नैतामतिशये जातु वस्त्रभूषणभोजनैः। न वदे चाप्यतिवाचा तां पृथां पृथिवीसमाम्
अष्टावग्रे ब्राह्मणानां सहस्राणि स्म नित्यदा। भुञ्जते रुक्मपात्रीषु युधिष्ठिरनिवेशने
अष्टाशीतिसहस्राणि स्नातका गृहमेधिनः। त्रिंशद्दासीक एकैको यान्विभर्ति युधिष्ठिरः
दशान्यानि सहस्राणि येषामन्नं सुसंस्कृतम्। ह्रियते रुक्मपात्रीभिर्यतीनामूर्ध्वरेतसाम्
तान्सर्वानग्रहारेण ब्राह्मणान्वेदवादिनः। यथार्हं पूजयामि स्म पानाच्छादनभोजनैः
शतं दासीसहस्राणि कौन्तेयस्य महात्मनः। कम्बुकेयूरधारिण्यो निष्ककण्ठ्यः स्वलंकृताः
महार्हमाल्याभरणाः सुवर्णाश्चन्दनोक्षिताः। मणीन्हेम च विभ्रत्यो नृत्तगीतविशारदाः
तासां नाम च रूपंच भोजनाच्छादनानि च। सर्वासामेव वेदाहं कर्म चैव कृताकृतम्
शतं दासीसहस्राणि कुन्तीपुत्रस्य धीमतः। पात्रीपस्ता दिवारात्रमतिथीन्भोजयन्त्युत
शतमश्वसहस्राणि दशनागायुतानि च। युधिष्ठिरस्यानुयात्रमिन्द्रप्रस्थनिवासिनः
एतदासीत्तदा राज्ञो यन्महीं पर्यपालयत्। येषां सङ्ख्याविधिं चैव प्रदिशामि शृणोमि च
अन्तःपूराणां सर्वेषां भृत्यानां चैव सर्वशः। आगोपालाविपालेभ्यः सर्वं वेद कृताकृतम्
सर्वं राज्ञः समुदयमायं च व्ययमेव च। एकाऽहंवेद्मि कल्याणि पाण्डवानां यशस्विनि
मयि सर्वं समासज्यकुटुम्बं भरतर्षभाः। उपासनरताः सर्वे घटयन्ति वरानने
तमहं भारमासक्तमनाधृष्यं दुरात्मभिः। सुखं सर्वंपरित्यज्यरात्र्यहानि घटामि वै
अधृष्यं वरुणस्येव निधिपूर्णमिवोदधिम्। एकाहं वेद्मि कोशं वै पतीनां धर्मचारिणाम्
अनिशायां निशायां च विहाय क्षुत्पिपासयोः। आराधयन्त्याः कौरव्यांस्तुल्या रात्रिरहश्च मे
प्रथमं प्रतिबुध्यामि चरमं संविशामि च। नित्यकालमहं सत्ये एतत्संवननं मम
एतज्जानाम्यहं कर्तुं भर्तृसंवननं महत्। असत्स्त्रीणां समाचारं नाहं कुर्यां न कामये
तच्छ्रुत्वा धर्मसहितं व्याहृतं कृष्णया तदा। उवाच सत्या सत्कृत्य पाञ्चालीं धर्मचारिणीं
अभिपन्नाऽस्मि पाञ्चालि याज्ञसेनि क्षमस्व मे। कामकारः सखीनं हि सोपहासं प्रभाषितम्
इमं तु ते मार्गमपेतदोषं वक्ष्यामि चित्तग्रहणाय भर्तुः। अस्मिन्यथावत्सखि वर्तमाना भर्तारमाच्छेत्स्यसि कामिनीभ्यः
नैतादृशं दैवतमस्ति किंचि- त्सर्वेषुलोकेषु सदेवकेषु। यथा पतिस्तस्य तु सर्वकामा लभ्याः प्रसादे कुपितश् हन्यात्
तस्मादपत्यं विविधाश् भोगाः शय्यासनान्यद्भुतदर्शनानि। वस्त्राणि माल्यानि तथैव गन्धाः स्वर्गश्चलोको विपुला च कीर्तिः
सुखं सुखनेह न जातु लभ्यं दुःखेन साध्वी लभते सुखानि। सा कृष्णमाराधय सौहृदेन प्रेम्णा च नित्यं प्रतिकर्मणा च
स्नानासनैश्चारुभिरग्रमाल्यै- र्दाक्षिण्ययोगैर्विविधैश्च गन्धैः। अस्याः प्रियोस्मीति यथा विदित्वा त्वामेव संश्लिष्यति सर्वभावैः
श्रुत्वा स्वरं द्वारगतस् भर्तुः प्रत्युत्थिता तिष्ठ गृहस्य मध्ये। दृष्ट्वा प्रविष्टं त्वरिताऽसनेन पाद्येन चैनं प्रतिपूजयस्व
संप्रेषितायामथ चैव दास्या- मुत्थाय सर्वं स्वयमेव कार्यम्। जानातु कृष्णस्तव भावमेतं सर्वात्मना मां भजतीति सत्ये
त्वत्संनिधौ यत्कथयेत्पतिस्ते यद्यप्यगुह्यं परिरक्षितव्यम्। काचित्सपत्नी तव वासुदेवं प्रत्यादिशेत्तेन भवेद्विरागः
प्रियांश्च रम्यांश्च हितांश् भर्तु- स्तान्भोजयेथा रविविधैरुपायैः। द्वेष्यैरुपेक्ष्यैरहितैश् तस्य भिद्स्वनित्यं कुहकोद्धतैश्च