भीष्मस्तु खलु पितुः प्रियचिकीर्षया सत्यवतीमानयामास मातरं। यामाहुः कालीति
तस्यां पूर्वं पुराशरात्कन्यागर्भो द्वैपायनः। तस्यामेव शन्तनोर्द्वौ पुत्रौ बभूवतुः चित्राङ्गदो विचित्रवीर्यश्च
चित्राङ्गदस्तु प्राप्तराज्य एव गन्धर्वेण निहृतः। ततो विचित्रवीर्यो राजा बभूव
विचित्रवीर्यस्तु खलुकाशिराजस्य सुते अम्बिकाम्बालिके उदवहत्। विचित्रवीर्योऽनुत्पन्नापत्य एव विदेहत्वं प्राप्तः
ततः सत्यवती चिन्तयामास कथं नु खलु शन्तनोः पिण्डविच्छेदो न स्यादिति
साथ द्वैपायनं चिन्तयामास सोऽग्रतः स्थितः किं करवाणीति। तं सत्यवत्युवाच भ्राता तेऽनपत्य एव स्वर्गतः तस्यार्थेऽपत्यमुत्पादयेति
स परमित्युवाच स तत्र त्रीन्पुत्रानुत्पादयामास धृतराष्ट्रं पाण्डुं विदुरं चेति
धृतराष्ट्रात्पुत्रशतं बभूव गान्धार्यां वरदानाद्द्वैपायनस्य तेषां च धार्तराष्ट्राणां चत्वारः प्रधानाः दुर्योधनो दुश्शासनो विकर्णश्चित्रसेनश्चेति
पाण्डोस्तु कुन्ती माद्रीति स्त्रीरत्ने बभूवतुः। स मृगयां चरन्मैथुनगतमृषिं मृगचारिणं बाणेन जघान
स बाणविद्ध उवाच पाण्डुम्। अत्र श्लोको भवति
योऽकृतार्थं हि मां ग्रूर बाणेनाघ्ना मृगव्रतम्। त्वामप्येतादृशो भावः क्षिप्रमेवागमिष्यति
इति मृगव्रतचारिणा ऋषिणा शप्तः। स विषण्णरूपः पाण्डुस्तं शापं परिहरन्नोपसर्पति भार्ये
कदाचित्स आह। स्वचापल्यादिदं प्राप्तवानहम्। पुराणेषु पठ्यमानं शृणोमि नानपत्यस्य लोकाः सन्तीति
सा त्वं मदर्थे पुत्रानुत्पादयेति कुन्तीमुवाच
सा कुन्ती पुत्रानुत्पादयामास धर्माद्युधिष्ठिरं मारुताद्भीमसेनमिन्द्रादर्जुनमिति। स हृष्टरूपः पाण्डुरुवाच। इयं ते सपत्नी भवति माद्र्यनपत्या व्रीडिता साध्वी अस्यामपत्यमुत्पाद्यतामिति
सा कुन्ती तस्यै माद्र्यै तथेति व्रतमादिदेश। ततस्तस्यां नकुलसहदेवौ यमावश्विभ्यां जज्ञाते
माद्रीं तु खलु स्वलङ्कृतां दृष्ट्वा पाण्डुर्भावं चक्रे। स तां प्राप्यैव विदेहत्वं प्राप्तः
ततस्तेन सह चितामन्वारुरोह माद्री। कुन्तीं चोवाच यमयोरार्ययाऽप्रमत्तया भवितव्यमिति
ततः पञ्चपाण्डवान्सह कुन्त्या हास्तिनपुरं नयन्ति स्म तपस्विनः
तत्र भीष्माय धृतराष्ट्रविदुरयोः पाण्डोः स्वर्गगमनं याथातथ्यं निवेदयन्तिस्म तपस्विनः
पाण्डवान्सह कुन्त्या जतुगृहे दाहयितुकामो धृतराष्ट्रात्मजोऽभूत्
तांश्च विदुरो मोक्षयामास। ततो भीमो हिडिम्बं हत्वा पुत्रमुत्पादयामास हिडिम्बायां घटोत्कचं नाम
ततश्चैकचक्रां जग्मुः कुशलिनः। ततः पाञ्चालविषयं गत्वा स्वयंवरे द्रौपदीं लब्ध्वाऽर्धराज्यं प्राप्येन्द्रप्रस्थनिवासिनस्तस्यां पुत्रानुत्पादयामासुर्द्रौपद्याम्
श्रुतसेनं सहदेव इति
शैव्यस्य कन्यां देवकीं नामोपयेमे युधिष्ठिरः। तस्यां पुत्रं जनयामास यौधेयं नाम
भीमसेनस्तु वाराणस्यां काशिराजकन्यां जलन्धरां नामोपयेमे स्वयंवरस्थां। तस्यामस्य जज्ञे शर्वत्रातः
अर्जुनस्तु खलु द्वारवतीं गत्वा भगवतो वासुदेवस्य भगिनीं सुभद्रां नामोदवहद्भार्यां। तस्यामभिमन्युं नाम पुत्रं जनयामास
नकुलस्तु खलु चैद्यां रेणुमतीं नामोदवहत्। तस्यां पुत्रं जनयामास निरमित्रं नाम
सहदेवस्तु खलु माद्रीमेव स्वयंवरे विजयां नामोदवहद्भार्याम्। तस्यां पुत्रं जनयामास सुहोत्रं नाम
भीमसेनश्च पूर्वमेव हिडिम्बायां राक्षस्यां पुत्रमुत्पादयामास घटोत्कचं नाम। अर्जुनस्तु नागकन्यायामुलूप्यामिरावन्तं नाम पुत्रं जनयामास