यदैव भर्ता जानीयानमन्त्रमूलपरां स्त्रियम्। उद्विजेत तदैवास्याः सर्पाद्वेश्मगतादिव
उद्विग्नस्य कुतः शान्तिरशान्तस्य कुतः सुखम्। न जातु वशगो भर्ता स्त्रियाः स्यान्मन्त्रकारणात्
किमत्रप्रहिताश्चापि गदाः परमदारुणाः। मूलप्रवादैर्हि विषं प्रयच्छन्ति जिघांसवः बब
जिह्वया यानि पुरुषस्त्वचा वाप्युपसेवते। तत्र चूर्णानि दत्तानि हन्युः क्षिप्रमसंशयम्
जलोदरसमायुक्ताः श्वित्रिणः पलितास्तथा। अपुमांसः कृताः स्त्रीभिर्जडान्धवधिरास्तथा
पापानुगास्तु पापास्ताः पतीनुपसृजन्त्युत। न जातु विप्रियं भर्तुः स्त्रिया कार्यं कथंचन
वर्ताम्यहं तु यां वृत्तिं पाण्डवेषु महात्मसु। तां सर्वां शृणु मे सत्यां सत्यभामे यशस्विनि
अहंकारं विहायाहं कामक्रोधौ च सर्वदा। सदारान्पाण्डवान्नित्यं प्रयतोपचराम्यहम्
प्रणयं प्रतिसंहृत्य निधायात्मानमात्मनि। शुश्रूषुर्निरभीमाना पतीनां चित्तरक्षिणी
दुर्व्याहृताच्छङ्कमाना दुस्थिताद्दुरवेक्षितात्। दुरासिताद्दुर्व्रजितादिङ्गिताध्यासितादपि
सूर्यवैश्वानरसमान्सोमकल्पान्महारथान्। सेवे चक्षुर्हणः पार्थानुग्रवीर्यप्रतापिनः
देवो मनुष्यो गन्धर्वो युवा चापि स्वलंकृतः। द्रव्यवानभिरूपो वा न मेऽन्यः पुरुषो मतः
न भुक्तवति न स्नाते नासंविष्टे च भर्तरि। न संविशामि नाश्नामि न स्नाये कर्म कुर्वती
क्षेत्राद्वनाद्वा ग्रामाद्वा भर्तारं गुहमागतम्। अभ्युत्थायाभिनन्दामि आसनेनोदकेन च
प्रसन्नभाण्डा मृष्टान्ना काले भोजनदायिनी। संयता गुप्तधान्या च सुसंमृष्टनिवेशना
अतिरस्कृतसंभाषा दुःस्त्रियो नानुसेवती। अनुकूलवती नित्यं भवाम्यनलसा सदा
अनर्म चापि हसितं द्वारि स्थानमभीक्ष्णशः। अवस्करे चिरस्थानं निष्कुटेषु च वर्जये
अत्यालापमसन्तोषं परव्यापारसंकथाः'। अतिहासातिरोषौ च क्रोधस्थानं च वर्जये
निरताऽहं सदा सत्ये पापानां च विवर्जने। सर्वथा भर्तुरहितं न ममेष्टं कथंचन
यदा प्रवसते भर्ता कुटुम्बार्थेन केनचित्। सुमनोवर्णकापेता भवामि व्रतचारिणी
यच्च भर्ता न पिबति यच्च भर्ता न सेवते। यच्च नाश्नाति मे भर्ता सर्वं तद्वर्जयाम्यहम्
यथोपदेशं नियता वर्तमाना वराङ्गने। स्वलंकृता सुप्रयता भर्तुः प्रियहिते रता
ये च धर्माः कुटुम्बेषु श्वश्र्वामे कथिताः पुरा। `अनुतिष्ठामि तान्सत्ये नित्यकालमतन्द्रिता
भिक्षाबलिश्राद्धविधिस्थालीपाकाश्च पर्वसु। मान्यानां मानसत्कारा ये चान्ये विदिता मम
तान्सर्वाननुवर्तामि दिवारात्रमतन्द्रिता। विनयाननियमांश्चैव सदा सर्वात्मना श्रिता
मृदून्सतः सत्यशीलान्सत्यधर्मानुपालिनः। स देवः सा गतिर्नार्यास्तस्य का विप्रियं चरेत्
पत्याश्रयो हि मे धर्मो मतः स्त्रीणां सनातनः। स देवः सा गतिर्नार्यास्तस्य काविप्रियं चरेत्
अहं पतीन्नातिशये नात्यश्ने नातिभूषये। नापि श्वश्रूं परिवदे सर्वदा परियन्त्रिता
अवधानेन सुभगे नित्योत्थिततयैव च। भर्तारो वशगा मह्यं गुरुशुश्रूषयैव च
नित्यमार्यामहं कुन्तीं वीरसूं सत्यवादिनीम्। स्वयं परिचराम्यतां पानाच्छादनभोजनैः