प्रियोस्मीति यथा विदित्वा त्वामेव संश्लिष्यति सर्वभावैः
श्रुत्वा स्वरं द्वारगतस् भर्तुः प्रत्युत्थिता तिष्ठ गृहस्य मध्ये। दृष्ट्वा प्रविष्टं त्वरिताऽसनेन पाद्येन चैनं प्रतिपूजयस्व
संप्रेषितायामथ चैव दास्या- मुत्थाय सर्वं स्वयमेव कार्यम्। जानातु कृष्णस्तव भावमेतं सर्वात्मना मां भजतीति सत्ये
त्वत्संनिधौ यत्कथयेत्पतिस्ते यद्यप्यगुह्यं परिरक्षितव्यम्। काचित्सपत्नी तव वासुदेवं प्रत्यादिशेत्तेन भवेद्विरागः
प्रियांश्च रम्यांश्च हितांश् भर्तु- स्तान्भोजयेथा रविविधैरुपायैः। द्वेष्यैरुपेक्ष्यैरहितैश् तस्य भिद्स्वनित्यं कुहकोद्धतैश्च
मदं प्रमादं पुरुषेषु हित्वा संयच्छ मानं प्रतिगृह् वाचम्। प्रद्युम्नसाम्बावपि ते कुमारौ नोपासितव्यौ रहिते कदाचित्
महाकुलीनाभिरपापिकाभिः स्त्रीभिः सतीभिस्तव सख्यमस्तु। चण्डाश् शौण्डाश्च महाशनाश्च चोराश्च दुष्टाश्चपलाश्च वर्ज्याः
एतद्यशस्यं भगवेतनं च स्वार्थं तदा शत्रुनिबर्हणं च। महार्हमाल्याभरणाङ्गरागा भर्तारमाराधय पुण्यगन्धैः
मार्कण्डेयादिभिर्विप्रैः पाण्डवैश्च महात्मभिः। कथाभिरनुकूलाभिः सह स्तित्वा जनार्दनः
ततस्तैः संविदं कृत्वा यथावन्मधुसूदनः। आरुरुक्षू रथं सत्यामाह्वयामास भारत
सत्यभामा ततस्तत्र स्वजित्वा द्रुपदात्मजाम्। उवाच वचनं हृद्यं यथाभावं समाहितम्
कृष्णे माभूत्तवोत्कण्ठा मा व्यथा मा प्रजागरः। भर्तृभिर्देवसंकाशैर्जितां प्राप्स्यसि मेदिनीम्
न ह्येवं शीलसंपन्ना नैवं पूजितलक्षणाः। प्राप्नुवन्ति चिरं क्लेशं यथा त्वमसितेक्षणे
अवश्यं च त्वया भूमिरियं निहतकण्टका। भर्तृभिः सहभोक्तव्या निर्द्वन्द्वेति श्रुतं मया
धार्तराष्ट्रवधं कृत्वावैराणि प्तियात्य च। युधिष्ठिरस्थां पृथिवीं द्रष्टासि द्रुपदात्मजे
यास्ताः प्रव्राजपानां त्वां प्राहसन्दर्पमोहिताः। ताः क्षिप्रं हतसंकल्पा द्रक्ष्यसि त्वं कुरुस्त्रियः
तव दुःखोपपन्नाया यैराचरितमप्रियम्। विद्धि संप्रस्थितान्सर्वांस्तान्कृष्णे यमसादनम्
पुत्रस्ते प्रतिविन्ध्यश्च सुतसोमस्तथाविधः। श्रुतकर्माऽर्जुनिश्चैव शतानीकश्च नाकुलिः
सहदेवाच्च यो जातः श्रुतसेनस्तवात्मजः। सर्वेकुशलिनो वीराः कृतास्त्राश्च सुतास्तव
अभिमन्युरिव प्रीता द्वारवत्यां रता भृशम्। त्वमिवैषां सुभद्रा च प्रीत्या सर्वात्मना स्थिता
प्रीयते तव निर्द्वन्द्वा तेभ्यश्च विगतज्वरा। दुःखिता तेन दुःखेन सुखेन सुखिता तथा
भजेत्सर्वात्मना चैव प्रद्युम्नजननी तथा। भानुप्रभृतिभिश्चैनान्विशिनष्टि च केशवः
भोजनाच्छादने चैषां नित्यं मे श्वशुरः स्थितः। रामप्रभृतयः सर्वे भजन्त्यन्धकवृष्णयः
तुल्यो हिप्रणयस्तेषां प्रद्युम्नस्य च भामिनि। एवमादि प्रियं सत्यंहृद्यमुक्त्वा मनोनुगम्
गमनाय मनश्चक्रेवासुदेवरथं प्रति। तां कृष्णां कृष्णमहिषी चकाराभिप्रदक्षिणम्